chevron_left द्रोण पर्व अध्याय ५६
सञ्जय़ उवाच:
ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः |
१ क
सञ्जय़ उवाच:
स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे |
१ ख
सञ्जय़ उवाच:
सन्तस्तार शुभां शय़्यां दर्भैर्वैडूर्यसंनिभैः ||
१ ग
सञ्जय़ उवाच:
ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः |
२ क
सञ्जय़ उवाच:
अलञ्चकार तां शय़्यां परिवार्याय़ुधोत्तमैः ||
२ ख
सञ्जय़ उवाच:
ततः स्पृष्टोदकं पार्थं विनीताः परिचारकाः |
३ क
सञ्जय़ उवाच:
दर्शय़ां नैत्यकं चक्रुर्नैशं त्रैय़म्वकं वलिम् ||
३ ख
सञ्जय़ उवाच:
ततः प्रीतमनाः पार्थो गन्धैर्माल्यैश्च माधवम् |
४ क
सञ्जय़ उवाच:
अलङ्कृत्योपहारं तं नैशमस्मै न्यवेदय़त् ||
४ ख
सञ्जय़ उवाच:
स्मय़मानस्तु गोविन्दः फल्गुनं प्रत्यभाषत |
५ क
सञ्जय़ उवाच:
सुप्यतां पार्थ भद्रं ते कल्याणाय़ व्रजाम्यहम् ||
५ ख
सञ्जय़ उवाच:
स्थापय़ित्वा ततो द्वाःस्थान्गोप्तॄंश्चात्ताय़ुधान्नरान् |
६ क
सञ्जय़ उवाच:
दारुकानुगतः श्रीमान्विवेश शिविरं स्वकम् |
६ ख
सञ्जय़ उवाच:
शिश्ये च शय़ने शुभ्रे वहुकृत्यं विचिन्तय़न् ||
६ ग
सञ्जय़ उवाच:
न पाण्डवानां शिविरे कश्चित्सुष्वाप तां निशाम् |
७ क
सञ्जय़ उवाच:
प्रजागरः सर्वजनमाविवेश विशां पते ||
७ ख
सञ्जय़ उवाच:
पुत्रशोकाभिभूतेन प्रतिज्ञातो महात्मना |
८ क
सञ्जय़ उवाच:
सहसा सिन्धुराजस्य वधो गाण्डीवधन्वना ||
८ ख
सञ्जय़ उवाच:
तत्कथं नु महावाहुर्वासविः परवीरहा |
९ क
सञ्जय़ उवाच:
प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तय़न् ||
९ ख
सञ्जय़ उवाच:
कष्टं हीदं व्यवसितं पाण्डवेन महात्मना |
१० क
सञ्जय़ उवाच:
पुत्रशोकाभितप्तेन प्रतिज्ञा महती कृता ||
१० ख
सञ्जय़ उवाच:
भ्रातरश्चापि विक्रान्ता वहुलानि वलानि च |
११ क
सञ्जय़ उवाच:
धृतराष्ट्रस्य पुत्रेण सर्वं तस्मै निवेदितम् ||
११ ख
सञ्जय़ उवाच:
स हत्वा सैन्धवं सङ्ख्ये पुनरेतु धनञ्जय़ः |
१२ क
सञ्जय़ उवाच:
जित्वा रिपुगणांश्चैव पारय़त्वर्जुनो व्रतम् ||
१२ ख
सञ्जय़ उवाच:
अहत्वा सिन्धुराजं हि धूमकेतुं प्रवेक्ष्यति |
१३ क
सञ्जय़ उवाच:
न ह्येतदनृतं कर्तुमर्हः पार्थो धनञ्जय़ः ||
१३ ख
सञ्जय़ उवाच:
धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने |
१४ क
सञ्जय़ उवाच:
तस्मिन्हि विजय़ः कृत्स्नः पाण्डवेन समाहितः ||
१४ ख
सञ्जय़ उवाच:
यदि नः सुकृतं किञ्चिद्यदि दत्तं हुतं यदि |
१५ क
सञ्जय़ उवाच:
फलेन तस्य सर्वस्य सव्यसाची जय़त्वरीन् ||
१५ ख
सञ्जय़ उवाच:
एवं कथय़तां तेषां जय़माशंसतां प्रभो |
१६ क
सञ्जय़ उवाच:
कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत ||
१६ ख
सञ्जय़ उवाच:
तस्यां रजन्यां मध्ये तु प्रतिवुद्धो जनार्दनः |
१७ क
सञ्जय़ उवाच:
स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत ||
१७ ख
सञ्जय़ उवाच:
अर्जुनेन प्रतिज्ञातमार्तेन हतवन्धुना |
१८ क
सञ्जय़ उवाच:
जय़द्रथं हनिष्यामि श्वोभूत इति दारुक ||
१८ ख
सञ्जय़ उवाच:
तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रय़िष्यति |
१९ क
सञ्जय़ उवाच:
यथा जय़द्रथं पार्थो न हन्यादिति संय़ुगे ||
१९ ख
सञ्जय़ उवाच:
अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जय़द्रथम् |
२० क
सञ्जय़ उवाच:
द्रोणश्च सह पुत्रेण सर्वास्त्रविधिपारगः ||
