chevron_left कर्ण पर्व अध्याय ५६
धृतराष्ट्र उवाच:
ततो भग्नेषु सैन्येषु भीमसेनेन संय़ुगे |
१ क
धृतराष्ट्र उवाच:
दुर्योधनोऽव्रवीत्किं नु सौवलो वापि सञ्जय़ ||
१ ख
धृतराष्ट्र उवाच:
कर्णो वा जय़तां श्रेष्ठो योधा वा मामका युधि |
२ क
धृतराष्ट्र उवाच:
कृपो वा कृतवर्मा च द्रौणिर्दुःशासनोऽपि वा ||
२ ख
धृतराष्ट्र उवाच:
अत्यद्भुतमिदं मन्ये पाण्डवेय़स्य विक्रमम् |
३ क
धृतराष्ट्र उवाच:
यथाप्रतिज्ञं योधानां राधेय़ः कृतवानपि ||
३ ख
धृतराष्ट्र उवाच:
कुरूणामपि सर्वेषां कर्णः शत्रुनिषूदनः |
४ क
धृतराष्ट्र उवाच:
शर्म वर्म प्रतिष्ठा च जीविताशा च सञ्जय़ ||
४ ख
धृतराष्ट्र उवाच:
तत्प्रभग्नं वलं दृष्ट्वा कौन्तेय़ेनामितौजसा |
५ क
धृतराष्ट्र उवाच:
राधेय़ानामधिरथः कर्णः किमकरोद्युधि ||
५ ख
धृतराष्ट्र उवाच:
पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः |
६ क
धृतराष्ट्र उवाच:
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि सञ्जय़ ||
६ ख
सञ्जय़ उवाच:
अपराह्णे महाराज सूतपुत्रः प्रतापवान् |
७ क
सञ्जय़ उवाच:
जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः |
७ ख
सञ्जय़ उवाच:
भीमोऽप्यतिवलः सैन्यं धार्तराष्ट्रं व्यपोथय़त् ||
७ ग
सञ्जय़ उवाच:
द्राव्यमाणं वलं दृष्ट्वा भीमसेनेन धीमता |
८ क
सञ्जय़ उवाच:
यन्तारमव्रवीत्कर्णः पाञ्चालानेव मा वह ||
८ ख
सञ्जय़ उवाच:
मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान् |
९ क
सञ्जय़ उवाच:
प्राहिणोच्चेदिपाञ्चालान्करूषांश्च महावलः ||
९ ख
सञ्जय़ उवाच:
प्रविश्य च स तां सेनां शल्यः परवलार्दनः |
१० क
सञ्जय़ उवाच:
न्ययच्छत्तुरगान्हृष्टो यत्र यत्रैच्छदग्रणीः ||
१० ख
सञ्जय़ उवाच:
तं रथं मेघसङ्काशं वैय़ाघ्रपरिवारणम् |
११ क
सञ्जय़ उवाच:
सन्दृश्य पाण्डुपाञ्चालास्त्रस्ता आसन्विशां पते ||
११ ख
सञ्जय़ उवाच:
ततो रथस्य निनदः प्रादुरासीन्महारणे |
१२ क
सञ्जय़ उवाच:
पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः ||
१२ ख
सञ्जय़ उवाच:
ततः शरशतैस्तीक्ष्णैः कर्णोऽप्याकर्णनिःसृतैः |
१३ क
सञ्जय़ उवाच:
जघान पाण्डववलं शतशोऽथ सहस्रशः ||
१३ ख
सञ्जय़ उवाच:
तं तथा समरे कर्म कुर्वाणमतिमानुषम् |
१४ क
सञ्जय़ उवाच:
परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः ||
१४ ख
सञ्जय़ उवाच:
तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः |
१५ क
सञ्जय़ उवाच:
नकुलः सहदेवश्च द्रौपदेय़ाः ससात्यकाः |
१५ ख
सञ्जय़ उवाच:
परिवव्रुर्जिघांसन्तो राधेय़ं शरवृष्टिभिः ||
१५ ग
सञ्जय़ उवाच:
