वैशम्पाय़न उवाच:
तथा दूतैः समाज्ञाय़ आय़ान्तं मधुसूदनम् |
१ क
वैशम्पाय़न उवाच:
धृतराष्ट्रोऽव्रवीद्भीष्ममर्चय़ित्वा महाभुजम् ||
१ ख
वैशम्पाय़न उवाच:
द्रोणं च सञ्जय़ं चैव विदुरं च महामतिम् |
२ क
वैशम्पाय़न उवाच:
दुर्योधनं च सामात्यं हृष्टरोमाव्रवीदिदम् ||
२ ख
वैशम्पाय़न उवाच:
अद्भुतं महदाश्चर्यं श्रूय़ते कुरुनन्दन |
३ क
वैशम्पाय़न उवाच:
स्त्रिय़ो वालाश्च वृद्धाश्च कथय़न्ति गृहे गृहे ||
३ ख
वैशम्पाय़न उवाच:
सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः |
४ क
वैशम्पाय़न उवाच:
पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च ||
४ ख
वैशम्पाय़न उवाच:
उपय़ास्यति दाशार्हः पाण्डवार्थे पराक्रमी |
५ क
वैशम्पाय़न उवाच:
स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः ||
५ ख
वैशम्पाय़न उवाच:
तस्मिन्हि यात्रा लोकस्य भूतानामीश्वरो हि सः |
६ क
वैशम्पाय़न उवाच:
तस्मिन्धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे ||
६ ख
वैशम्पाय़न उवाच:
स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः |
७ क
वैशम्पाय़न उवाच:
पूजितो हि सुखाय़ स्यादसुखः स्यादपूजितः ||
७ ख
वैशम्पाय़न उवाच:
स चेत्तुष्यति दाशार्ह उपचारैररिन्दमः |
८ क
वैशम्पाय़न उवाच:
कृत्स्नान्सर्वानभिप्राय़ान्प्राप्स्यामः सर्वराजसु ||
८ ख
वैशम्पाय़न उवाच:
तस्य पूजार्थमद्यैव संविधत्स्व परन्तप |
९ क
वैशम्पाय़न उवाच:
सभाः पथि विधीय़न्तां सर्वकामसमाहिताः ||
९ ख
वैशम्पाय़न उवाच:
यथा प्रीतिर्महावाहो त्वय़ि जाय़ेत तस्य वै |
१० क
वैशम्पाय़न उवाच:
तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे ||
१० ख
वैशम्पाय़न उवाच:
ततो भीष्मादय़ः सर्वे धृतराष्ट्रं जनाधिपम् |
११ क
वैशम्पाय़न उवाच:
ऊचुः परममित्येवं पूजय़न्तोऽस्य तद्वचः ||
११ ख
वैशम्पाय़न उवाच:
तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा |
१२ क
वैशम्पाय़न उवाच:
सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे ||
१२ ख
वैशम्पाय़न उवाच:
ततो देशेषु देशेषु रमणीय़ेषु भागशः |
१३ क
वैशम्पाय़न उवाच:
सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः ||
१३ ख
वैशम्पाय़न उवाच:
आसनानि विचित्राणि युक्तानि विविधैर्गुणैः |
१४ क
वैशम्पाय़न उवाच:
स्त्रिय़ो गन्धानलङ्कारान्सूक्ष्माणि वसनानि च ||
१४ ख
वैशम्पाय़न उवाच:
गुणवन्त्यन्नपानानि भोज्यानि विविधानि च |
१५ क
वैशम्पाय़न उवाच:
माल्यानि च सुगन्धीनि तानि राजा ददौ ततः ||
१५ ख
वैशम्पाय़न उवाच:
विशेषतश्च वासार्थं सभां ग्रामे वृकस्थले |
१६ क
वैशम्पाय़न उवाच:
विदधे कौरवो राजा वहुरत्नां मनोरमाम् ||
१६ ख
वैशम्पाय़न उवाच:
एतद्विधाय़ वै सर्वं देवार्हमतिमानुषम् |
१७ क
वैशम्पाय़न उवाच:
आचख्यौ धृतराष्ट्राय़ राजा दुर्योधनस्तदा ||
१७ ख
वैशम्पाय़न उवाच:
ताः सभाः केशवः सर्वा रत्नानि विविधानि च |
१८ क
वैशम्पाय़न उवाच:
असमीक्ष्यैव दाशार्ह उपाय़ात्कुरुसद्म तत् ||
१८ ख