chevron_left आदि पर्व अध्याय ५८
जनमेजय़ उवाच:
य एते कीर्तिता व्रह्मन्ये चान्ये नानुकीर्तिताः |
१ क
जनमेजय़ उवाच:
सम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः ||
१ ख
जनमेजय़ उवाच:
यदर्थमिह सम्भूता देवकल्पा महारथाः |
२ क
जनमेजय़ उवाच:
भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि ||
२ ख
वैशम्पाय़न उवाच:
रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् |
३ क
वैशम्पाय़न उवाच:
तत्तु ते कथय़िष्यामि नमस्कृत्वा स्वय़म्भुवे ||
३ ख
वैशम्पाय़न उवाच:
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रिय़ां पुरा |
४ क
वैशम्पाय़न उवाच:
जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे ||
४ ख
वैशम्पाय़न उवाच:
तदा निःक्षत्रिय़े लोके भार्गवेण कृते सति |
५ क
वैशम्पाय़न उवाच:
व्राह्मणान्क्षत्रिय़ा राजन्गर्भार्थिन्योऽभिचक्रमुः ||
५ ख
वैशम्पाय़न उवाच:
ताभिः सह समापेतुर्व्राह्मणाः संशितव्रताः |
६ क
वैशम्पाय़न उवाच:
ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा ||
६ ख
वैशम्पाय़न उवाच:
तेभ्यस्तु लेभिरे गर्भान्क्षत्रिय़ास्ताः सहस्रशः |
७ क
वैशम्पाय़न उवाच:
ततः सुषुविरे राजन्क्षत्रिय़ान्वीर्यसंमतान् |
७ ख
वैशम्पाय़न उवाच:
कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धय़े ||
७ ग
वैशम्पाय़न उवाच:
एवं तद्व्राह्मणैः क्षत्रं क्षत्रिय़ासु तपस्विभिः |
८ क
वैशम्पाय़न उवाच:
जातमृध्यत धर्मेण सुदीर्घेणाय़ुषान्वितम् |
८ ख
वैशम्पाय़न उवाच:
चत्वारोऽपि तदा वर्णा वभूवुर्व्राह्मणोत्तराः ||
८ ग
वैशम्पाय़न उवाच:
अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा |
९ क
वैशम्पाय़न उवाच:
तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि |
९ ख
वैशम्पाय़न उवाच:
ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ ||
९ ग
वैशम्पाय़न उवाच:
ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः |
१० क
वैशम्पाय़न उवाच:
ताः प्रजाः पृथिवीपाल धर्मव्रतपराय़णाः |
१० ख
वैशम्पाय़न उवाच:
आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः ||
१० ग
वैशम्पाय़न उवाच:
अथेमां सागरापाङ्गां गां गजेन्द्रगताखिलाम् |
११ क
वैशम्पाय़न उवाच:
अध्यतिष्ठत्पुनः क्षत्रं सशैलवनकाननाम् ||
११ ख
वैशम्पाय़न उवाच:
प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम् |
१२ क
वैशम्पाय़न उवाच:
व्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम् ||
१२ ख
वैशम्पाय़न उवाच:
कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः |
१३ क
वैशम्पाय़न उवाच:
दण्डं दण्ड्येषु धर्मेण प्रणय़न्तोऽन्वपालय़न् ||
१३ ख
वैशम्पाय़न उवाच:
तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः |
१४ क
वैशम्पाय़न उवाच:
स्वादु देशे च काले च ववर्षाप्याय़यन्प्रजाः ||
