chevron_left विराट पर्व अध्याय ५६
वैशम्पाय़न उवाच:
ततो वैकर्तनं जित्वा पार्थो वैराटिमव्रवीत् |
१ क
वैशम्पाय़न उवाच:
एतन्मां प्रापय़ानीकं यत्र तालो हिरण्मय़ः ||
१ ख
वैशम्पाय़न उवाच:
अत्र शान्तनवो भीष्मो रथेऽस्माकं पितामहः |
२ क
वैशम्पाय़न उवाच:
काङ्क्षमाणो मय़ा युद्धं तिष्ठत्यमरदर्शनः |
२ ख
वैशम्पाय़न उवाच:
आदास्याम्यहमेतस्य धनुर्ज्यामपि चाहवे ||
२ ग
वैशम्पाय़न उवाच:
अस्यन्तं दिव्यमस्त्रं मां चित्रमद्य निशामय़ |
३ क
वैशम्पाय़न उवाच:
शतह्रदामिवाय़ान्तीं स्तनय़ित्नोरिवाम्वरे ||
३ ख
वैशम्पाय़न उवाच:
सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम |
४ क
वैशम्पाय़न उवाच:
दक्षिणेनाथ वामेन कतरेण स्विदस्यति |
४ ख
वैशम्पाय़न उवाच:
इति मां सङ्गताः सर्वे तर्कय़िष्यन्ति शत्रवः ||
४ ग
वैशम्पाय़न उवाच:
शोणितोदां रथावर्तां नागनक्रां दुरत्ययाम् |
५ क
वैशम्पाय़न उवाच:
नदीं प्रस्यन्दय़िष्यामि परलोकप्रवाहिनीम् ||
५ ख
वैशम्पाय़न उवाच:
पाणिपादशिरःपृष्ठवाहुशाखानिरन्तरम् |
६ क
वैशम्पाय़न उवाच:
वनं कुरूणां छेत्स्यामि भल्लैः संनतपर्वभिः ||
६ ख
वैशम्पाय़न उवाच:
जय़तः कौरवीं सेनामेकस्य मम धन्विनः |
७ क
वैशम्पाय़न उवाच:
शतं मार्गा भविष्यन्ति पावकस्येव कानने |
७ ख
वैशम्पाय़न उवाच:
मय़ा चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम् ||
७ ग
वैशम्पाय़न उवाच:
असम्भ्रान्तो रथे तिष्ठ समेषु विषमेषु च |
८ क
वैशम्पाय़न उवाच:
दिवमावृत्य तिष्ठन्तं गिरिं भेत्स्यामि धारिभिः ||
८ ख
वैशम्पाय़न उवाच:
अहमिन्द्रस्य वचनात्सङ्ग्रामेऽभ्यहनं पुरा |
९ क
वैशम्पाय़न उवाच:
पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च ||
९ ख
वैशम्पाय़न उवाच:
अहमिन्द्राद्दृढां मुष्टिं व्रह्मणः कृतहस्तताम् |
१० क
वैशम्पाय़न उवाच:
प्रगाढं तुमुलं चित्रमतिविद्धं प्रजापतेः ||
१० ख
वैशम्पाय़न उवाच:
अहं पारे समुद्रस्य हिरण्यपुरमारुजम् |
११ क
वैशम्पाय़न उवाच:
जित्वा षष्टिसहस्राणि रथिनामुग्रधन्विनाम् ||
११ ख
वैशम्पाय़न उवाच:
ध्वजवृक्षं पत्तितृणं रथसिंहगणाय़ुतम् |
१२ क
वैशम्पाय़न उवाच:
वनमादीपय़िष्यामि कुरूणामस्त्रतेजसा ||
१२ ख
वैशम्पाय़न उवाच:
तानहं रथनीडेभ्यः शरैः संनतपर्वभिः |
१३ क
वैशम्पाय़न उवाच:
एकः सङ्कालय़िष्यामि वज्रपाणिरिवासुरान् ||
१३ ख
वैशम्पाय़न उवाच:
रौद्रं रुद्रादहं ह्यस्त्रं वारुणं वरुणादपि |
१४ क
वैशम्पाय़न उवाच:
