chevron_left आश्वमेधिक पर्व अध्याय ५७
वैशम्पाय़न उवाच:
स मित्रसहमासाद्य त्वभिज्ञानमय़ाचत |
१ क
वैशम्पाय़न उवाच:
तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा ||
१ ख
सौदास उवाच:
न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः |
२ क
सौदास उवाच:
एतन्मे मतमाज्ञाय़ प्रय़च्छ मणिकुण्डले ||
२ ख
वैशम्पाय़न उवाच:
इत्युक्तस्तामुत्तङ्कस्तु भर्तुर्वाक्यमथाव्रवीत् |
३ क
वैशम्पाय़न उवाच:
श्रुत्वा च सा ततः प्रादात्तस्मै ते मणिकुण्डले ||
३ ख
वैशम्पाय़न उवाच:
अवाप्य कुण्डले ते तु राजानं पुनरव्रवीत् |
४ क
वैशम्पाय़न उवाच:
किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव ||
४ ख
सौदास उवाच:
प्रजा निसर्गाद्विप्रान्वै क्षत्रिय़ाः पूजय़न्ति ह |
५ क
सौदास उवाच:
विप्रेभ्यश्चापि वहवो दोषाः प्रादुर्भवन्ति नः ||
५ ख
सौदास उवाच:
सोऽहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान् |
६ क
सौदास उवाच:
गतिमन्यां न पश्यामि मदय़न्तीसहाय़वान् |
६ ख
सौदास उवाच:
स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम ||
६ ग
सौदास उवाच:
न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः |
७ क
सौदास उवाच:
शक्यं नृलोके संस्थातुं प्रेत्य वा सुखमेधितुम् ||
७ ख
सौदास उवाच:
तदिष्टे ते मय़ैवैते दत्ते स्वे मणिकुण्डले |
८ क
सौदास उवाच:
यः कृतस्तेऽद्य समय़ः सफलं तं कुरुष्व मे ||
८ ख
उत्तङ्क उवाच:
राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम् |
९ क
उत्तङ्क उवाच:
प्रश्नं तु कञ्चित्प्रष्टुं त्वां व्यवसिष्ये परन्तप ||
९ ख
सौदास उवाच:
व्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः |
१० क
सौदास उवाच:
छेत्तास्मि संशय़ं तेऽद्य न मेऽत्रास्ति विचारणा ||
१० ख
उत्तङ्क उवाच:
प्राहुर्वाक्सङ्गतं मित्रं धर्मनैपुण्यदर्शिनः |
११ क
उत्तङ्क उवाच:
मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः ||
११ ख
उत्तङ्क उवाच:
स भवान्मित्रतामद्य सम्प्राप्तो मम पार्थिव |
१२ क
उत्तङ्क उवाच:
स मे वुद्धिं प्रय़च्छस्व समां वुद्धिमतां वर ||
१२ ख
उत्तङ्क उवाच:
अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः |
१३ क
उत्तङ्क उवाच:
भवत्सकाशमागन्तुं क्षमं मम न वेति वा ||
१३ ख
सौदास उवाच:
क्षमं चेदिह वक्तव्यं मय़ा द्विजवरोत्तम |
१४ क
सौदास उवाच:
मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथञ्चन ||
१४ ख
सौदास उवाच:
एवं तव प्रपश्यामि श्रेय़ो भृगुकुलोद्वह |
१५ क
सौदास उवाच:
आगच्छतो हि ते विप्र भवेन्मृत्युरसंशय़म् ||
१५ ख
वैशम्पाय़न उवाच:
इत्युक्तः स तदा राज्ञा क्षमं वुद्धिमता हितम् |
