chevron_left अनुशासन पर्व अध्याय ५७
युधिष्ठिर उवाच:
मुह्यामीव निशम्याद्य चिन्तय़ानः पुनः पुनः |
१ क
युधिष्ठिर उवाच:
हीनां पार्थिवसङ्घातैः श्रीमद्भिः पृथिवीमिमाम् ||
१ ख
युधिष्ठिर उवाच:
प्राप्य राज्यानि शतशो महीं जित्वापि भारत |
२ क
युधिष्ठिर उवाच:
कोटिशः पुरुषान्हत्वा परितप्ये पितामह ||
२ ख
युधिष्ठिर उवाच:
का नु तासां वरस्त्रीणामवस्थाद्य भविष्यति |
३ क
युधिष्ठिर उवाच:
या हीनाः पतिभिः पुत्रैर्मातुलैर्भ्रातृभिस्तथा ||
३ ख
युधिष्ठिर उवाच:
वय़ं हि तान्गुरून्हत्वा ज्ञातींश्च सुहृदोऽपि च |
४ क
युधिष्ठिर उवाच:
अवाक्षीर्षाः पतिष्यामो नरके नात्र संशय़ः ||
४ ख
युधिष्ठिर उवाच:
शरीरं योक्तुमिच्छामि तपसोग्रेण भारत |
५ क
युधिष्ठिर उवाच:
उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशां पते ||
५ ख
वैशम्पाय़न उवाच:
युधिष्ठिरस्य तद्वाक्यं श्रुत्वा भीष्मो महामनाः |
६ क
वैशम्पाय़न उवाच:
परीक्ष्य निपुणं वुद्ध्या युधिष्ठिरमभाषत ||
६ ख
वैशम्पाय़न उवाच:
रहस्यमद्भुतं चैव शृणु वक्ष्यामि यत्त्वय़ि |
७ क
वैशम्पाय़न उवाच:
या गतिः प्राप्यते येन प्रेत्यभावेषु भारत ||
७ ख
वैशम्पाय़न उवाच:
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः |
८ क
वैशम्पाय़न उवाच:
आय़ुःप्रकर्षो भोगाश्च लभ्यन्ते तपसा विभो ||
८ ख
वैशम्पाय़न उवाच:
ज्ञानं विज्ञानमारोग्यं रूपं सम्पत्तथैव च |
९ क
वैशम्पाय़न उवाच:
सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ ||
९ ख
वैशम्पाय़न उवाच:
धनं प्राप्नोति तपसा मौनं ज्ञानं प्रय़च्छति |
१० क
वैशम्पाय़न उवाच:
उपभोगांस्तु दानेन व्रह्मचर्येण जीवितम् ||
१० ख
वैशम्पाय़न उवाच:
अहिंसाय़ाः फलं रूपं दीक्षाय़ा जन्म वै कुले |
११ क
वैशम्पाय़न उवाच:
फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां भवेत् ||
११ ख
वैशम्पाय़न उवाच:
पय़ोभक्षो दिवं याति स्नानेन द्रविणाधिकः |
१२ क
वैशम्पाय़न उवाच:
गुरुशुश्रूषय़ा विद्या नित्यश्राद्धेन सन्ततिः ||
१२ ख
वैशम्पाय़न उवाच:
गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशनात् |
१३ क
वैशम्पाय़न उवाच:
स्त्रिय़स्त्रिषवणस्नानाद्वाय़ुं पीत्वा क्रतुं लभेत् ||
१३ ख
वैशम्पाय़न उवाच:
नित्यस्नाय़ी भवेद्दक्षः सन्ध्ये तु द्वे जपन्द्विजः |
१४ क
वैशम्पाय़न उवाच:
मरुं साधय़तो राज्यं नाकपृष्ठमनाशके ||
१४ ख
वैशम्पाय़न उवाच:
स्थण्डिले शय़मानानां गृहाणि शय़नानि च |
१५ क
वैशम्पाय़न उवाच:
चीरवल्कलवासोभिर्वासांस्याभरणानि च ||
१५ ख
वैशम्पाय़न उवाच:
शय़्यासनानि यानानि योगय़ुक्ते तपोधने |
१६ क
वैशम्पाय़न उवाच:
अग्निप्रवेशे निय़तं व्रह्मलोको विधीय़ते ||
१६ ख
वैशम्पाय़न उवाच:
रसानां प्रतिसंहारात्सौभाग्यमिह विन्दति |
१७ क
वैशम्पाय़न उवाच:
आमिषप्रतिसंहारात्प्रजास्याय़ुष्मती भवेत् ||
१७ ख
वैशम्पाय़न उवाच:
उदवासं वसेद्यस्तु स नराधिपतिर्भवेत् |
१८ क
वैशम्पाय़न उवाच:
सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते ||
१८ ख
वैशम्पाय़न उवाच:
कीर्तिर्भवति दानेन तथारोग्यमहिंसय़ा |
१९ क
वैशम्पाय़न उवाच:
द्विजशुश्रूषय़ा राज्यं द्विजत्वं वापि पुष्कलम् ||
१९ ख
वैशम्पाय़न उवाच:
पानीय़स्य प्रदानेन कीर्तिर्भवति शाश्वती |
२० क
वैशम्पाय़न उवाच:
अन्नपानप्रदानेन तृप्यते कामभोगतः ||
२० ख
वैशम्पाय़न उवाच:
सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते |
२१ क
वैशम्पाय़न उवाच:
देवशुश्रूषय़ा राज्यं दिव्यं रूपं निय़च्छति ||
२१ ख
वैशम्पाय़न उवाच:
दीपालोकप्रदानेन चक्षुष्मान्भवते नरः |
२२ क
वैशम्पाय़न उवाच:
प्रेक्षणीय़प्रदानेन स्मृतिं मेधां च विन्दति ||
२२ ख
वैशम्पाय़न उवाच:
गन्धमाल्यनिवृत्त्या तु कीर्तिर्भवति पुष्कला |
२३ क
वैशम्पाय़न उवाच:
केशश्मश्रून्धारय़तामग्र्या भवति सन्ततिः ||
२३ ख
वैशम्पाय़न उवाच:
उपवासं च दीक्षां च अभिषेकं च पार्थिव |
२४ क
वैशम्पाय़न उवाच:
कृत्वा द्वादश वर्षाणि वीरस्थानाद्विशिष्यते ||
२४ ख
वैशम्पाय़न उवाच:
दासीदासमलङ्कारान्क्षेत्राणि च गृहाणि च |
२५ क
वैशम्पाय़न उवाच:
व्रह्मदेय़ां सुतां दत्त्वा प्राप्नोति मनुजर्षभ ||
२५ ख
वैशम्पाय़न उवाच:
क्रतुभिश्चोपवासैश्च त्रिदिवं याति भारत |
२६ क
वैशम्पाय़न उवाच:
लभते च चिरं स्थानं वलिपुष्पप्रदो नरः ||
२६ ख
वैशम्पाय़न उवाच:
सुवर्णशृङ्गैस्तु विभूषितानां; गवां सहस्रस्य नरः प्रदाता |
२७ क
वैशम्पाय़न उवाच:
प्राप्नोति पुण्यं दिवि देवलोक; मित्येवमाहुर्मुनिदेवसङ्घाः ||
२७ ख
वैशम्पाय़न उवाच:
प्रय़च्छते यः कपिलां सचैलां; कांस्योपदोहां कनकाग्रशृङ्गीम् |
२८ क
वैशम्पाय़न उवाच:
तैस्तैर्गुणैः कामदुघास्य भूत्वा; नरं प्रदातारमुपैति सा गौः ||
२८ ख
वैशम्पाय़न उवाच:
यावन्ति लोमानि भवन्ति धेन्वा; स्तावत्फलं प्राप्नुते गोप्रदाता |
२९ क
वैशम्पाय़न उवाच:
पुत्रांश्च पौत्रांश्च कुलं च सर्व; मासप्तमं तारय़ते परत्र ||
२९ ख
वैशम्पाय़न उवाच:
सदक्षिणां काञ्चनचारुशृङ्गीं; कांस्योपदोहां द्रविणोत्तरीय़ाम् |
३० क
वैशम्पाय़न उवाच:
धेनुं तिलानां ददतो द्विजाय़; लोका वसूनां सुलभा भवन्ति ||
३० ख
वैशम्पाय़न उवाच:
स्वकर्मभिर्मानवं संनिवद्धं; तीव्रान्धकारे नरके पतन्तम् |
३१ क
वैशम्पाय़न उवाच:
महार्णवे नौरिव वाय़ुय़ुक्ता; दानं गवां तारय़ते परत्र ||
३१ ख
वैशम्पाय़न उवाच:
यो व्रह्मदेय़ां तु ददाति कन्यां; भूमिप्रदानं च करोति विप्रे |
३२ क
वैशम्पाय़न उवाच:
ददाति चान्नं विधिवच्च यश्च; स लोकमाप्नोति पुरन्दरस्य ||
३२ ख
वैशम्पाय़न उवाच:
नैवेशिकं सर्वगुणोपपन्नं; ददाति वै यस्तु नरो द्विजाय़ |
३३ क
वैशम्पाय़न उवाच:
स्वाध्याय़चारित्रगुणान्विताय़; तस्यापि लोकाः कुरुषूत्तरेषु ||
३३ ख
वैशम्पाय़न उवाच:
धुर्यप्रदानेन गवां तथाश्वै; र्लोकानवाप्नोति नरो वसूनाम् |
३४ क
वैशम्पाय़न उवाच:
स्वर्गाय़ चाहुर्हि हिरण्यदानं; ततो विशिष्टं कनकप्रदानम् ||
३४ ख
वैशम्पाय़न उवाच:
छत्रप्रदानेन गृहं वरिष्ठं; यानं तथोपानहसम्प्रदाने |
३५ क
वैशम्पाय़न उवाच:
वस्त्रप्रदानेन फलं सुरूपं; गन्धप्रदाने सुरभिर्नरः स्यात् ||
३५ ख
वैशम्पाय़न उवाच:
पुष्पोपगं वाथ फलोपगं वा; यः पादपं स्पर्शय़ते द्विजाय़ |
३६ क
वैशम्पाय़न उवाच:
स स्त्रीसमृद्धं वहुरत्नपूर्णं; लभत्ययत्नोपगतं गृहं वै ||
३६ ख
वैशम्पाय़न उवाच:
भक्षान्नपानीय़रसप्रदाता; सर्वानवाप्नोति रसान्प्रकामम् |
३७ क
वैशम्पाय़न उवाच:
प्रतिश्रय़ाच्छादनसम्प्रदाता; प्राप्नोति तानेव न संशय़ोऽत्र ||
३७ ख
वैशम्पाय़न उवाच:
स्रग्धूपगन्धान्यनुलेपनानि; स्नानानि माल्यानि च मानवो यः |
३८ क
वैशम्पाय़न उवाच:
दद्याद्द्विजेभ्यः स भवेदरोग; स्तथाभिरूपश्च नरेन्द्रलोके ||
३८ ख
वैशम्पाय़न उवाच:
वीजैरशून्यं शय़नैरुपेतं; दद्याद्गृहं यः पुरुषो द्विजाय़ |
३९ क
वैशम्पाय़न उवाच:
पुण्याभिरामं वहुरत्नपूर्णं; लभत्यधिष्ठानवरं स राजन् ||
३९ ख
वैशम्पाय़न उवाच:
सुगन्धचित्रास्तरणोपपन्नं; दद्यान्नरो यः शय़नं द्विजाय़ |
४० क
वैशम्पाय़न उवाच:
रूपान्वितां पक्षवतीं मनोज्ञां; भार्यामय़त्नोपगतां लभेत्सः ||
४० ख
वैशम्पाय़न उवाच:
पितामहस्यानुचरो वीरशाय़ी भवेन्नरः |
४१ क
वैशम्पाय़न उवाच:
नाधिकं विद्यते तस्मादित्याहुः परमर्षय़ः ||
४१ ख
वैशम्पाय़न उवाच:
तस्य तद्वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः |
४२ क
वैशम्पाय़न उवाच:
नाश्रमेऽरोचय़द्वासं वीरमार्गाभिकाङ्क्षय़ा ||
४२ ख
वैशम्पाय़न उवाच:
ततो युधिष्ठिरः प्राह पाण्डवान्भरतर्षभ |
४३ क
वैशम्पाय़न उवाच:
पितामहस्य यद्वाक्यं तद्वो रोचत्विति प्रभुः ||
४३ ख
वैशम्पाय़न उवाच:
ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी |
४४ क
वैशम्पाय़न उवाच:
युधिष्ठिरस्य तद्वाक्यं वाढमित्यभ्यपूजय़न् ||
४४ ख