२० ख
सञ्जय़ उवाच:
एको वीरः सहस्राक्षो दैत्यदानवमर्दिता |
२१ क
सञ्जय़ उवाच:
सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम् ||
२१ ख
सञ्जय़ उवाच:
सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः |
२२ क
सञ्जय़ उवाच:
अप्राप्तेऽस्तं दिनकरे हनिष्यति जय़द्रथम् ||
२२ ख
सञ्जय़ उवाच:
न हि दारा न मित्राणि ज्ञातय़ो न च वान्धवाः |
२३ क
सञ्जय़ उवाच:
कश्चिन्नान्यः प्रिय़तरः कुन्तीपुत्रान्ममार्जुनात् ||
२३ ख
सञ्जय़ उवाच:
अनर्जुनमिमं लोकं मुहूर्तमपि दारुक |
२४ क
सञ्जय़ उवाच:
उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा ||
२४ ख
सञ्जय़ उवाच:
अहं ध्वजिन्यः शत्रूणां सहय़ाः सरथद्विपाः |
२५ क
सञ्जय़ उवाच:
अर्जुनार्थे हनिष्यामि सकर्णाः ससुय़ोधनाः ||
२५ ख
सञ्जय़ उवाच:
श्वो निरीक्षन्तु मे वीर्यं त्रय़ो लोका महाहवे |
२६ क
सञ्जय़ उवाच:
धनञ्जय़ार्थं समरे पराक्रान्तस्य दारुक ||
२६ ख
सञ्जय़ उवाच:
श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च |
२७ क
सञ्जय़ उवाच:
साश्वद्विपरथान्याजौ विद्रविष्यन्ति दारुक ||
२७ ख
सञ्जय़ उवाच:
श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम् |
२८ क
सञ्जय़ उवाच:
मय़ा क्रुद्देन समरे पाण्डवार्थे निपातिताम् ||
२८ ख
सञ्जय़ उवाच:
श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः |
२९ क
सञ्जय़ उवाच:
ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः ||
२९ ख
सञ्जय़ उवाच:
यस्तं द्वेष्टि स मां द्वेष्टि यस्तमनु स मामनु |
३० क
सञ्जय़ उवाच:
इति सङ्कल्प्यतां वुद्ध्या शरीरार्धं ममार्जुनः ||
३० ख
सञ्जय़ उवाच:
यथा त्वमप्रभाताय़ामस्यां निशि रथोत्तमम् |
३१ क
सञ्जय़ उवाच:
कल्पय़ित्वा यथाशास्त्रमादाय़ व्रतसंय़तः ||
३१ ख
सञ्जय़ उवाच:
गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान् |
३२ क
सञ्जय़ उवाच:
आरोप्य वै रथे सूत सर्वोपकरणानि च ||
३२ ख
सञ्जय़ उवाच:
स्थानं हि कल्पय़ित्वा च रथोपस्थे ध्वजस्य मे |
३३ क
सञ्जय़ उवाच:
वैनतेय़स्य वीरस्य समरे रथशोभिनः ||
३३ ख
सञ्जय़ उवाच:
छत्रं जाम्वूनदैर्जालैरर्कज्वलनसंनिभैः |
३४ क
सञ्जय़ उवाच:
विश्वकर्मकृतैर्दिव्यैरश्वानपि च भूषितान् ||
३४ ख
सञ्जय़ उवाच:
वलाहकं मेघपुष्पं सैन्यं सुग्रीवमेव च |
३५ क
सञ्जय़ उवाच:
युक्त्वा वाजिवरान्यत्तः कवची तिष्ठ दारुक ||
३५ ख
सञ्जय़ उवाच:
पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम् |
३६ क
सञ्जय़ उवाच:
श्रुत्वा तु भैरवं नादमुपय़ाय़ा जवेन माम् ||
३६ ख
सञ्जय़ उवाच:
एकाह्नाहममर्षं च सर्वदुःखानि चैव ह |
३७ क
सञ्जय़ उवाच:
भ्रातुः पितृष्वसेय़स्य व्यपनेष्यामि दारुक ||
३७ ख
सञ्जय़ उवाच:
सर्वोपाय़ैर्यतिष्यामि यथा वीभत्सुराहवे |
३८ क
सञ्जय़ उवाच:
पश्यतां धार्तराष्ट्राणां हनिष्यति जय़द्रथम् ||
३८ ख
सञ्जय़ उवाच:
यस्य यस्य च वीभत्सुर्वधे यत्नं करिष्यति |
३९ क
सञ्जय़ उवाच:
आशंसे सारथे तत्र भवितास्य ध्रुवो जय़ः ||
३९ ख
दारुक उवाच:
जय़ एव ध्रुवस्तस्य कुत एव पराजय़ः |
४० क
दारुक उवाच:
यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान् ||
४० ख
दारुक उवाच:
एवं चैतत्करिष्यामि यथा मामनुशाससि |
४१ क
दारुक उवाच:
सुप्रभातामिमां रात्रिं जय़ाय़ विजय़स्य हि ||
४१ ख