अस्त्रमाग्नेय़मग्नेश्च वाय़व्यं मातरिश्वनः |
१४ ख
वैशम्पाय़न उवाच:
वज्रादीनि तथास्त्राणि शक्रादहमवाप्तवान् ||
१४ ग
वैशम्पाय़न उवाच:
धार्तराष्ट्रवनं घोरं नरसिंहाभिरक्षितम् |
१५ क
वैशम्पाय़न उवाच:
अहमुत्पाटय़िष्यामि वैराटे व्येतु ते भय़म् ||
१५ ख
वैशम्पाय़न उवाच:
एवमाश्वासितस्तेन वैराटिः सव्यसाचिना |
१६ क
वैशम्पाय़न उवाच:
व्यगाहत रथानीकं भीमं भीष्मस्य धीमतः ||
१६ ख
वैशम्पाय़न उवाच:
तमाय़ान्तं महावाहुं जिगीषन्तं रणे परान् |
१७ क
वैशम्पाय़न उवाच:
अभ्यवारय़दव्यग्रः क्रूरकर्मा धनञ्जय़म् ||
१७ ख
वैशम्पाय़न उवाच:
तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः |
१८ क
वैशम्पाय़न उवाच:
आगच्छन्भीमधन्वानं मौर्वीं पर्यस्य वाहुभिः ||
१८ ख
वैशम्पाय़न उवाच:
दुःशासनो विकर्णश्च दुःसहोऽथ विविंशतिः |
१९ क
वैशम्पाय़न उवाच:
आगत्य भीमधन्वानं वीभत्सुं पर्यवारय़न् ||
१९ ख
वैशम्पाय़न उवाच:
दुःशासनस्तु भल्लेन विद्ध्वा वैराटिमुत्तरम् |
२० क
वैशम्पाय़न उवाच:
द्वितीय़ेनार्जुनं वीरः प्रत्यविध्यत्स्तनान्तरे ||
२० ख
वैशम्पाय़न उवाच:
तस्य जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् |
२१ क
वैशम्पाय़न उवाच:
चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम् ||
२१ ख
वैशम्पाय़न उवाच:
अथैनं पञ्चभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे |
२२ क
वैशम्पाय़न उवाच:
सोऽपय़ातो रणं हित्वा पार्थवाणप्रपीडितः ||
२२ ख
वैशम्पाय़न उवाच:
तं विकर्णः शरैस्तीक्ष्णैर्गार्ध्रपत्रैरजिह्मगैः |
२३ क
वैशम्पाय़न उवाच:
विव्याध परवीरघ्नमर्जुनं धृतराष्ट्रजः ||
२३ ख
वैशम्पाय़न उवाच:
ततस्तमपि कौन्तेय़ः शरेणानतपर्वणा |
२४ क
वैशम्पाय़न उवाच:
ललाटेऽभ्यहनत्तूर्णं स विद्धः प्रापतद्रथात् ||
२४ ख
वैशम्पाय़न उवाच:
ततः पार्थमभिद्रुत्य दुःसहः सविविंशतिः |
२५ क
वैशम्पाय़न उवाच:
अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे ||
२५ ख
वैशम्पाय़न उवाच:
तावुभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनञ्जय़ः |
२६ क
वैशम्पाय़न उवाच:
विद्ध्वा युगपदव्यग्रस्तय़ोर्वाहानसूदय़त् ||
२६ ख
वैशम्पाय़न उवाच:
तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्मजावुभौ |
२७ क
वैशम्पाय़न उवाच:
अभिपत्य रथैरन्यैरपनीतौ पदानुगैः ||
२७ ख
वैशम्पाय़न उवाच:
सर्वा दिशश्चाभ्यपतद्वीभत्सुरपराजितः |
२८ क
वैशम्पाय़न उवाच:
किरीटमाली कौन्तेय़ो लव्धलक्षो महावलः ||
२८ ख