chevron_left द्रोण पर्व अध्याय ५७
सञ्जय़ उवाच:
कुन्तीपुत्रस्तु तं मन्त्रं स्मरन्नेव धनञ्जय़ः |
१ क
सञ्जय़ उवाच:
प्रतिज्ञामात्मनो रक्षन्मुमोहाचिन्त्यविक्रमः ||
१ ख
सञ्जय़ उवाच:
तं तु शोकेन सन्तप्तं स्वप्ने कपिवरध्वजम् |
२ क
सञ्जय़ उवाच:
आससाद महातेजा ध्याय़न्तं गरुडध्वजः ||
२ ख
सञ्जय़ उवाच:
प्रत्युत्थानं तु कृष्णस्य सर्वावस्थं धनञ्जय़ः |
३ क
सञ्जय़ उवाच:
नालोपय़त धर्मात्मा भक्त्या प्रेम्णा च सर्वदा ||
३ ख
सञ्जय़ उवाच:
प्रत्युत्थाय़ च गोविन्दं स तस्माय़ासनं ददौ |
४ क
सञ्जय़ उवाच:
न चासने स्वय़ं वुद्धिं वीभत्सुर्व्यदधात्तदा ||
४ ख
सञ्जय़ उवाच:
ततः कृष्णो महातेजा जानन्पार्थस्य निश्चय़म् |
५ क
सञ्जय़ उवाच:
कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमव्रवीत् ||
५ ख
सञ्जय़ उवाच:
मा विषादे मनः पार्थ कृथाः कालो हि दुर्जय़ः |
६ क
सञ्जय़ उवाच:
कालः सर्वाणि भूतानि निय़च्छति परे विधौ ||
६ ख
सञ्जय़ उवाच:
किमर्थं च विषादस्ते तद्व्रूहि वदतां वर |
७ क
सञ्जय़ उवाच:
न शोचितव्यं विदुषा शोकः कार्यविनाशनः ||
७ ख
सञ्जय़ उवाच:
शोचन्नन्दय़ते शत्रून्कर्शय़त्यपि वान्धवान् |
८ क
सञ्जय़ उवाच:
क्षीय़ते च नरस्तस्मान्न त्वं शोचितुमर्हसि ||
८ ख
सञ्जय़ उवाच:
इत्युक्तो वासुदेवेन वीभत्सुरपराजितः |
९ क
सञ्जय़ उवाच:
आवभाषे तदा विद्वानिदं वचनमर्थवत् ||
९ ख
सञ्जय़ उवाच:
मय़ा प्रतिज्ञा महती जय़द्रथवधे कृता |
१० क
सञ्जय़ उवाच:
श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव ||
१० ख
सञ्जय़ उवाच:
मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत |
११ क
सञ्जय़ उवाच:
पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः ||
११ ख
सञ्जय़ उवाच:
दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जय़ाः |
१२ क
सञ्जय़ उवाच:
प्रतिज्ञाय़ां च हीनाय़ां कथं जीवेत मद्विधः ||
१२ ख
सञ्जय़ उवाच:
दुःखोपाय़स्य मे वीर विकाङ्क्षा परिवर्तते |
१३ क
सञ्जय़ उवाच:
द्रुतं च याति सविता तत एतद्व्रवीम्यहम् ||
१३ ख
सञ्जय़ उवाच:
शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः |
१४ क
सञ्जय़ उवाच:
संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः ||
१४ ख
सञ्जय़ उवाच:
इदं वाक्यं महातेजा वभाषे पुष्करेक्षणः |
१५ क
सञ्जय़ उवाच:
हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे वृतः ||
१५ ख
सञ्जय़ उवाच:
पार्थ पाशुपतं नाम परमास्त्रं सनातनम् |
१६ क
सञ्जय़ उवाच:
येन सर्वान्मृधे दैत्याञ्जघ्ने देवो महेश्वरः ||
१६ ख
सञ्जय़ उवाच:
यदि तद्विदितं तेऽद्य श्वो हन्तासि जय़द्रथम् |
१७ क
