भीष्म उवाच:
एतत्ते राजधर्माणां नवनीतं युधिष्ठिर |
१ क
भीष्म उवाच:
वृहस्पतिर्हि भगवान्नान्यं धर्मं प्रशंसति ||
१ ख
भीष्म उवाच:
विशालाक्षश्च भगवान्काव्यश्चैव महातपाः |
२ क
भीष्म उवाच:
सहस्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः ||
२ ख
भीष्म उवाच:
भरद्वाजश्च भगवांस्तथा गौरशिरा मुनिः |
३ क
भीष्म उवाच:
राजशास्त्रप्रणेतारो व्रह्मण्या व्रह्मवादिनः ||
३ ख
भीष्म उवाच:
रक्षामेव प्रशंसन्ति धर्मं धर्मभृतां वर |
४ क
भीष्म उवाच:
राज्ञां राजीवताम्राक्ष साधनं चात्र वै शृणु ||
४ ख
भीष्म उवाच:
चारश्च प्रणिधिश्चैव काले दानममत्सरः |
५ क
भीष्म उवाच:
युक्त्यादानं न चादानमय़ोगेन युधिष्ठिर ||
५ ख
भीष्म उवाच:
सतां सङ्ग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम् |
६ क
भीष्म उवाच:
अनार्जवैरार्जवैश्च शत्रुपक्षस्य भेदनम् ||
६ ख
भीष्म उवाच:
साधूनामपरित्यागः कुलीनानां च धारणम् |
७ क
भीष्म उवाच:
निचय़श्च निचेय़ानां सेवा वुद्धिमतामपि ||
७ ख
भीष्म उवाच:
वलानां हर्षणं नित्यं प्रजानामन्ववेक्षणम् |
८ क
भीष्म उवाच:
कार्येष्वखेदः कोशस्य तथैव च विवर्धनम् ||
८ ख
भीष्म उवाच:
पुरगुप्तिरविश्वासः पौरसङ्घातभेदनम् |
९ क
भीष्म उवाच:
केतनानां च जीर्णानामवेक्षा चैव सीदताम् ||
९ ख
भीष्म उवाच:
द्विविधस्य च दण्डस्य प्रय़ोगः कालचोदितः |
१० क
भीष्म उवाच:
अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम् ||
१० ख
भीष्म उवाच:
उपजापश्च भृत्यानामात्मनः परदर्शनात् |
११ क
भीष्म उवाच:
अविश्वासः स्वय़ं चैव परस्याश्वासनं तथा ||
११ ख
भीष्म उवाच:
नीतिधर्मानुसरणं नित्यमुत्थानमेव च |
१२ क
भीष्म उवाच:
रिपूणामनवज्ञानं नित्यं चानार्यवर्जनम् ||
१२ ख
भीष्म उवाच:
उत्थानं हि नरेन्द्राणां वृहस्पतिरभाषत |
१३ क
भीष्म उवाच:
राजधर्मस्य यन्मूलं श्लोकांश्चात्र निवोध मे ||
१३ ख
भीष्म उवाच:
उत्थानेनामृतं लव्धमुत्थानेनासुरा हताः |
१४ क
भीष्म उवाच:
उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च ||
१४ ख
भीष्म उवाच:
उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति |
१५ क
भीष्म उवाच:
उत्थानधीरं वाग्धीरा रमय़न्त उपासते ||
१५ ख
भीष्म उवाच:
उत्थानहीनो राजा हि वुद्धिमानपि नित्यशः |
१६ क
भीष्म उवाच:
धर्षणीय़ो रिपूणां स्याद्भुजङ्ग इव निर्विषः ||
१६ ख
भीष्म उवाच:
न च शत्रुरवज्ञेय़ो दुर्वलोऽपि वलीय़सा |
१७ क
भीष्म उवाच:
अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च ||
१७ ख
भीष्म उवाच:
एकाश्वेनापि सम्भूतः शत्रुर्दुर्गसमाश्रितः |
१८ क
भीष्म उवाच:
तं तं तापय़ते देशमपि राज्ञः समृद्धिनः ||
१८ ख
भीष्म उवाच:
राज्ञो रहस्यं यद्वाक्यं जय़ार्थं लोकसङ्ग्रहः |
१९ क
भीष्म उवाच:
हृदि यच्चास्य जिह्मं स्यात्कारणार्थं च यद्भवेत् ||
१९ ख
भीष्म उवाच:
यच्चास्य कार्यं वृजिनमार्जवेनैव धार्यते |
२० क
भीष्म उवाच:
दम्भनार्थाय़ लोकस्य धर्मिष्ठामाचरेत्क्रिय़ाम् ||
२० ख
भीष्म उवाच:
राज्यं हि सुमहत्तन्त्रं दुर्धार्यमकृतात्मभिः |
२१ क
भीष्म उवाच:
न शक्यं मृदुना वोढुमाघातस्थानमुत्तमम् ||
२१ ख
भीष्म उवाच:
राज्यं सर्वामिषं नित्यमार्जवेनेह धार्यते |
२२ क
भीष्म उवाच:
तस्मान्मिश्रेण सततं वर्तितव्यं युधिष्ठिर ||
२२ ख
भीष्म उवाच:
यद्यप्यस्य विपत्तिः स्याद्रक्षमाणस्य वै प्रजाः |
२३ क
भीष्म उवाच:
सोऽप्यस्य विपुलो धर्म एवंवृत्ता हि भूमिपाः ||
२३ ख
भीष्म उवाच:
एष ते राजधर्माणां लेशः समनुवर्णितः |
२४ क
भीष्म उवाच:
भूय़स्ते यत्र सन्देहस्तद्व्रूहि वदतां वर ||
२४ ख
वैशम्पाय़न उवाच:
ततो व्यासश्च भगवान्देवस्थानोऽश्मना सह |
२५ क
वैशम्पाय़न उवाच:
वासुदेवः कृपश्चैव सात्यकिः सञ्जय़स्तथा ||
२५ ख
वैशम्पाय़न उवाच:
साधु साध्विति संहृष्टाः पुष्यमाणैरिवाननैः |
२६ क
वैशम्पाय़न उवाच:
अस्तुवंस्ते नरव्याघ्रं भीष्मं धर्मभृतां वरम् ||
२६ ख
वैशम्पाय़न उवाच:
ततो दीनमना भीष्ममुवाच कुरुसत्तमः |
२७ क
वैशम्पाय़न उवाच:
नेत्राभ्यामश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन् ||
२७ ख
वैशम्पाय़न उवाच:
श्व इदानीं स्वसन्देहं प्रक्ष्यामि त्वं पितामह |
२८ क
वैशम्पाय़न उवाच:
उपैति सविताप्यस्तं रसमापीय़ पार्थिवम् ||
२८ ख
वैशम्पाय़न उवाच:
ततो द्विजातीनभिवाद्य केशवः; कृपश्च ते चैव युधिष्ठिरादय़ः |
२९ क
वैशम्पाय़न उवाच:
प्रदक्षिणीकृत्य महानदीसुतं; ततो रथानारुरुहुर्मुदा युताः ||
२९ ख
वैशम्पाय़न उवाच:
दृषद्वतीं चाप्यवगाह्य सुव्रताः; कृतोदकार्याः कृतजप्यमङ्गलाः |
३० क
वैशम्पाय़न उवाच:
उपास्य सन्ध्यां विधिवत्परन्तपा; स्ततः पुरं ते विविशुर्गजाह्वय़म् ||
३० ख