सात्यकिस्तु ततः कर्णं विंशत्या निशितैः शरैः |
१६ क
सञ्जय़ उवाच:
अताडय़द्रणे शूरो जत्रुदेशे नरोत्तमः ||
१६ ख
सञ्जय़ उवाच:
शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च पञ्चभिः |
१७ क
सञ्जय़ उवाच:
द्रौपदेय़ाश्चतुःषष्ट्या सहदेवश्च सप्तभिः |
१७ ख
सञ्जय़ उवाच:
नकुलश्च शतेनाजौ कर्णं विव्याध साय़कैः ||
१७ ग
सञ्जय़ उवाच:
भीमसेनस्तु राधेय़ं नवत्या नतपर्वणाम् |
१८ क
सञ्जय़ उवाच:
विव्याध समरे क्रुद्धो जत्रुदेशे महावलः ||
१८ ख
सञ्जय़ उवाच:
ततः प्रहस्याधिरथिर्विक्षिपन्धनुरुत्तमम् |
१९ क
सञ्जय़ उवाच:
मुमोच निशितान्वाणान्पीडय़न्सुमहावलः |
१९ ख
सञ्जय़ उवाच:
तान्प्रत्यविध्यद्राधेय़ः पञ्चभिः पञ्चभिः शरैः ||
१९ ग
सञ्जय़ उवाच:
सात्यकेस्तु धनुश्छित्त्वा ध्वजं च पुरुषर्षभः |
२० क
सञ्जय़ उवाच:
अथैनं नवभिर्वाणैराजघान स्तनान्तरे ||
२० ख
सञ्जय़ उवाच:
भीमसेनस्तु तं क्रुद्धो विव्याध त्रिंशता शरैः |
२१ क
सञ्जय़ उवाच:
सारथिं च त्रिभिर्वाणैराजघान परन्तपः ||
२१ ख
सञ्जय़ उवाच:
विरथान्द्रौपदेय़ांश्च चकार पुरुषर्षभः |
२२ क
सञ्जय़ उवाच:
अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत् ||
२२ ख
सञ्जय़ उवाच:
विमुखीकृत्य तान्सर्वाञ्शरैः संनतपर्वभिः |
२३ क
सञ्जय़ उवाच:
पाञ्चालानहनच्छूरश्चेदीनां च महारथान् ||
२३ ख
सञ्जय़ उवाच:
ते वध्यमानाः समरे चेदिमत्स्या विशां पते |
२४ क
सञ्जय़ उवाच:
कर्णमेकमभिद्रुत्य शरसङ्घैः समार्दय़न् |
२४ ख
सञ्जय़ उवाच:
ताञ्जघान शितैर्वाणैः सूतपुत्रो महारथः ||
२४ ग
सञ्जय़ उवाच:
एतदत्यद्भुतं कर्णे दृष्टवानस्मि भारत |
२५ क
सञ्जय़ उवाच:
यदेकः समरे शूरान्सूतपुत्रः प्रतापवान् ||
२५ ख
सञ्जय़ उवाच:
यतमानान्परं शक्त्याय़ोधय़त्तांश्च धन्विनः |
२६ क
सञ्जय़ उवाच:
पाण्डवेय़ान्महाराज शरैर्वारितवान्रणे ||
२६ ख
सञ्जय़ उवाच:
तत्र भारत कर्णस्य लाघवेन महात्मनः |
२७ क
सञ्जय़ उवाच:
तुतुषुर्देवताः सर्वाः सिद्धाश्च परमर्षय़ः ||
२७ ख
सञ्जय़ उवाच:
अपूजय़न्महेष्वासा धार्तराष्ट्रा नरोत्तमम् |
२८ क
सञ्जय़ उवाच:
कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् ||
२८ ख
सञ्जय़ उवाच:
ततः कर्णो महाराज ददाह रिपुवाहिनीम् |
२९ क
सञ्जय़ उवाच:
कक्षमिद्धो यथा वह्निर्निदाघे ज्वलितो महान् ||
२९ ख
सञ्जय़ उवाच:
ते वध्यमानाः कर्णेन पाण्डवेय़ास्ततस्ततः |
३० क
सञ्जय़ उवाच:
प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महावलम् ||
३० ख
सञ्जय़ उवाच:
तत्राक्रन्दो महानासीत्पाञ्चालानां महारणे |
३१ क
सञ्जय़ उवाच:
वध्यतां साय़कैस्तीक्ष्णैः कर्णचापवरच्युतैः ||