सञ्जय़ उवाच:
अथ ज्ञातुं प्रपद्यस्व मनसा वृषभध्वजम् ||
१७ ख
सञ्जय़ उवाच:
तं देवं मनसा ध्याय़ञ्जोषमास्स्व धनञ्जय़ |
१८ क
सञ्जय़ उवाच:
ततस्तस्य प्रसादात्त्वं भक्तः प्राप्स्यसि तन्महत् ||
१८ ख
सञ्जय़ उवाच:
ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनञ्जय़ः |
१९ क
सञ्जय़ उवाच:
भूमावासीन एकाग्रो जगाम मनसा भवम् ||
१९ ख
सञ्जय़ उवाच:
ततः प्रणिहिते व्राह्मे मुहूर्ते शुभलक्षणे |
२० क
सञ्जय़ उवाच:
आत्मानमर्जुनोऽपश्यद्गगने सहकेशवम् ||
२० ख
सञ्जय़ उवाच:
ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम् |
२१ क
सञ्जय़ उवाच:
वाय़ुवेगगतिः पार्थः खं भेजे सहकेशवः ||
२१ ख
सञ्जय़ उवाच:
केशवेन गृहीतः स दक्षिणे विभुना भुजे |
२२ क
सञ्जय़ उवाच:
प्रेक्षमाणो वहून्भावाञ्जगामाद्भुतदर्शनान् ||
२२ ख
सञ्जय़ उवाच:
उदीच्यां दिशि धर्मात्मा सोऽपश्यच्छ्वेतपर्वतम् |
२३ क
सञ्जय़ उवाच:
कुवेरस्य विहारे च नलिनीं पद्मभूषिताम् ||
२३ ख
सञ्जय़ उवाच:
सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो वहूदकाम् |
२४ क
सञ्जय़ उवाच:
सदापुष्पफलैर्वृक्षैरुपेतां स्फटिकोपलाम् ||
२४ ख
सञ्जय़ उवाच:
सिंहव्याघ्रसमाकीर्णां नानामृगगणाकुलाम् |
२५ क
सञ्जय़ उवाच:
पुण्याश्रमवतीं रम्यां मनोज्ञाण्डजसेविताम् ||
२५ ख
सञ्जय़ उवाच:
मन्दरस्य प्रदेशांश्च किंनरोद्गीतनादितान् |
२६ क
सञ्जय़ उवाच:
हेमरूप्यमय़ैः शृङ्गैर्नानौषधिविदीपितान् |
२६ ख
सञ्जय़ उवाच:
तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान् ||
२६ ग
सञ्जय़ उवाच:
स्निग्धाञ्जनचय़ाकारं सम्प्राप्तः कालपर्वतम् |
२७ क
सञ्जय़ उवाच:
पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम् |
२७ ख
सञ्जय़ उवाच:
व्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि ||
२७ ग
सञ्जय़ उवाच:
सुशृङ्गं शतशृङ्गं च शर्यातिवनमेव च |
२८ क
सञ्जय़ उवाच:
पुण्यमश्वशिरःस्थानं स्थानमाथर्वणस्य च ||
२८ ख
सञ्जय़ उवाच:
वृषदंशं च शैलेन्द्रं महामन्दरमेव च |
२९ क
सञ्जय़ उवाच:
अप्सरोभिः समाकीर्णं किंनरैश्चोपशोभितम् ||
२९ ख
सञ्जय़ उवाच:
तांश्च शैलान्व्रजन्पार्थः प्रेक्षते सहकेशवः |
३० क
सञ्जय़ उवाच:
शुभैः प्रस्रवणैर्जुष्टान्हेमधातुविभूषितान् ||
३० ख
सञ्जय़ उवाच:
चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम् |
३१ क
सञ्जय़ उवाच:
समुद्रांश्चाद्भुताकारानपश्यद्वहुलाकरान् ||
३१ ख
सञ्जय़ उवाच:
विय़द्द्यां पृथिवीं चैव पश्यन्विष्णुपदे व्रजन् |
३२ क
सञ्जय़ उवाच:
विस्मितः सह कृष्णेन क्षिप्तो वाण इवात्यगात् ||
३२ ख
सञ्जय़ उवाच:
ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम् |
