chevron_left कर्ण पर्व अध्याय ५७
कर्ण उवाच:
एतादृशौ फल्गुनवासुदेवौ; कोऽन्यः प्रतीय़ान्मदृते नु शल्य ||
४९ ख
कर्ण उवाच:
एतावहं युधि वा पातय़िष्ये; मां वा कृष्णौ निहनिष्यतोऽद्य |
५० क
कर्ण उवाच:
इति व्रुवञ्शल्यममित्रहन्ता; कर्णो रणे मेघ इवोन्ननाद ||
५० ख
कर्ण उवाच:
अभ्येत्य पुत्रेण तवाभिनन्दितः; समेत्य चोवाच कुरुप्रवीरान् |
५१ क
कर्ण उवाच:
कृपं च भोजं च महाभुजावुभौ; तथैव गान्धारनृपं सहानुजम् |
५१ ख
कर्ण उवाच:
गुरोः सुतं चावरजं तथात्मनः; पदातिनोऽथ द्विपसादिनोऽन्यान् ||
५१ ग
कर्ण उवाच:
निरुन्धताभिद्रवताच्युतार्जुनौ; श्रमेण संय़ोजय़ताशु सर्वतः |
५२ क
कर्ण उवाच:
यथा भवद्भिर्भृशविक्षतावुभौ; सुखेन हन्यामहमद्य भूमिपाः ||
५२ ख
कर्ण उवाच:
तथेति चोक्त्वा त्वरिताः स्म तेऽर्जुनं; जिघांसवो वीरतमाः समभ्ययुः |
५३ क
कर्ण उवाच:
नदीनदान्भूरिजलो महार्णवो; यथा तथा तान्समरेऽर्जुनोऽग्रसत् ||
५३ ख
कर्ण उवाच:
न सन्दधानो न तथा शरोत्तमा; न्प्रमुञ्चमानो रिपुभिः प्रदृश्यते |
५४ क
कर्ण उवाच:
धनञ्जय़स्तस्य शरैश्च दारिता; हताश्च पेतुर्नरवाजिकुञ्जराः ||
५४ ख
कर्ण उवाच:
शरार्चिषं गाण्डिवचारुमण्डलं; युगान्तसूर्यप्रतिमानतेजसम् |
५५ क
कर्ण उवाच:
न कौरवाः शेकुरुदीक्षितुं जय़ं; यथा रविं व्याधितचक्षुषो जनाः ||
५५ ख
कर्ण उवाच:
तमभ्यधावद्विसृजञ्शरान्कृप; स्तथैव भोजस्तव चात्मजः स्वय़म् |
५६ क
कर्ण उवाच:
जिघांसुभिस्तान्कुशलैः शरोत्तमा; न्महाहवे सञ्जवितान्प्रय़त्नतः |
५६ ख
कर्ण उवाच:
शरैः प्रचिच्छेद च पाण्डवस्त्वर; न्पराभिनद्वक्षसि च त्रिभिस्त्रिभिः ||
५६ ग
कर्ण उवाच:
स गाण्डिवाभ्याय़तपूर्णमण्डल; स्तपन्रिपूनर्जुनभास्करो वभौ |
५७ क
कर्ण उवाच:
शरोग्ररश्मिः शुचिशुक्रमध्यगो; यथैव सूर्यः परिवेषगस्तथा ||
५७ ख
कर्ण उवाच:
अथाग्र्यवाणैर्दशभिर्धनञ्जय़ं; पराभिनद्द्रोणसुतोऽच्युतं त्रिभिः |
५८ क
कर्ण उवाच:
चतुर्भिरश्वांश्चतुरः कपिं तथा; शरैः स नाराचवरैरवाकिरत् ||
५८ ख
कर्ण उवाच:
तथा तु तत्तत्स्फुरदात्तकार्मुकं; त्रिभिः शरैर्यन्तृशिरः क्षुरेण |
५९ क
कर्ण उवाच:
हय़ांश्चतुर्भिश्चतुरस्त्रिभिर्ध्वजं; धनञ्जय़ो द्रौणिरथान्न्यपातय़त् ||
५९ ख
कर्ण उवाच:
स रोषपूर्णोऽशनिवज्रहाटकै; रलङ्कृतं तक्षकभोगवर्चसम् |
६० क
कर्ण उवाच:
सुवन्धनं कार्मुकमन्यदाददे; यथा महाहिप्रवरं गिरेस्तथा ||
६० ख
कर्ण उवाच:
स्वमाय़ुधं चोपविकीर्य भूतले; धनुश्च कृत्वा सगुणं गुणाधिकः |
६१ क
कर्ण उवाच:
समानय़ानावजितौ नरोत्तमौ; शरोत्तमैर्द्रौणिरविध्यदन्तिकात् ||
६१ ख
कर्ण उवाच:
कृपश्च भोजश्च तथात्मजश्च ते; तमोनुदं वारिधरा इवापतन् |
६२ क
कर्ण उवाच:
कृपस्य पार्थः सशरं शरासनं; हय़ान्ध्वजं सारथिमेव पत्रिभिः ||
६२ ख
कर्ण उवाच:
शरैः प्रचिच्छेद तवात्मजस्य; ध्वजं धनुश्च प्रचकर्त नर्दतः |
६३ क
कर्ण उवाच:
जघान चाश्वान्कृतवर्मणः शुभा; न्ध्वजं च चिच्छेद ततः प्रतापवान् ||
६३ ख
कर्ण उवाच:
सवाजिसूतेष्वसनान्सकेतना; ञ्जघान नागाश्वरथांस्त्वरंश्च सः |
६४ क
कर्ण उवाच:
ततः प्रकीर्णं सुमहद्वलं तव; प्रदारितं सेतुरिवाम्भसा यथा |
६४ ख
कर्ण उवाच:
ततोऽर्जुनस्याशु रथेन केशव; श्चकार शत्रूनपसव्यमातुरान् ||
६४ ग
कर्ण उवाच:
ततः प्रय़ान्तं त्वरितं धनञ्जय़ं; शतक्रतुं वृत्रनिजघ्नुषं यथा |
६५ क
कर्ण उवाच:
समन्वधावन्पुनरुच्छ्रितैर्ध्वजै; रथैः सुय़ुक्तैरपरे युय़ुत्सवः ||
६५ ख
कर्ण उवाच:
अथाभिसृत्य प्रतिवार्य तानरी; न्धनञ्जय़स्याभि रथं महारथाः |
६६ क
कर्ण उवाच:
शिखण्डिशैनेय़यमाः शितैः शरै; र्विदारय़न्तो व्यनदन्सुभैरवम् ||
६६ ख
कर्ण उवाच:
ततोऽभिजघ्नुः कुपिताः परस्परं; शरैस्तदाञ्जोगतिभिः सुतेजनैः |
६७ क
कर्ण उवाच:
कुरुप्रवीराः सह सृञ्जय़ैर्यथा; सुराः पुरा देववरैरय़ोधय़न् ||
६७ ख
कर्ण उवाच:
जय़ेप्सवः स्वर्गमनाय़ चोत्सुकाः; पतन्ति नागाश्वरथाः परन्तप |
६८ क
कर्ण उवाच:
जगर्जुरुच्चैर्वलवच्च विव्यधुः; शरैः सुमुक्तैरितरेतरं पृथक् ||
६८ ख
कर्ण उवाच:
शरान्धकारे तु महात्मभिः कृते; महामृधे योधवरैः परस्परम् |
६९ क
कर्ण उवाच:
वभुर्दशाशा न दिवं च पार्थिव; प्रभा च सूर्यस्य तमोवृताभवत् ||
६९ ख