chevron_left आदि पर्व अध्याय ५७
वैशम्पाय़न उवाच:
वैताने कर्मणि तते पावकात्समजाय़त |
९१ ख
वैशम्पाय़न उवाच:
वीरो द्रोणविनाशाय़ धनुषा सह वीर्यवान् ||
९१ ग
वैशम्पाय़न उवाच:
तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा |
९२ क
वैशम्पाय़न उवाच:
विभ्राजमाना वपुषा विभ्रती रूपमुत्तमम् ||
९२ ख
वैशम्पाय़न उवाच:
प्रह्रादशिष्यो नग्नजित्सुवलश्चाभवत्ततः |
९३ क
वैशम्पाय़न उवाच:
तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् ||
९३ ख
वैशम्पाय़न उवाच:
गान्धारराजपुत्रोऽभूच्छकुनिः सौवलस्तथा |
९४ क
वैशम्पाय़न उवाच:
दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ ||
९४ ख
वैशम्पाय़न उवाच:
कृष्णद्वैपाय़नाज्जज्ञे धृतराष्ट्रो जनेश्वरः |
९५ क
वैशम्पाय़न उवाच:
क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महावलः ||
९५ ख
वैशम्पाय़न उवाच:
पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् |
९६ क
वैशम्पाय़न उवाच:
द्वय़ोः स्त्रिय़ोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः ||
९६ ख
वैशम्पाय़न उवाच:
धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः |
९७ क
वैशम्पाय़न उवाच:
इन्द्राद्धनञ्जय़ः श्रीमान्सर्वशस्त्रभृतां वरः ||
९७ ख
वैशम्पाय़न उवाच:
जज्ञाते रूपसम्पन्नावश्विभ्यां तु यमावुभौ |
९८ क
वैशम्पाय़न उवाच:
नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ ||
९८ ख
वैशम्पाय़न उवाच:
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः |
९९ क
वैशम्पाय़न उवाच:
दुर्योधनप्रभृतय़ो युय़ुत्सुः करणस्तथा ||
९९ ख
वैशम्पाय़न उवाच:
अभिमन्युः सुभद्राय़ामर्जुनादभ्यजाय़त |
१०० क
वैशम्पाय़न उवाच:
स्वस्रीय़ो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः ||
१०० ख
वैशम्पाय़न उवाच:
पाण्डवेभ्योऽपि पञ्चभ्यः कृष्णाय़ां पञ्च जज्ञिरे |
१०१ क
वैशम्पाय़न उवाच:
कुमारा रूपसम्पन्नाः सर्वशस्त्रविशारदाः ||
१०१ ख
वैशम्पाय़न उवाच:
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् |
१०२ क
वैशम्पाय़न उवाच:
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ||
१०२ ख
वैशम्पाय़न उवाच:
तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् |
१०३ क
वैशम्पाय़न उवाच:
हिडिम्वाय़ां च भीमेन वने जज्ञे घटोत्कचः ||
१०३ ख
वैशम्पाय़न उवाच:
शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता |
१०४ क
वैशम्पाय़न उवाच:
यां यक्षः पुरुषं चक्रे स्थूणः प्रिय़चिकीर्षय़ा ||
१०४ ख
वैशम्पाय़न उवाच:
कुरूणां विग्रहे तस्मिन्समागच्छन्वहून्यथ |
१०५ क
वैशम्पाय़न उवाच:
राज्ञां शतसहस्राणि योत्स्यमानानि संय़ुगे ||
१०५ ख
वैशम्पाय़न उवाच:
तेषामपरिमेय़ानि नामधेय़ानि सर्वशः |
१०६ क
वैशम्पाय़न उवाच:
न शक्यं परिसङ्ख्यातुं वर्षाणामय़ुतैरपि |
१०६ ख
वैशम्पाय़न उवाच:
एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् ||
१०६ ग