chevron_left भीष्म पर्व अध्याय ५६
सञ्जय़ उवाच:
व्युष्टां निशां भारत भारताना; मनीकिनीनां प्रमुखे महात्मा |
१ क
सञ्जय़ उवाच:
यय़ौ सपत्नान्प्रति जातकोपो; वृतः समग्रेण वलेन भीष्मः ||
१ ख
सञ्जय़ उवाच:
तं द्रोणदुर्योधनवाह्लिकाश्च; तथैव दुर्मर्षणचित्रसेनौ |
२ क
सञ्जय़ उवाच:
जय़द्रथश्चातिवलो वलौघै; र्नृपास्तथान्येऽनुय़युः समन्तात् ||
२ ख
सञ्जय़ उवाच:
स तैर्महद्भिश्च महारथै; श्च तेजस्विभिर्वीर्यवद्भिश्च राजन् |
३ क
सञ्जय़ उवाच:
रराज राजोत्तम राजमुख्यै; र्वृतः स देवैरिव वज्रपाणिः ||
३ ख
सञ्जय़ उवाच:
तस्मिन्ननीकप्रमुखे विषक्ता; दोधूय़मानाश्च महापताकाः |
४ क
सञ्जय़ उवाच:
सुरक्तपीतासितपाण्डुराभा; महागजस्कन्धगता विरेजुः ||
४ ख
सञ्जय़ उवाच:
सा वाहिनी शान्तनवेन राज्ञा; महारथैर्वारणवाजिभिश्च |
५ क
सञ्जय़ उवाच:
वभौ सविद्युत्स्तनय़ित्नुकल्पा; जलागमे द्यौरिव जातमेघा ||
५ ख
सञ्जय़ उवाच:
ततो रणाय़ाभिमुखी प्रय़ाता; प्रत्यर्जुनं शान्तनवाभिगुप्ता |
६ क
सञ्जय़ उवाच:
सेना महोग्रा सहसा कुरूणां; वेगो यथा भीम इवापगाय़ाः ||
६ ख
सञ्जय़ उवाच:
तं व्यालनानाविधगूढसारं; गजाश्वपादातरथौघपक्षम् |
७ क
सञ्जय़ उवाच:
व्यूहं महामेघसमं महात्मा; ददर्श दूरात्कपिराजकेतुः ||
७ ख
सञ्जय़ उवाच:
स निर्ययौ केतुमता रथेन; नरर्षभः श्वेतहय़ेन वीरः |
८ क
सञ्जय़ उवाच:
वरूथिना सैन्यमुखे महात्मा; वधे धृतः सर्वसपत्नय़ूनाम् ||
८ ख
सञ्जय़ उवाच:
सूपस्करं सोत्तरवन्धुरेषं; यत्तं यदूनामृषभेण सङ्ख्ये |
९ क
सञ्जय़ उवाच:
कपिध्वजं प्रेक्ष्य विषेदुराजौ; सहैव पुत्रैस्तव कौरवेय़ाः ||
९ ख
सञ्जय़ उवाच:
प्रकर्षता गुप्तमुदाय़ुधेन; किरीटिना लोकमहारथेन |
१० क
सञ्जय़ उवाच:
तं व्यूहराजं ददृशुस्त्वदीय़ा; श्चतुश्चतुर्व्यालसहस्रकीर्णम् ||
१० ख
सञ्जय़ उवाच:
यथा हि पूर्वेऽहनि धर्मराज्ञा; व्यूहः कृतः कौरवनन्दनेन |
११ क
सञ्जय़ उवाच:
तथा तथोद्देशमुपेत्य तस्थुः; पाञ्चालमुख्यैः सह चेदिमुख्याः ||
११ ख
सञ्जय़ उवाच:
ततो महावेगसमाहतानि; भेरीसहस्राणि विनेदुराजौ |
१२ क
सञ्जय़ उवाच:
शङ्खस्वना दुन्दुभिनिस्वनाश्च; सर्वेष्वनीकेषु ससिंहनादाः ||
१२ ख
सञ्जय़ उवाच:
ततः सवाणानि महास्वनानि; विस्फार्यमाणानि धनूंषि वीरैः |
१३ क
सञ्जय़ उवाच:
क्षणेन भेरीपणवप्रणादा; नन्तर्दधुः शङ्खमहास्वनाश्च ||
१३ ख
सञ्जय़ उवाच:
तच्छङ्खशव्दावृतमन्तरिक्ष; मुद्धूतभौमद्रुतरेणुजालम् |
१४ क
सञ्जय़ उवाच:
महावितानावततप्रकाश; मालोक्य वीराः सहसाभिपेतुः ||
१४ ख