३३ क
सञ्जय़ उवाच:
अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम् ||
३३ ख
सञ्जय़ उवाच:
समासाद्य तु तं शैलं शैलाग्रे समवस्थितम् |
३४ क
सञ्जय़ उवाच:
तपोनित्यं महात्मानमपश्यद्वृषभध्वजम् ||
३४ ख
सञ्जय़ उवाच:
सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा |
३५ क
सञ्जय़ उवाच:
शूलिनं जटिलं गौरं वल्कलाजिनवाससम् ||
३५ ख
सञ्जय़ उवाच:
नय़नानां सहस्रैश्च विचित्राङ्गं महौजसम् |
३६ क
सञ्जय़ उवाच:
पार्वत्या सहितं देवं भूतसङ्घैश्च भास्वरैः ||
३६ ख
सञ्जय़ उवाच:
गीतवादित्रसंह्रादैस्ताललास्यसमन्वितम् |
३७ क
सञ्जय़ उवाच:
वल्गितास्फोटितोत्क्रुष्टैः पुण्यगन्धैश्च सेवितम् ||
३७ ख
सञ्जय़ उवाच:
स्तूय़मानं स्तवैर्दिव्यैर्मुनिभिर्व्रह्मवादिभिः |
३८ क
सञ्जय़ उवाच:
गोप्तारं सर्वभूतानामिष्वासधरमच्युतम् ||
३८ ख
सञ्जय़ उवाच:
वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम् |
३९ क
सञ्जय़ उवाच:
पार्थेन सह धर्मात्मा गृणन्व्रह्म सनातनम् ||
३९ ख
सञ्जय़ उवाच:
लोकादिं विश्वकर्माणमजमीशानमव्ययम् |
४० क
सञ्जय़ उवाच:
मनसः परमां योनिं खं वाय़ुं ज्योतिषां निधिम् ||
४० ख
सञ्जय़ उवाच:
स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम् |
४१ क
सञ्जय़ उवाच:
देवदानवय़क्षाणां मानवानां च साधनम् ||
४१ ख
सञ्जय़ उवाच:
योगिनां परमं व्रह्म व्यक्तं व्रह्मविदां निधिम् |
४२ क
सञ्जय़ उवाच:
चराचरस्य स्रष्टारं प्रतिहर्तारमेव च ||
४२ ख
सञ्जय़ उवाच:
कालकोपं महात्मानं शक्रसूर्यगुणोदय़म् |
४३ क
सञ्जय़ उवाच:
अवन्दत तदा कृष्णो वाङ्मनोवुद्धिकर्मभिः ||
४३ ख
सञ्जय़ उवाच:
यं प्रपश्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः |
४४ क
सञ्जय़ उवाच:
तमजं कारणात्मानं जग्मतुः शरणं भवम् ||
४४ ख
सञ्जय़ उवाच:
अर्जुनश्चापि तं देवं भूय़ो भूय़ोऽभ्यवन्दत |
४५ क
सञ्जय़ उवाच:
ज्ञात्वैकं भूतभव्यादिं सर्वभूतभवोद्भवम् ||
४५ ख
सञ्जय़ उवाच:
ततस्तावागतौ शर्वः प्रोवाच प्रहसन्निव |
४६ क
सञ्जय़ उवाच:
स्वागतं वां नरश्रेष्ठावुत्तिष्ठेतां गतक्लमौ |
४६ ख
सञ्जय़ उवाच:
किं च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम् ||
४६ ग
सञ्जय़ उवाच:
येन कार्येण सम्प्राप्तौ युवां तत्साधय़ामि वाम् |
४७ क
सञ्जय़ उवाच:
व्रिय़तामात्मनः श्रेय़स्तत्सर्वं प्रददानि वाम् ||
४७ ख
सञ्जय़ उवाच:
ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय़ कृताञ्जली |
४८ क
सञ्जय़ उवाच:
वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती ||
४८ ख
सञ्जय़ उवाच:
नमो भवाय़ शर्वाय़ रुद्राय़ वरदाय़ च |
४९ क