३१ ख
सञ्जय़ उवाच:
तेन शव्देन वित्रस्ता पाण्डवानां महाचमूः |
३२ क
सञ्जय़ उवाच:
कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः ||
३२ ख
सञ्जय़ उवाच:
तत्राद्भुतं परं चक्रे राधेय़ः शत्रुकर्शनः |
३३ क
सञ्जय़ उवाच:
यदेकं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम् ||
३३ ख
सञ्जय़ उवाच:
यथौघः पर्वतश्रेष्ठमासाद्याभिप्रदीर्यते |
३४ क
सञ्जय़ उवाच:
तथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते ||
३४ ख
सञ्जय़ उवाच:
कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलन् |
३५ क
सञ्जय़ उवाच:
दहंस्तस्थौ महावाहुः पाण्डवानां महाचमूम् ||
३५ ख
सञ्जय़ उवाच:
शिरांसि च महाराज कर्णांश्चञ्चलकुण्डलान् |
३६ क
सञ्जय़ उवाच:
वाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः ||
३६ ख
सञ्जय़ उवाच:
हस्तिदन्तान्त्सरून्खड्गान्ध्वजाञ्शक्तीर्हय़ान्गजान् |
३७ क
सञ्जय़ उवाच:
रथांश्च विविधान्राजन्पताका व्यजनानि च ||
३७ ख
सञ्जय़ उवाच:
अक्षेषाय़ुगय़ोक्त्राणि चक्राणि विविधानि च |
३८ क
सञ्जय़ उवाच:
चिच्छेद शतधा कर्णो योधव्रतमनुष्ठितः ||
३८ ख
सञ्जय़ उवाच:
तत्र भारत कर्णेन निहतैर्गजवाजिभिः |
३९ क
सञ्जय़ उवाच:
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ||
३९ ख
सञ्जय़ उवाच:
विषमं च समं चैव हतैरश्वपदातिभिः |
४० क
सञ्जय़ उवाच:
रथैश्च कुञ्जरैश्चैव न प्राज्ञाय़त किञ्चन ||
४० ख
सञ्जय़ उवाच:
नापि स्वे न परे योधाः प्राज्ञाय़न्त परस्परम् |
४१ क
सञ्जय़ उवाच:
घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते ||
४१ ख
सञ्जय़ उवाच:
राधेय़चापनिर्मुक्तैः शरैः काञ्चनभूषितैः |
४२ क
सञ्जय़ उवाच:
सञ्छादिता महाराज यतमाना महारथाः ||
४२ ख
सञ्जय़ उवाच:
ते पाण्डवेय़ाः समरे कर्णेन स्म पुनः पुनः |
४३ क
सञ्जय़ उवाच:
अभज्यन्त महाराज यतमाना महारथाः ||
४३ ख
सञ्जय़ उवाच:
मृगसङ्घान्यथा क्रुद्धः सिंहो द्रावय़ते वने |
४४ क
सञ्जय़ उवाच:
कर्णस्तु समरे योधांस्तत्र तत्र महाय़शाः |
४४ ख
सञ्जय़ उवाच:
कालय़ामास तत्सैन्यं यथा पशुगणान्वृकः ||
४४ ग
सञ्जय़ उवाच:
दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्मुखीम् |
४५ क
सञ्जय़ उवाच:
अभिजग्मुर्महेष्वासा रुवन्तो भैरवान्रवान् ||
४५ ख
सञ्जय़ उवाच:
दुर्योधनो हि राजेन्द्र मुदा परमय़ा युतः |
४६ क
सञ्जय़ उवाच:
वादय़ामास संहृष्टो नानावाद्यानि सर्वशः ||
४६ ख
सञ्जय़ उवाच:
पाञ्चालापि महेष्वासा भग्ना भग्ना नरोत्तमाः |
४७ क
सञ्जय़ उवाच:
न्यवर्तन्त यथा शूरा मृत्युं कृत्वा निवर्तनम् ||
४७ ख