१६ क
वैशम्पाय़न उवाच:
समनुज्ञाप्य राजानमहल्यां प्रति जग्मिवान् ||
१६ ख
वैशम्पाय़न उवाच:
गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रिय़ङ्करः |
१७ क
वैशम्पाय़न उवाच:
जवेन महता प्राय़ाद्गौतमस्याश्रमं प्रति ||
१७ ख
वैशम्पाय़न उवाच:
यथा तय़ो रक्षणं च मदय़न्त्याभिभाषितम् |
१८ क
वैशम्पाय़न उवाच:
तथा ते कुण्डले वद्ध्वा तथा कृष्णाजिनेऽनय़त् ||
१८ ख
वैशम्पाय़न उवाच:
स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम् |
१९ क
वैशम्पाय़न उवाच:
विल्वं ददर्श कस्मिंश्चिदारुरोह क्षुधान्वितः ||
१९ ख
वैशम्पाय़न उवाच:
शाखास्वासज्य तस्यैव कृष्णाजिनमरिन्दम |
२० क
वैशम्पाय़न उवाच:
यस्मिंस्ते कुण्डले वद्धे तदा द्विजवरेण वै ||
२० ख
वैशम्पाय़न उवाच:
विशीर्णवन्धने तस्मिन्गते कृष्णाजिने महीम् |
२१ क
वैशम्पाय़न उवाच:
अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले ||
२१ ख
वैशम्पाय़न उवाच:
ऐरावतकुलोत्पन्नः शीघ्रो भूत्वा तदा स वै |
२२ क
वैशम्पाय़न उवाच:
विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले ||
२२ ख
वैशम्पाय़न उवाच:
ह्रिय़माणे तु दृष्ट्वा स कुण्डले भुजगेन ह |
२३ क
वैशम्पाय़न उवाच:
पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः ||
२३ ख
वैशम्पाय़न उवाच:
स दण्डकाष्ठमादाय़ वल्मीकमखनत्तदा |
२४ क
वैशम्पाय़न उवाच:
क्रोधामर्षाभितप्ताङ्गस्ततो वै द्विजपुङ्गवः ||
२४ ख
वैशम्पाय़न उवाच:
तस्य वेगमसह्यं तमसहन्ती वसुन्धरा |
२५ क
वैशम्पाय़न उवाच:
दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमातुरा ||
२५ ख
वैशम्पाय़न उवाच:
ततः खनत एवाथ विप्रर्षेर्धरणीतलम् |
२६ क
वैशम्पाय़न उवाच:
नागलोकस्य पन्थानं कर्तुकामस्य निश्चय़ात् ||
२६ ख
वैशम्पाय़न उवाच:
रथेन हरिय़ुक्तेन तं देशमुपजग्मिवान् |
२७ क
वैशम्पाय़न उवाच:
वज्रपाणिर्महातेजा ददर्श च द्विजोत्तमम् ||
२७ ख
वैशम्पाय़न उवाच:
स तु तं व्राह्मणो भूत्वा तस्य दुःखेन दुःखितः |
२८ क
वैशम्पाय़न उवाच:
उत्तङ्कमव्रवीत्तात नैतच्छक्यं त्वय़ेति वै ||
२८ ख
वैशम्पाय़न उवाच:
इतो हि नागलोको वै योजनानि सहस्रशः |
२९ क
वैशम्पाय़न उवाच:
न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव ||
२९ ख
उत्तङ्क उवाच:
नागलोके यदि व्रह्मन्न शक्ये कुण्डले मय़ा |
३० क
उत्तङ्क उवाच:
प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम ||
३० ख
उत्तङ्क उवाच:
यदा स नाशकत्तस्य निश्चय़ं कर्तुमन्यथा |
३१ क
उत्तङ्क उवाच:
वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युय़ोज ह ||
३१ ख
उत्तङ्क उवाच:
ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुन्धरा |