१४ ख
वैशम्पाय़न उवाच:
न वाल एव म्रिय़ते तदा कश्चिन्नराधिप |
१५ क
वैशम्पाय़न उवाच:
न च स्त्रिय़ं प्रजानाति कश्चिदप्राप्तय़ौवनः ||
१५ ख
वैशम्पाय़न उवाच:
एवमाय़ुष्मतीभिस्तु प्रजाभिर्भरतर्षभ |
१६ क
वैशम्पाय़न उवाच:
इय़ं सागरपर्यन्ता समापूर्यत मेदिनी ||
१६ ख
वैशम्पाय़न उवाच:
ईजिरे च महाय़ज्ञैः क्षत्रिय़ा वहुदक्षिणैः |
१७ क
वैशम्पाय़न उवाच:
साङ्गोपनिषदान्वेदान्विप्राश्चाधीय़ते तदा ||
१७ ख
वैशम्पाय़न उवाच:
न च विक्रीणते व्रह्म व्राह्मणाः स्म तदा नृप |
१८ क
वैशम्पाय़न उवाच:
न च शूद्रसमाभ्याशे वेदानुच्चारय़न्त्युत ||
१८ ख
वैशम्पाय़न उवाच:
कारय़न्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह |
१९ क
वैशम्पाय़न उवाच:
न गामय़ुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवय़न् ||
१९ ख
वैशम्पाय़न उवाच:
फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः |
२० क
वैशम्पाय़न उवाच:
न कूटमानैर्वणिजः पण्यं विक्रीणते तदा ||
२० ख
वैशम्पाय़न उवाच:
कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः |
२१ क
वैशम्पाय़न उवाच:
धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपराय़णाः ||
२१ ख
वैशम्पाय़न उवाच:
स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप |
२२ क
वैशम्पाय़न उवाच:
एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् ||
२२ ख
वैशम्पाय़न उवाच:
काले गावः प्रसूय़न्ते नार्यश्च भरतर्षभ |
२३ क
वैशम्पाय़न उवाच:
फलन्त्यृतुषु वृक्षाश्च पुष्पाणि च फलानि च ||
२३ ख
वैशम्पाय़न उवाच:
एवं कृतय़ुगे सम्यग्वर्तमाने तदा नृप |
२४ क
वैशम्पाय़न उवाच:
आपूर्यत मही कृत्स्ना प्राणिभिर्वहुभिर्भृशम् ||
२४ ख
वैशम्पाय़न उवाच:
ततः समुदिते लोके मानुषे भरतर्षभ |
२५ क
वैशम्पाय़न उवाच:
असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुङ्गव ||
२५ ख
वैशम्पाय़न उवाच:
आदित्यैर्हि तदा दैत्या वहुशो निर्जिता युधि |
२६ क
वैशम्पाय़न उवाच:
ऐश्वर्याद्भ्रंशिताश्चापि सम्वभूवुः क्षिताविह ||
२६ ख
वैशम्पाय़न उवाच:
इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः |
२७ क
वैशम्पाय़न उवाच:
जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो ||
२७ ख
वैशम्पाय़न उवाच:
गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च |
२८ क
वैशम्पाय़न उवाच:
क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च ||
२८ ख
वैशम्पाय़न उवाच:
जातैरिह महीपाल जाय़मानैश्च तैर्मही |
२९ क
वैशम्पाय़न उवाच:
न शशाकात्मनात्मानमिय़ं धारय़ितुं धरा ||
२९ ख
वैशम्पाय़न उवाच:
अथ जाता महीपालाः केचिद्वलसमन्विताः |
३० क
वैशम्पाय़न उवाच:
दितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः ||
३० ख
वैशम्पाय़न उवाच:
वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् |