सञ्जय़ उवाच:
रथी रथेनाभिहतः ससूतः; पपात साश्वः सरथः सकेतुः |
१५ क
सञ्जय़ उवाच:
गजो गजेनाभिहतः पपात; पदातिना चाभिहतः पदातिः ||
१५ ख
सञ्जय़ उवाच:
आवर्तमानान्यभिवर्तमानै; र्वाणैः क्षतान्यद्भुतदर्शनानि |
१६ क
सञ्जय़ उवाच:
प्रासैश्च खड्गैश्च समाहतानि; सदश्ववृन्दानि सदश्ववृन्दैः ||
१६ ख
सञ्जय़ उवाच:
सुवर्णतारागणभूषितानि; शरावराणि प्रहितानि वीरैः |
१७ क
सञ्जय़ उवाच:
विदार्यमाणानि परश्वधैश्च; प्रासैश्च खड्गैश्च निपेतुरुर्व्याम् ||
१७ ख
सञ्जय़ उवाच:
गजैर्विषाणैर्वरहस्तरुग्णाः; केचित्ससूता रथिनः प्रपेतुः |
१८ क
सञ्जय़ उवाच:
गजर्षभाश्चापि रथर्षभेण; निपेतिरे वाणहताः पृथिव्याम् ||
१८ ख
सञ्जय़ उवाच:
गजौघवेगोद्धतसादितानां; श्रुत्वा निषेदुर्वसुधां मनुष्याः |
१९ क
सञ्जय़ उवाच:
आर्तस्वरं सादिपदातिय़ूनां; विषाणगात्रावरताडितानाम् ||
१९ ख
सञ्जय़ उवाच:
सम्भ्रान्तनागाश्वरथे प्रसूते; महाभय़े सादिपदातिय़ूनाम् |
२० क
सञ्जय़ उवाच:
महारथैः सम्परिवार्यमाणं; ददर्श भीष्मः कपिराजकेतुम् ||
२० ख
सञ्जय़ उवाच:
तं पञ्चतालोच्छ्रिततालकेतुः; सदश्ववेगोद्धतवीर्ययातः |
२१ क
सञ्जय़ उवाच:
महास्त्रवाणाशनिदीप्तमार्गं; किरीटिनं शान्तनवोऽभ्यधावत् ||
२१ ख
सञ्जय़ उवाच:
तथैव शक्रप्रतिमानकल्प; मिन्द्रात्मजं द्रोणमुखाभिसस्रुः |
२२ क
सञ्जय़ उवाच:
कृपश्च शल्यश्च विविंशतिश्च; दुर्योधनः सौमदत्तिश्च राजन् ||
२२ ख
सञ्जय़ उवाच:
ततो रथानीकमुखादुपेत्य; सर्वास्त्रवित्काञ्चनचित्रवर्मा |
२३ क
सञ्जय़ उवाच:
जवेन शूरोऽभिससार सर्वां; स्तथार्जुनस्यात्र सुतोऽभिमन्युः ||
२३ ख
सञ्जय़ उवाच:
तेषां महास्त्राणि महारथाना; मसक्तकर्मा विनिहत्य कार्ष्णिः |
२४ क
सञ्जय़ उवाच:
वभौ महामन्त्रहुतार्चिमाली; सदोगतः सन्भगवानिवाग्निः ||
२४ ख
सञ्जय़ उवाच:
ततः स तूर्णं रुधिरोदफेनां; कृत्वा नदीं वैशसने रिपूणाम् |
२५ क
सञ्जय़ उवाच:
जगाम सौभद्रमतीत्य भीष्मो; महारथं पार्थमदीनसत्त्वः ||
२५ ख
सञ्जय़ उवाच:
ततः प्रहस्याद्भुतदर्शनेन; गाण्डीवनिर्ह्वादमहास्वनेन |
२६ क
सञ्जय़ उवाच:
विपाठजालेन महास्त्रजालं; विनाशय़ामास किरीटमाली ||
२६ ख
सञ्जय़ उवाच:
तमुत्तमं सर्वधनुर्धराणा; मसक्तकर्मा कपिराजकेतुः |
२७ क
सञ्जय़ उवाच:
भीष्मं महात्माभिववर्ष तूर्णं; शरौघजालैर्विमलैश्च भल्लैः ||
२७ ख
सञ्जय़ उवाच:
एवंविधं कार्मुकभीमनाद; मदीनवत्सत्पुरुषोत्तमाभ्याम् |
२८ क
सञ्जय़ उवाच:
ददर्श लोकः कुरुसृञ्जय़ाश्च; तद्द्वैरथं भीष्मधनञ्जय़ाभ्याम् ||
२८ ख