chevron_left आदि पर्व अध्याय ५७
वैशम्पाय़न उवाच:
राजोपरिचरो नाम धर्मनित्यो महीपतिः |
१ क
वैशम्पाय़न उवाच:
वभूव मृगय़ां गन्तुं स कदाचिद्धृतव्रतः ||
१ ख
वैशम्पाय़न उवाच:
स चेदिविषय़ं रम्यं वसुः पौरवनन्दनः |
२ क
वैशम्पाय़न उवाच:
इन्द्रोपदेशाज्जग्राह ग्रहणीय़ं महीपतिः ||
२ ख
वैशम्पाय़न उवाच:
तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम् |
३ क
वैशम्पाय़न उवाच:
देवः साक्षात्स्वय़ं वज्री समुपाय़ान्महीपतिम् ||
३ ख
वैशम्पाय़न उवाच:
इन्द्रत्वमर्हो राजाय़ं तपसेत्यनुचिन्त्य वै |
४ क
वैशम्पाय़न उवाच:
तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तय़त् ||
४ ख
इन्द्र उवाच:
न सङ्कीर्येत धर्मोऽय़ं पृथिव्यां पृथिवीपते |
५ क
इन्द्र उवाच:
तं पाहि धर्मो हि धृतः कृत्स्नं धारय़ते जगत् ||
५ ख
इन्द्र उवाच:
लोक्यं धर्मं पालय़ त्वं नित्ययुक्तः समाहितः |
६ क
इन्द्र उवाच:
धर्मय़ुक्तस्ततो लोकान्पुण्यानाप्स्यसि शाश्वतान् ||
६ ख
इन्द्र उवाच:
दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रिय़ः |
७ क
इन्द्र उवाच:
ऊधः पृथिव्या यो देशस्तमावस नराधिप ||
७ ख
इन्द्र उवाच:
पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान् |
८ क
इन्द्र उवाच:
स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः ||
८ ख
इन्द्र उवाच:
अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः |
९ क
इन्द्र उवाच:
वसुपूर्णा च वसुधा वस चेदिषु चेदिप ||
९ ख
इन्द्र उवाच:
धर्मशीला जनपदाः सुसन्तोषाश्च साधवः |
१० क
इन्द्र उवाच:
न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा ||
१० ख
इन्द्र उवाच:
न च पित्रा विभज्यन्ते नरा गुरुहिते रताः |
११ क
इन्द्र उवाच:
युञ्जते धुरि नो गाश्च कृशाः सन्धुक्षय़न्ति च ||
११ ख
इन्द्र उवाच:
सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद |
१२ क
इन्द्र उवाच:
न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु यद्भवेत् ||
१२ ख
इन्द्र उवाच:
देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत् |
१३ क
इन्द्र उवाच:
आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते ||
१३ ख
इन्द्र उवाच:
त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः |
१४ क
इन्द्र उवाच:
चरिष्यस्युपरिस्थो वै देवो विग्रहवानिव ||
१४ ख
इन्द्र उवाच:
ददामि ते वैजय़न्तीं मालामम्लानपङ्कजाम् |
१५ क
इन्द्र उवाच:
धारय़िष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम् ||
१५ ख
इन्द्र उवाच:
लक्षणं चैतदेवेह भविता ते नराधिप |
१६ क
इन्द्र उवाच:
इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत् ||
१६ ख
वैशम्पाय़न उवाच:
यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः |
१७ क
वैशम्पाय़न उवाच:
इष्टप्रदानमुद्दिश्य शिष्टानां परिपालिनीम् ||
१७ ख
वैशम्पाय़न उवाच:
तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा |
१८ क
वैशम्पाय़न उवाच:
प्रवेशं कारय़ामास गते संवत्सरे तदा ||
१८ ख
वैशम्पाय़न उवाच:
ततः प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः |
१९ क
वैशम्पाय़न उवाच:
प्रवेशः क्रिय़ते राजन्यथा तेन प्रवर्तितः ||
१९ ख
वैशम्पाय़न उवाच:
अपरेद्युस्तथा चास्याः क्रिय़ते उच्छ्रय़ो नृपैः |
२० क
वैशम्पाय़न उवाच:
अलङ्कृताय़ाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः |
२० ख
वैशम्पाय़न उवाच:
माल्यदामपरिक्षिप्ता विधिवत्क्रिय़तेऽपि च ||
२० ग
वैशम्पाय़न उवाच:
भगवान्पूज्यते चात्र हास्यरूपेण शङ्करः |
२१ क
वैशम्पाय़न उवाच:
स्वय़मेव गृहीतेन वसोः प्रीत्या महात्मनः ||
२१ ख
वैशम्पाय़न उवाच:
एतां पूजां महेन्द्रस्तु दृष्ट्वा देव कृतां शुभाम् |
२२ क
वैशम्पाय़न उवाच:
वसुना राजमुख्येन प्रीतिमानव्रवीद्विभुः ||
२२ ख
वैशम्पाय़न उवाच:
ये पूजय़िष्यन्ति नरा राजानश्च महं मम |
२३ क
वैशम्पाय़न उवाच:
कारय़िष्यन्ति च मुदा यथा चेदिपतिर्नृपः ||
२३ ख
वैशम्पाय़न उवाच:
तेषां श्रीर्विजय़श्चैव सराष्ट्राणां भविष्यति |
२४ क
वैशम्पाय़न उवाच:
तथा स्फीतो जनपदो मुदितश्च भविष्यति ||
२४ ख
वैशम्पाय़न उवाच:
एवं महात्मना तेन महेन्द्रेण नराधिप |
२५ क
वैशम्पाय़न उवाच:
वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः ||
२५ ख
वैशम्पाय़न उवाच:
उत्सवं कारय़िष्यन्ति सदा शक्रस्य ये नराः |
२६ क
वैशम्पाय़न उवाच:
भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै |
२६ ख
वैशम्पाय़न उवाच:
वरदानमहाय़ज्ञैस्तथा शक्रोत्सवेन ते ||
२६ ग
वैशम्पाय़न उवाच:
सम्पूजितो मघवता वसुश्चेदिपतिस्तदा |
२७ क
वैशम्पाय़न उवाच:
पालय़ामास धर्मेण चेदिस्थः पृथिवीमिमाम् |
२७ ख
वैशम्पाय़न उवाच:
इन्द्रप्रीत्या भूमिपतिश्चकारेन्द्रमहं वसुः ||
२७ ग
वैशम्पाय़न उवाच:
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः |
२८ क
वैशम्पाय़न उवाच:
नानाराज्येषु च सुतान्स सम्राडभ्यषेचय़त् ||
२८ ख
वैशम्पाय़न उवाच:
महारथो मगधराड्विश्रुतो यो वृहद्रथः |
२९ क
वैशम्पाय़न उवाच:
प्रत्यग्रहः कुशाम्वश्च यमाहुर्मणिवाहनम् |
२९ ख
वैशम्पाय़न उवाच:
मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः ||
२९ ग
वैशम्पाय़न उवाच:
एते तस्य सुता राजन्राजर्षेर्भूरितेजसः |
३० क
वैशम्पाय़न उवाच:
न्यवेशय़न्नामभिः स्वैस्ते देशांश्च पुराणि च |
३० ख
वैशम्पाय़न उवाच:
वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः ||
३० ग
वैशम्पाय़न उवाच:
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम् |
३१ क
वैशम्पाय़न उवाच:
उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् |
३१ ख
वैशम्पाय़न उवाच:
राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् ||
३१ ग
वैशम्पाय़न उवाच:
पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः |
३२ क
वैशम्पाय़न उवाच:
अरौत्सीच्चेतनाय़ुक्तः कामात्कोलाहलः किल ||
३२ ख
वैशम्पाय़न उवाच:
गिरिं कोलाहलं तं तु पदा वसुरताडय़त् |
३३ क
वैशम्पाय़न उवाच:
निश्चक्राम नदी तेन प्रहारविवरेण सा ||
३३ ख
वैशम्पाय़न उवाच:
तस्यां नद्यामजनय़न्मिथुनं पर्वतः स्वय़म् |
३४ क
वैशम्पाय़न उवाच:
तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदय़त् ||
३४ ख
वैशम्पाय़न उवाच:
यः पुमानभवत्तत्र तं स राजर्षिसत्तमः |
३५ क
वैशम्पाय़न उवाच:
वसुर्वसुप्रदश्चक्रे सेनापतिमरिन्दमम् |
३५ ख
वैशम्पाय़न उवाच:
चकार पत्नीं कन्यां तु दय़ितां गिरिकां नृपः ||
३५ ग
वैशम्पाय़न उवाच:
वसोः पत्नी तु गिरिका कामात्काले न्यवेदय़त् |
३६ क
वैशम्पाय़न उवाच:
ऋतुकालमनुप्राप्तं स्नाता पुंसवने शुचिः ||
३६ ख
वैशम्पाय़न उवाच:
तदहः पितरश्चैनमूचुर्जहि मृगानिति |
३७ क
वैशम्पाय़न उवाच:
तं राजसत्तमं प्रीतास्तदा मतिमतां वरम् ||
३७ ख
वैशम्पाय़न उवाच:
स पितृणां निय़ोगं तमव्यतिक्रम्य पार्थिवः |
३८ क
वैशम्पाय़न उवाच:
चचार मृगय़ां कामी गिरिकामेव संस्मरन् |
३८ ख
वैशम्पाय़न उवाच:
अतीव रूपसम्पन्नां साक्षाच्छ्रिय़मिवापराम् ||
३८ ग
वैशम्पाय़न उवाच:
तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने |
३९ क
वैशम्पाय़न उवाच:
स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः ||
३९ ख
वैशम्पाय़न उवाच:
प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत |
४० क
वैशम्पाय़न उवाच:
ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः ||
४० ख
वैशम्पाय़न उवाच:
सञ्चिन्त्यैवं तदा राजा विचार्य च पुनः पुनः |
४१ क
वैशम्पाय़न उवाच:
अमोघत्वं च विज्ञाय़ रेतसो राजसत्तमः ||
४१ ख
वैशम्पाय़न उवाच:
शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः |
४२ क
वैशम्पाय़न उवाच:
अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् |
४२ ख
वैशम्पाय़न उवाच:
सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽव्रवीत् ||
४२ ग
वैशम्पाय़न उवाच:
मत्प्रिय़ार्थमिदं सौम्य शुक्रं मम गृहं नय़ |
४३ क
वैशम्पाय़न उवाच:
गिरिकाय़ाः प्रय़च्छाशु तस्या ह्यार्तवमद्य वै ||
४३ ख
वैशम्पाय़न उवाच:
गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् |
४४ क
वैशम्पाय़न उवाच:
जवं परममास्थाय़ प्रदुद्राव विहङ्गमः ||
४४ ख
वैशम्पाय़न उवाच:
तमपश्यदथाय़ान्तं श्येनं श्येनस्तथापरः |
४५ क
वैशम्पाय़न उवाच:
अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कय़ा ||
४५ ख
वैशम्पाय़न उवाच:
तुण्डय़ुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः |
४६ क