chevron_left शल्य पर्व अध्याय ५७
सञ्जय़ उवाच:
समुदीर्णं ततो दृष्ट्वा सङ्ग्रामं कुरुमुख्ययोः |
१ क
सञ्जय़ उवाच:
अथाव्रवीदर्जुनस्तु वासुदेवं यशस्विनम् ||
१ ख
सञ्जय़ उवाच:
अनय़ोर्वीरय़ोर्युद्धे को ज्याय़ान्भवतो मतः |
२ क
सञ्जय़ उवाच:
कस्य वा को गुणो भूय़ानेतद्वद जनार्दन ||
२ ख
वासुदेव उवाच:
उपदेशोऽनय़ोस्तुल्यो भीमस्तु वलवत्तरः |
३ क
वासुदेव उवाच:
कृतय़त्नतरस्त्वेष धार्तराष्ट्रो वृकोदरात् ||
३ ख
वासुदेव उवाच:
भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति |
४ क
वासुदेव उवाच:
अन्याय़ेन तु युध्यन्वै हन्यादेष सुय़ोधनम् ||
४ ख
वासुदेव उवाच:
माय़या निर्जिता देवैरसुरा इति नः श्रुतम् |
५ क
वासुदेव उवाच:
विरोचनश्च शक्रेण माय़या निर्जितः सखे |
५ ख
वासुदेव उवाच:
माय़या चाक्षिपत्तेजो वृत्रस्य वलसूदनः ||
५ ग
वासुदेव उवाच:
प्रतिज्ञातं तु भीमेन द्यूतकाले धनञ्जय़ |
६ क
वासुदेव उवाच:
ऊरू भेत्स्यामि ते सङ्ख्ये गदय़ेति सुय़ोधनम् ||
६ ख
वासुदेव उवाच:
सोऽय़ं प्रतिज्ञां तां चापि पारय़ित्वारिकर्शनः |
७ क
वासुदेव उवाच:
माय़ाविनं च राजानं माय़यैव निकृन्ततु ||
७ ख
वासुदेव उवाच:
यद्येष वलमास्थाय़ न्याय़ेन प्रहरिष्यति |
८ क
वासुदेव उवाच:
विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः ||
८ ख
वासुदेव उवाच:
पुनरेव च वक्ष्यामि पाण्डवेदं निवोध मे |
९ क
वासुदेव उवाच:
धर्मराजापराधेन भय़ं नः पुनरागतम् ||
९ ख
वासुदेव उवाच:
कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून् |
१० क
वासुदेव उवाच:
जय़ः प्राप्तो यशश्चाग्र्यं वैरं च प्रतिय़ातितम् |
१० ख
वासुदेव उवाच:
तदेवं विजय़ः प्राप्तः पुनः संशय़ितः कृतः ||
१० ग
वासुदेव उवाच:
अवुद्धिरेषा महती धर्मराजस्य पाण्डव |
११ क
वासुदेव उवाच:
यदेकविजय़े युद्धं पणितं कृतमीदृशम् |
११ ख
वासुदेव उवाच:
सुय़ोधनः कृती वीर एकाय़नगतस्तथा ||
११ ग
वासुदेव उवाच:
अपि चोशनसा गीतः श्रूय़तेऽय़ं पुरातनः |
१२ क
वासुदेव उवाच:
श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु ||
१२ ख
वासुदेव उवाच:
पुनरावर्तमानानां भग्नानां जीवितैषिणाम् |
१३ क
वासुदेव उवाच:
भेतव्यमरिशेषाणामेकाय़नगता हि ते ||
१३ ख
वासुदेव उवाच:
सुय़ोधनमिमं भग्नं हतसैन्यं ह्रदं गतम् |
१४ क
वासुदेव उवाच:
पराजितं वनप्रेप्सुं निराशं राज्यलम्भने ||
१४ ख
वासुदेव उवाच:
को न्वेष संय़ुगे प्राज्ञः पुनर्द्वन्द्वे समाह्वय़ेत् |
१५ क
वासुदेव उवाच:
अपि वो निर्जितं राज्यं न हरेत सुय़ोधनः ||
१५ ख
वासुदेव उवाच:
यस्त्रय़ोदशवर्षाणि गदय़ा कृतनिश्रमः |