३१ क
वैशम्पाय़न उवाच:
इमां सागरपर्यन्तां परीय़ुररिमर्दनाः ||
३१ ख
वैशम्पाय़न उवाच:
व्राह्मणान्क्षत्रिय़ान्वैश्याञ्शूद्रांश्चैवाप्यपीडय़न् |
३२ क
वैशम्पाय़न उवाच:
अन्यानि चैव भूतानि पीडय़ामासुरोजसा ||
३२ ख
वैशम्पाय़न उवाच:
त्रासय़न्तो विनिघ्नन्तस्तांस्तान्भूतगणांश्च ते |
३३ क
वैशम्पाय़न उवाच:
विचेरुः सर्वतो राजन्महीं शतसहस्रशः ||
३३ ख
वैशम्पाय़न उवाच:
आश्रमस्थान्महर्षींश्च धर्षय़न्तस्ततस्ततः |
३४ क
वैशम्पाय़न उवाच:
अव्रह्मण्या वीर्यमदा मत्ता मदवलेन च ||
३४ ख
वैशम्पाय़न उवाच:
एवं वीर्यवलोत्सिक्तैर्भूरिय़ं तैर्महासुरैः |
३५ क
वैशम्पाय़न उवाच:
पीड्यमाना महीपाल व्रह्माणमुपचक्रमे ||
३५ ख
वैशम्पाय़न उवाच:
न हीमां पवनो राजन्न नागा न नगा महीम् |
३६ क
वैशम्पाय़न उवाच:
तदा धारय़ितुं शेकुराक्रान्तां दानवैर्वलात् ||
३६ ख
वैशम्पाय़न उवाच:
ततो मही महीपाल भारार्ता भय़पीडिता |
३७ क
वैशम्पाय़न उवाच:
जगाम शरणं देवं सर्वभूतपितामहम् ||
३७ ख
वैशम्पाय़न उवाच:
सा संवृतं महाभागैर्देवद्विजमहर्षिभिः |
३८ क
वैशम्पाय़न उवाच:
ददर्श देवं व्रह्माणं लोककर्तारमव्ययम् ||
३८ ख
वैशम्पाय़न उवाच:
गन्धर्वैरप्सरोभिश्च वन्दिकर्मसु निष्ठितैः |
३९ क
वैशम्पाय़न उवाच:
वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा ||
३९ ख
वैशम्पाय़न उवाच:
अथ विज्ञापय़ामास भूमिस्तं शरणार्थिनी |
४० क
वैशम्पाय़न उवाच:
संनिधौ लोकपालानां सर्वेषामेव भारत ||
४० ख
वैशम्पाय़न उवाच:
तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वय़म्भुवः |
४१ क
वैशम्पाय़न उवाच:
पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः ||
४१ ख
वैशम्पाय़न उवाच:
स्रष्टा हि जगतः कस्मान्न सम्वुध्येत भारत |
४२ क
वैशम्पाय़न उवाच:
सुरासुराणां लोकानामशेषेण मनोगतम् ||
४२ ख
वैशम्पाय़न उवाच:
तमुवाच महाराज भूमिं भूमिपतिर्विभुः |
४३ क
वैशम्पाय़न उवाच:
प्रभवः सर्वभूतानामीशः शम्भुः प्रजापतिः ||
४३ ख
वैशम्पाय़न उवाच:
यदर्थमसि सम्प्राप्ता मत्सकाशं वसुन्धरे |
४४ क
वैशम्पाय़न उवाच:
तदर्थं संनिय़ोक्ष्यामि सर्वानेव दिवौकसः ||
४४ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा स महीं देवो व्रह्मा राजन्विसृज्य च |
४५ क
वैशम्पाय़न उवाच:
आदिदेश तदा सर्वान्विवुधान्भूतकृत्स्वय़म् ||
४५ ख
वैशम्पाय़न उवाच:
अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् |
४६ क
वैशम्पाय़न उवाच:
अस्यामेव प्रसूय़ध्वं विरोधाय़ेति चाव्रवीत् ||
४६ ख
वैशम्पाय़न उवाच:
तथैव च समानीय़ गन्धर्वाप्सरसां गणान् |
४७ क
वैशम्पाय़न उवाच:
उवाच भगवान्सर्वानिदं वचनमुत्तमम् |
४७ ख
वैशम्पाय़न उवाच:
स्वैरंशैः सम्प्रसूय़ध्वं यथेष्टं मानुषेष्विति ||
४७ ग
वैशम्पाय़न उवाच:
अथ शक्रादय़ः सर्वे श्रुत्वा सुरगुरोर्वचः |
४८ क