सञ्जय़ उवाच:
अर्जुनस्तु महाराज कृत्वा सैन्यं पृथग्विधम् |
१ क
सञ्जय़ उवाच:
सूतपुत्रं सुसंरव्धं दृष्ट्वा चैव महारणे ||
१ ख
सञ्जय़ उवाच:
शोणितोदां महीं कृत्वा मांसमज्जास्थिवाहिनीम् |
२ क
सञ्जय़ उवाच:
वासुदेवमिदं वाक्यमव्रवीत्पुरुषर्षभ ||
२ ख
सञ्जय़ उवाच:
एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते |
३ क
सञ्जय़ उवाच:
भीमसेनादय़श्चैते योधय़न्ति महारथान् |
३ ख
सञ्जय़ उवाच:
एते द्रवन्ति पाञ्चालाः कर्णात्त्रस्ता जनार्दन ||
३ ग
सञ्जय़ उवाच:
एष दुर्योधनो राजा श्वेतच्छत्रेण भास्वता |
४ क
सञ्जय़ उवाच:
कर्णेन भग्नान्पाञ्चालान्द्रावय़न्वहु शोभते ||
४ ख
सञ्जय़ उवाच:
कृपश्च कृतवर्मा च द्रौणिश्चैव महावलः |
५ क
सञ्जय़ उवाच:
एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः |
५ ख
सञ्जय़ उवाच:
अवध्यमानास्तेऽस्माभिर्घातय़िष्यन्ति सोमकान् ||
५ ग
सञ्जय़ उवाच:
एष शल्यो रथोपस्थे रश्मिसञ्चारकोविदः |
६ क
सञ्जय़ उवाच:
सूतपुत्ररथं कृष्ण वाहय़न्वहु शोभते ||
६ ख
सञ्जय़ उवाच:
तत्र मे वुद्धिरुत्पन्ना वाहय़ात्र महारथम् |
७ क
सञ्जय़ उवाच:
नाहत्वा समरे कर्णं निवर्तिष्ये कथञ्चन ||
७ ख
सञ्जय़ उवाच:
राधेय़ोऽप्यन्यथा पार्थान्सृञ्जय़ांश्च महारथान् |
८ क
सञ्जय़ उवाच:
निःशेषान्समरे कुर्यात्पश्यतोर्नौ जनार्दन ||
८ ख
सञ्जय़ उवाच:
ततः प्राय़ाद्रथेनाशु केशवस्तव वाहिनीम् |
९ क
सञ्जय़ उवाच:
कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिना ||
९ ख
सञ्जय़ उवाच:
प्रय़ातश्च महावाहुः पाण्डवानुज्ञय़ा हरिः |
१० क
सञ्जय़ उवाच:
आश्वासय़न्रथेनैव पाण्डुसैन्यानि सर्वशः ||
१० ख
सञ्जय़ उवाच:
रथघोषः स सङ्ग्रामे पाण्डवेय़स्य सम्वभौ |
११ क
सञ्जय़ उवाच:
वासवाशनितुल्यस्य महौघस्येव मारिष ||
११ ख
सञ्जय़ उवाच:
महता रथघोषेण पाण्डवः सत्यविक्रमः |
१२ क
सञ्जय़ उवाच:
अभ्ययादप्रमेय़ात्मा विजय़स्तव वाहिनीम् ||
१२ ख
सञ्जय़ उवाच:
तमाय़ान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम् |
१३ क
सञ्जय़ उवाच:
मद्रराजोऽव्रवीत्कर्णं केतुं दृष्ट्वा महात्मनः ||
१३ ख
सञ्जय़ उवाच:
अय़ं स रथ आय़ाति श्वेताश्वः कृष्णसारथिः |
१४ क
सञ्जय़ उवाच:
निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि ||
१४ ख
सञ्जय़ उवाच:
एष तिष्ठति कौन्तेय़ः संस्पृशन्गाण्डिवं धनुः |
१५ क
सञ्जय़ उवाच:
तं हनिष्यसि चेदद्य तन्नः श्रेय़ो भविष्यति ||
१५ ख
सञ्जय़ उवाच:
एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः |
१६ क
सञ्जय़ उवाच:
अर्जुनस्य भय़ात्तूर्णं निघ्नतः शात्रवान्वहून् ||
१६ ख
सञ्जय़ उवाच:
वर्जय़न्सर्वसैन्यानि त्वरते हि धनञ्जय़ः |
१७ क
सञ्जय़ उवाच:
त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः ||
१७ ख
सञ्जय़ उवाच:
न ह्यवस्थाप्यते पार्थो युय़ुत्सुः केनचित्सह |
१८ क
सञ्जय़ उवाच:
त्वामृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे ||
१८ ख
सञ्जय़ उवाच:
विरथं धर्मराजं च दृष्ट्वा सुदृढविक्षतम् |
१९ क
सञ्जय़ उवाच:
शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम् ||
१९ ख
सञ्जय़ उवाच:
द्रौपदेय़ान्युधामन्युमुत्तमौजसमेव च |
२० क
सञ्जय़ उवाच:
नकुलं सहदेवं च भ्रातरौ द्वौ समीक्ष्य च ||
२० ख
सञ्जय़ उवाच:
सहसैकरथः पार्थस्त्वामभ्येति परन्तप |
२१ क
सञ्जय़ उवाच:
क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वधन्विनाम् ||
२१ ख
सञ्जय़ उवाच:
त्वरितोऽभिपतत्यस्मांस्त्यक्त्वा सैन्यान्यसंशय़म् |
२२ क
सञ्जय़ उवाच:
त्वं कर्ण प्रतिय़ाह्येनं नास्त्यन्यो हि धनुर्धरः ||
२२ ख
सञ्जय़ उवाच:
न तं पश्यामि लोकेऽस्मिंस्त्वत्तोऽप्यन्यं धनुर्धरम् |
२३ क
सञ्जय़ उवाच:
अर्जुनं समरे क्रुद्धं यो वेलामिव धारय़ेत् ||
२३ ख
सञ्जय़ उवाच:
न चास्य रक्षां पश्यामि पृष्ठतो न च पार्श्वतः |
२४ क
सञ्जय़ उवाच:
एक एवाभिय़ाति त्वां पश्य साफल्यमात्मनः ||
२४ ख
सञ्जय़ उवाच:
त्वं हि कृष्णौ रणे शक्तः संसाधय़ितुमाहवे |
२५ क
सञ्जय़ उवाच:
तवैष भारो राधेय़ प्रत्युद्याहि धनञ्जय़म् ||
२५ ख
सञ्जय़ उवाच:
त्वं कृतो ह्येव भीष्मेण द्रोणद्रौणिकृपैरपि |
२६ क
सञ्जय़ उवाच:
सव्यसाचिप्रतिरथस्तं निवर्तय़ पाण्डवम् ||
२६ ख
सञ्जय़ उवाच:
लेलिहानं यथा सर्पं गर्जन्तमृषभं यथा |
२७ क
सञ्जय़ उवाच:
लय़स्थितं यथा व्याघ्रं जहि कर्ण धनञ्जय़म् ||
२७ ख
सञ्जय़ उवाच:
एते द्रवन्ति समरे धार्तराष्ट्रा महारथाः |
२८ क
सञ्जय़ उवाच:
अर्जुनस्य भय़ात्तूर्णं निरपेक्षा जनाधिपाः ||
२८ ख
सञ्जय़ उवाच:
द्रवतामथ तेषां तु युधि नान्योऽस्ति मानवः |
२९ क
सञ्जय़ उवाच:
भय़हा यो भवेद्वीर त्वामृते सूतनन्दन ||
२९ ख
सञ्जय़ उवाच:
एते त्वां कुरवः सर्वे द्वीपमासाद्य संय़ुगे |
३० क
सञ्जय़ उवाच:
विष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः ||
३० ख
सञ्जय़ उवाच:
वैदेहाम्वष्ठकाम्वोजास्तथा नग्नजितस्त्वय़ा |
३१ क
सञ्जय़ उवाच:
गान्धाराश्च यय़ा धृत्या जिताः सङ्ख्ये सुदुर्जय़ाः ||
३१ ख
सञ्जय़ उवाच:
तां धृतिं कुरु राधेय़ ततः प्रत्येहि पाण्डवम् |
३२ क
सञ्जय़ उवाच:
वासुदेवं च वार्ष्णेय़ं प्रीय़माणं किरीटिना ||
३२ ख
कर्ण उवाच:
प्रकृतिस्थो हि मे शल्य इदानीं संमतस्तथा |
३३ क
कर्ण उवाच:
प्रतिभासि महावाहो विभीश्चैव धनञ्जय़ात् ||
३३ ख
कर्ण उवाच:
पश्य वाह्वोर्वलं मेऽद्य शिक्षितस्य च पश्य मे |
३४ क
कर्ण उवाच:
एकोऽद्य निहनिष्यामि पाण्डवानां महाचमूम् ||
३४ ख
कर्ण उवाच:
कृष्णौ च पुरुषव्याघ्रौ तच्च सत्यं व्रवीमि ते |
३५ क
कर्ण उवाच:
नाहत्वा युधि तौ वीरावपय़ास्ये कथञ्चन ||
३५ ख
कर्ण उवाच:
स्वप्स्ये वा निहतस्ताभ्यामसत्यो हि रणे जय़ः |
३६ क
कर्ण उवाच:
कृतार्थो वा भविष्यामि हत्वा तावथ वा हतः ||
३६ ख
कर्ण उवाच:
नैतादृशो जातु वभूव लोके; रथोत्तमो यावदनुश्रुतं नः |
३७ क
कर्ण उवाच:
तमीदृशं प्रतिय़ोत्स्यामि पार्थं; महाहवे पश्य च पौरुषं मे ||
३७ ख
कर्ण उवाच:
रथे चरत्येष रथप्रवीरः; शीघ्रैर्हय़ैः कौरवराजपुत्रः |
३८ क
कर्ण उवाच:
स वाद्य मां नेष्यति कृच्छ्रमेत; त्कर्णस्यान्तादेतदन्ताः स्थ सर्वे ||
३८ ख
कर्ण उवाच:
अस्वेदिनौ राजपुत्रस्य हस्ता; ववेपिनौ जातकिणौ वृहन्तौ |
३९ क
कर्ण उवाच:
दृढाय़ुधः कृतिमान्क्षिप्रहस्तो; न पाण्डवेय़ेन समोऽस्ति योधः ||
३९ ख
कर्ण उवाच:
गृह्णात्यनेकानपि कङ्कपत्रा; नेकं यथा तान्क्षितिपान्प्रमथ्य |
४० क
कर्ण उवाच:
ते क्रोशमात्रं निपतन्त्यमोघाः; कस्तेन योधोऽस्ति समः पृथिव्याम् ||
४० ख
कर्ण उवाच:
अतोषय़त्पाण्डवेय़ो हुताशं; कृष्णद्वितीय़ोऽतिरथस्तरस्वी |
४१ क
कर्ण उवाच:
लेभे चक्रं यत्र कृष्णो महात्मा; धनुर्गाण्डीवं पाण्डवः सव्यसाची ||
४१ ख
कर्ण उवाच:
श्वेताश्वय़ुक्तं च सुघोषमग्र्यं; रथं महावाहुरदीनसत्त्वः |
४२ क
कर्ण उवाच:
महेषुधी चाक्षय़ौ दिव्यरूपौ; शस्त्राणि दिव्यानि च हव्यवाहात् ||
४२ ख
कर्ण उवाच:
तथेन्द्रलोके निजघान दैत्या; नसङ्ख्येय़ान्कालकेय़ांश्च सर्वान् |
४३ क
कर्ण उवाच:
लेभे शङ्खं देवदत्तं स्म तत्र; को नाम तेनाभ्यधिकः पृथिव्याम् ||
४३ ख
कर्ण उवाच:
महादेवं तोषय़ामास चैव; साक्षात्सुय़ुद्धेन महानुभावः |
४४ क
कर्ण उवाच:
लेभे ततः पाशुपतं सुघोरं; त्रैलोक्यसंहारकरं महास्त्रम् ||
४४ ख
कर्ण उवाच:
पृथक्पृथग्लोकपालाः समेता; ददुर्ह्यस्त्राण्यप्रमेय़ाणि यस्य |
४५ क
कर्ण उवाच:
यैस्ताञ्जघानाशु रणे नृसिंहा; न्स कालखञ्जानसुरान्समेतान् ||
४५ ख
कर्ण उवाच:
तथा विराटस्य पुरे समेता; न्सर्वानस्मानेकरथेन जित्वा |
४६ क
कर्ण उवाच:
जहार तद्गोधनमाजिमध्ये; वस्त्राणि चादत्त महारथेभ्यः ||
४६ ख
कर्ण उवाच:
तमीदृशं वीर्यगुणोपपन्नं; कृष्णद्वितीय़ं वरय़े रणाय़ |
४७ क
कर्ण उवाच:
अनन्तवीर्येण च केशवेन; नाराय़णेनाप्रतिमेन गुप्तम् ||
४७ ख
कर्ण उवाच:
वर्षाय़ुतैर्यस्य गुणा न शक्या; वक्तुं समेतैरपि सर्वलोकैः |
४८ क
कर्ण उवाच:
महात्मनः शङ्खचक्रासिपाणे; र्विष्णोर्जिष्णोर्वसुदेवात्मजस्य |
४८ ख
कर्ण उवाच:
भय़ं मे वै जाय़ते साध्वसं च; दृष्ट्वा कृष्णावेकरथे समेतौ ||
४८ ग
कर्ण उवाच:
उभौ हि शूरौ कृतिनौ दृढास्त्रौ; महारथौ संहननोपपन्नौ |
४९ क