१६ क
वासुदेव उवाच:
चरत्यूर्ध्वं च तिर्यक्च भीमसेनजिघांसय़ा ||
१६ ख
वासुदेव उवाच:
एवं चेन्न महावाहुरन्याय़ेन हनिष्यति |
१७ क
वासुदेव उवाच:
एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति ||
१७ ख
वासुदेव उवाच:
धनञ्जय़स्तु श्रुत्वैतत्केशवस्य महात्मनः |
१८ क
वासुदेव उवाच:
प्रेक्षतो भीमसेनस्य हस्तेनोरुमताडय़त् ||
१८ ख
वासुदेव उवाच:
गृह्य सञ्ज्ञां ततो भीमो गदय़ा व्यचरद्रणे |
१९ क
वासुदेव उवाच:
मण्डलानि विचित्राणि यमकानीतराणि च ||
१९ ख
वासुदेव उवाच:
दक्षिणं मण्डलं सव्यं गोमूत्रकमथापि च |
२० क
वासुदेव उवाच:
व्यचरत्पाण्डवो राजन्नरिं संमोहय़न्निव ||
२० ख
वासुदेव उवाच:
तथैव तव पुत्रोऽपि गदामार्गविशारदः |
२१ क
वासुदेव उवाच:
व्यचरल्लघु चित्रं च भीमसेनजिघांसय़ा ||
२१ ख
वासुदेव उवाच:
आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते |
२२ क
वासुदेव उवाच:
वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ ||
२२ ख
वासुदेव उवाच:
अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ |
२३ क
वासुदेव उवाच:
युय़ुधाते गरुत्मन्तौ यथा नागामिषैषिणौ ||
२३ ख
वासुदेव उवाच:
मण्डलानि विचित्राणि चरतोर्नृपभीमय़ोः |
२४ क
वासुदेव उवाच:
गदासम्पातजास्तत्र प्रजज्ञुः पावकार्चिषः ||
२४ ख
वासुदेव उवाच:
समं प्रहरतोस्तत्र शूरय़ोर्वलिनोर्मृधे |
२५ क
वासुदेव उवाच:
क्षुव्धय़ोर्वाय़ुना राजन्द्वय़ोरिव समुद्रय़ोः ||
२५ ख
वासुदेव उवाच:
तय़ोः प्रहरतोस्तुल्यं मत्तकुञ्जरय़ोरिव |
२६ क
वासुदेव उवाच:
गदानिर्घातसंह्रादः प्रहाराणामजाय़त ||
२६ ख
वासुदेव उवाच:
तस्मिंस्तदा सम्प्रहारे दारुणे सङ्कुले भृशम् |
२७ क
वासुदेव उवाच:
उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ ||
२७ ख
वासुदेव उवाच:
तौ मुहूर्तं समाश्वस्य पुनरेव परन्तपौ |
२८ क
वासुदेव उवाच:
अभ्यहारय़तां क्रुद्धौ प्रगृह्य महती गदे ||
२८ ख
वासुदेव उवाच:
तय़ोः समभवद्युद्धं घोररूपमसंवृतम् |
२९ क
वासुदेव उवाच:
गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम् ||
२९ ख
वासुदेव उवाच:
व्याय़ामप्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ |
३० क
वासुदेव उवाच:
अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव ||
३० ख
वासुदेव उवाच:
जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसम्प्लुतौ |
३१ क
वासुदेव उवाच:
ददृशाते हिमवति पुष्पिताविव किंशुकौ ||
३१ ख
वासुदेव उवाच:
दुर्योधनेन पार्थस्तु विवरे सम्प्रदर्शिते |
३२ क
वासुदेव उवाच:
ईषदुत्स्मय़मानस्तु सहसा प्रससार ह ||
