शकुनिरु उवाच:
वहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर |
१ क
शकुनिरु उवाच:
आचक्ष्व वित्तं कौन्तेय़ यदि तेऽस्त्यपराजितम् ||
१ ख
युधिष्ठिर उवाच:
मम वित्तमसङ्ख्येय़ं यदहं वेद सौवल |
२ क
युधिष्ठिर उवाच:
अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि ||
२ ख
युधिष्ठिर उवाच:
अय़ुतं प्रय़ुतं चैव खर्वं पद्मं तथार्वुदम् |
३ क
युधिष्ठिर उवाच:
शङ्खं चैव निखर्वं च समुद्रं चात्र पण्यताम् |
३ ख
युधिष्ठिर उवाच:
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वय़ा ||
३ ग
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
४ क
वैशम्पाय़न उवाच:
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||
४ ख
युधिष्ठिर उवाच:
गवाश्वं वहुधेनूकमसङ्ख्येय़मजाविकम् |
५ क
युधिष्ठिर उवाच:
यत्किञ्चिदनुवर्णानां प्राक्सिन्धोरपि सौवल |
५ ख
युधिष्ठिर उवाच:
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वय़ा ||
५ ग
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
६ क
वैशम्पाय़न उवाच:
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||
६ ख
युधिष्ठिर उवाच:
पुरं जनपदो भूमिरव्राह्मणधनैः सह |
७ क
युधिष्ठिर उवाच:
अव्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम |
७ ख
युधिष्ठिर उवाच:
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वय़ा ||
७ ग
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
८ क
वैशम्पाय़न उवाच:
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||
८ ख
युधिष्ठिर उवाच:
राजपुत्रा इमे राजञ्शोभन्ते येन भूषिताः |
९ क
युधिष्ठिर उवाच:
कुण्डलानि च निष्काश्च सर्वं चाङ्गविभूषणम् |
९ ख
युधिष्ठिर उवाच:
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वय़ा ||
९ ग
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
१० क
वैशम्पाय़न उवाच:
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||
१० ख
युधिष्ठिर उवाच:
श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः |
११ क
युधिष्ठिर उवाच:
नकुलो ग्लह एको मे यच्चैतत्स्वगतं धनम् ||
११ ख
शकुनिरु उवाच:
प्रिय़स्ते नकुलो राजन्राजपुत्रो युधिष्ठिर |
१२ क
शकुनिरु उवाच:
अस्माकं धनतां प्राप्तो भूय़स्त्वं केन दीव्यसि ||
१२ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा तु शकुनिस्तानक्षान्प्रत्यपद्यत |
१३ क
वैशम्पाय़न उवाच:
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||
१३ ख
युधिष्ठिर उवाच:
अय़ं धर्मान्सहदेवोऽनुशास्ति; लोके ह्यस्मिन्पण्डिताख्यां गतश्च |
१४ क
युधिष्ठिर उवाच:
अनर्हता राजपुत्रेण तेन; त्वय़ा दीव्याम्यप्रिय़वत्प्रिय़ेण ||
१४ ख
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
१५ क
वैशम्पाय़न उवाच:
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||
१५ ख
शकुनिरु उवाच:
माद्रीपुत्रौ प्रिय़ौ राजंस्तवेमौ विजितौ मय़ा |
१६ क
शकुनिरु उवाच:
गरीय़ांसौ तु ते मन्ये भीमसेनधनञ्जय़ौ ||
१६ ख
युधिष्ठिर उवाच:
अधर्मं चरसे नूनं यो नावेक्षसि वै नय़म् |
१७ क
युधिष्ठिर उवाच:
यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि ||
१७ ख
शकुनिरु उवाच:
गर्ते मत्तः प्रपतति प्रमत्तः स्थाणुमृच्छति |
१८ क
शकुनिरु उवाच:
ज्येष्ठो राजन्वरिष्ठोऽसि नमस्ते भरतर्षभ ||
१८ ख
शकुनिरु उवाच:
स्वप्ने न तानि पश्यन्ति जाग्रतो वा युधिष्ठिर |
१९ क
शकुनिरु उवाच:
कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव ||
१९ ख
युधिष्ठिर उवाच:
यो नः सङ्ख्ये नौरिव पारनेता; जेता रिपूणां राजपुत्रस्तरस्वी |
२० क
युधिष्ठिर उवाच:
अनर्हता लोकवीरेण तेन; दीव्याम्यहं शकुने फल्गुनेन ||
२० ख
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
२१ क
वैशम्पाय़न उवाच:
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||
२१ ख
शकुनिरु उवाच:
अय़ं मय़ा पाण्डवानां धनुर्धरः; पराजितः पाण्डवः सव्यसाची |
२२ क
शकुनिरु उवाच:
भीमेन राजन्दय़ितेन दीव्य; यत्कैतव्यं पाण्डव तेऽवशिष्टम् ||
२२ ख
युधिष्ठिर उवाच:
यो नो नेता यो युधां नः प्रणेता; यथा वज्री दानवशत्रुरेकः |
२३ क
युधिष्ठिर उवाच:
तिर्यक्प्रेक्षी संहतभ्रूर्महात्मा; सिंहस्कन्धो यश्च सदात्यमर्षी ||
२३ ख
युधिष्ठिर उवाच:
वलेन तुल्यो यस्य पुमान्न विद्यते; गदाभृतामग्र्य इहारिमर्दनः |
२४ क
युधिष्ठिर उवाच:
अनर्हता राजपुत्रेण तेन; दीव्याम्यहं भीमसेनेन राजन् ||
२४ ख
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
२५ क
वैशम्पाय़न उवाच:
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||
२५ ख
शकुनिरु उवाच:
वहु वित्तं पराजैषीर्भ्रातॄंश्च सहय़द्विपान् |
२६ क
शकुनिरु उवाच:
आचक्ष्व वित्तं कौन्तेय़ यदि तेऽस्त्यपराजितम् ||
२६ ख
युधिष्ठिर उवाच:
अहं विशिष्टः सर्वेषां भ्रातॄणां दय़ितस्तथा |
२७ क
युधिष्ठिर उवाच:
कुर्यामस्ते जिताः कर्म स्वय़मात्मन्युपप्लवे ||
२७ ख
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |
२८ क
वैशम्पाय़न उवाच:
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||
२८ ख
शकुनिरु उवाच:
एतत्पापिष्ठमकरोर्यदात्मानं पराजितः |
२९ क
शकुनिरु उवाच:
शिष्टे सति धने राजन्पाप आत्मपराजय़ः ||
२९ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा मताक्षस्तान्ग्लहे सर्वानवस्थितान् |
३० क
वैशम्पाय़न उवाच:
पराजय़ल्लोकवीरानाक्षेपेण पृथक्पृथक् ||
३० ख
शकुनिरु उवाच:
अस्ति वै ते प्रिय़ा देवी ग्लह एकोऽपराजितः |
३१ क
शकुनिरु उवाच:
पणस्व कृष्णां पाञ्चालीं तय़ात्मानं पुनर्जय़ ||
३१ ख
युधिष्ठिर उवाच:
नैव ह्रस्वा न महती नातिकृष्णा न रोहिणी |
३२ क
युधिष्ठिर उवाच:
सरागरक्तनेत्रा च तय़ा दीव्याम्यहं त्वय़ा ||
३२ ख
युधिष्ठिर उवाच:
शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धय़ा |
३३ क
युधिष्ठिर उवाच:
शारदोत्पलसेविन्या रूपेण श्रीसमानय़ा ||
३३ ख
युधिष्ठिर उवाच:
तथैव स्यादानृशंस्यात्तथा स्याद्रूपसम्पदा |
३४ क
युधिष्ठिर उवाच:
तथा स्याच्छीलसम्पत्त्या यामिच्छेत्पुरुषः स्त्रिय़म् ||
३४ ख
युधिष्ठिर उवाच:
चरमं संविशति या प्रथमं प्रतिवुध्यते |
३५ क
युधिष्ठिर उवाच:
आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ||
३५ ख
युधिष्ठिर उवाच:
आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च |
३६ क
युधिष्ठिर उवाच:
वेदीमध्या दीर्घकेशी ताम्राक्षी नातिरोमशा ||
३६ ख
युधिष्ठिर उवाच:
तय़ैवंविधय़ा राजन्पाञ्चाल्याहं सुमध्यया |
३७ क
युधिष्ठिर उवाच:
ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौवल ||
३७ ख
वैशम्पाय़न उवाच:
एवमुक्ते तु वचने धर्मराजेन भारत |
३८ क
वैशम्पाय़न उवाच:
धिग्धिगित्येव वृद्धानां सभ्यानां निःसृता गिरः ||
३८ ख
वैशम्पाय़न उवाच:
चुक्षुभे सा सभा राजन्राज्ञां सञ्जज्ञिरे कथाः |
३९ क
वैशम्पाय़न उवाच:
भीष्मद्रोणकृपादीनां स्वेदश्च समजाय़त ||
३९ ख
वैशम्पाय़न उवाच:
शिरो गृहीत्वा विदुरो गतसत्त्व इवाभवत् |
४० क
वैशम्पाय़न उवाच:
आस्ते ध्याय़न्नधोवक्त्रो निःश्वसन्पन्नगो यथा ||
४० ख
वैशम्पाय़न उवाच:
धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनः |
४१ क
वैशम्पाय़न उवाच:
किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत ||
४१ ख
वैशम्पाय़न उवाच:
जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः |
४२ क
वैशम्पाय़न उवाच:
इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतज्जलम् ||
४२ ख
वैशम्पाय़न उवाच:
सौवलस्त्वविचार्यैव जितकाशी मदोत्कटः |
४३ क
वैशम्पाय़न उवाच:
जितमित्येव तानक्षान्पुनरेवान्वपद्यत ||
४३ ख