३२ क
उत्तङ्क उवाच:
नागलोकस्य पन्थानमकरोज्जनमेजय़ ||
३२ ख
उत्तङ्क उवाच:
स तेन मार्गेण तदा नागलोकं विवेश ह |
३३ क
उत्तङ्क उवाच:
ददर्श नागलोकं च योजनानि सहस्रशः ||
३३ ख
उत्तङ्क उवाच:
प्राकारनिचय़ैर्दिव्यैर्मणिमुक्ताभ्यलङ्कृतैः |
३४ क
उत्तङ्क उवाच:
उपपन्नं महाभाग शातकुम्भमय़ैस्तथा ||
३४ ख
उत्तङ्क उवाच:
वापीः स्फटिकसोपाना नदीश्च विमलोदकाः |
३५ क
उत्तङ्क उवाच:
ददर्श वृक्षांश्च वहून्नानाद्विजगणाय़ुतान् ||
३५ ख
उत्तङ्क उवाच:
तस्य लोकस्य च द्वारं ददर्श स भृगूद्वहः |
३६ क
उत्तङ्क उवाच:
पञ्चय़ोजनविस्तारमाय़तं शतय़ोजनम् ||
३६ ख
उत्तङ्क उवाच:
नागलोकमुत्तङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा |
३७ क
उत्तङ्क उवाच:
निराशश्चाभवत्तात कुण्डलाहरणे पुनः ||
३७ ख
उत्तङ्क उवाच:
तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः |
३८ क
उत्तङ्क उवाच:
ताम्रास्यनेत्रः कौरव्य प्रज्वलन्निव तेजसा ||
३८ ख
उत्तङ्क उवाच:
धमस्वापानमेतन्मे ततस्त्वं विप्र लल्प्स्यसे |
३९ क
उत्तङ्क उवाच:
ऐरावतसुतेनेह तवानीते हि कुण्डले ||
३९ ख
उत्तङ्क उवाच:
मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथञ्चन |
४० क
उत्तङ्क उवाच:
त्वय़ैतद्धि समाचीर्णं गौतमस्याश्रमे तदा ||
४० ख
उत्तङ्क उवाच:
कथं भवन्तं जानीय़ामुपाध्याय़ाश्रमं प्रति |
४१ क
उत्तङ्क उवाच:
यन्मय़ा चीर्णपूर्वं च श्रोतुमिच्छामि तद्ध्यहम् ||
४१ ख
अश्व उवाच:
गुरोर्गुरुं मां जानीहि ज्वलितं जातवेदसम् |
४२ क
अश्व उवाच:
त्वय़ा ह्यहं सदा वत्स गुरोरर्थेऽभिपूजितः ||
४२ ख
अश्व उवाच:
सततं पूजितो विप्र शुचिना भृगुनन्दन |
४३ क
अश्व उवाच:
तस्माच्छ्रेय़ो विधास्यामि तवैवं कुरु मा चिरम् ||
४३ ख
अश्व उवाच:
इत्युक्तः स तथाकार्षीदुत्तङ्कश्चित्रभानुना |
४४ क
अश्व उवाच:
घृतार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षय़ा ||
४४ ख
अश्व उवाच:
ततोऽस्य रोमकूपेभ्यो ध्माय़मानस्य भारत |
४५ क
अश्व उवाच:
घनः प्रादुरभूद्धूमो नागलोकभय़ावहः ||
४५ ख
अश्व उवाच:
तेन धूमेन सहसा वर्धमानेन भारत |
४६ क
अश्व उवाच:
नागलोके महाराज न प्रज्ञाय़त किञ्चन ||
४६ ख
अश्व उवाच:
हाहाकृतमभूत्सर्वमैरावतनिवेशनम् |
४७ क
अश्व उवाच:
वासुकिप्रमुखानां च नागानां जनमेजय़ ||
४७ ख
अश्व उवाच:
न प्रकाशन्त वेश्मानि धूमरुद्धानि भारत |
४८ क
अश्व उवाच:
नीहारसंवृतानीव वनानि गिरय़स्तथा ||
४८ ख
अश्व उवाच:
ते धूमरक्तनय़ना वह्नितेजोभितापिताः |
४९ क
अश्व उवाच:
आजग्मुर्निश्चय़ं ज्ञातुं भार्गवस्यातितेजसः ||
४९ ख
अश्व उवाच:
श्रुत्वा च निश्चय़ं तस्य महर्षेस्तिग्मतेजसः |
५० क