३२ ख
वासुदेव उवाच:
तमभ्याशगतं प्राज्ञो रणे प्रेक्ष्य वृकोदरः |
३३ क
वासुदेव उवाच:
अवाक्षिपद्गदां तस्मै वेगेन महता वली ||
३३ ख
वासुदेव उवाच:
अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशां पते |
३४ क
वासुदेव उवाच:
अपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि ||
३४ ख
वासुदेव उवाच:
मोक्षय़ित्वा प्रहारं तं सुतस्तव स सम्भ्रमात् |
३५ क
वासुदेव उवाच:
भीमसेनं च गदय़ा प्राहरत्कुरुसत्तमः ||
३५ ख
वासुदेव उवाच:
तस्य विष्यन्दमानेन रुधिरेणामितौजसः |
३६ क
वासुदेव उवाच:
प्रहारगुरुपाताच्च मूर्छेव समजाय़त ||
३६ ख
वासुदेव उवाच:
दुर्योधनस्तं च वेद पीडितं पाण्डवं रणे |
३७ क
वासुदेव उवाच:
धारय़ामास भीमोऽपि शरीरमतिपीडितम् ||
३७ ख
वासुदेव उवाच:
अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे |
३८ क
वासुदेव उवाच:
अतो न प्राहरत्तस्मै पुनरेव तवात्मजः ||
३८ ख
वासुदेव उवाच:
ततो मुहूर्तमाश्वस्य दुर्योधनमवस्थितम् |
३९ क
वासुदेव उवाच:
वेगेनाभ्यद्रवद्राजन्भीमसेनः प्रतापवान् ||
३९ ख
वासुदेव उवाच:
तमापतन्तं सम्प्रेक्ष्य संरव्धममितौजसम् |
४० क
वासुदेव उवाच:
मोघमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ ||
४० ख
वासुदेव उवाच:
अवस्थाने मतिं कृत्वा पुत्रस्तव महामनाः |
४१ क
वासुदेव उवाच:
इय़ेषोत्पतितुं राजंश्छलय़िष्यन्वृकोदरम् ||
४१ ख
वासुदेव उवाच:
अवुध्यद्भीमसेनस्तद्राज्ञस्तस्य चिकीर्षितम् |
४२ क
वासुदेव उवाच:
अथास्य समभिद्रुत्य समुत्क्रम्य च सिंहवत् ||
४२ ख
वासुदेव उवाच:
सृत्या वञ्चय़तो राजन्पुनरेवोत्पतिष्यतः |
४३ क
वासुदेव उवाच:
ऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः ||
४३ ख
वासुदेव उवाच:
सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा |
४४ क
वासुदेव उवाच:
ऊरू दुर्योधनस्याथ वभञ्ज प्रिय़दर्शनौ ||
४४ ख
वासुदेव उवाच:
स पपात नरव्याघ्रो वसुधामनुनादय़न् |
४५ क
वासुदेव उवाच:
भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते ||
४५ ख
वासुदेव उवाच:
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च |
४६ क
वासुदेव उवाच:
चचाल पृथिवी चापि सवृक्षक्षुपपर्वता ||
४६ ख
वासुदेव उवाच:
तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम् |
४७ क
वासुदेव उवाच:
महास्वना पुनर्दीप्ता सनिर्घाता भय़ङ्करी |
४७ ख
वासुदेव उवाच:
पपात चोल्का महती पतिते पृथिवीपतौ ||
४७ ग
वासुदेव उवाच:
तथा शोणितवर्षं च पांसुवर्षं च भारत |
४८ क
वासुदेव उवाच:
ववर्ष मघवांस्तत्र तव पुत्रे निपातिते ||
४८ ख