वैशम्पाय़न उवाच:
धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः |
१ क
वैशम्पाय़न उवाच:
अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रय़ोदशम् |
१ ख
वैशम्पाय़न उवाच:
उपोपविश्य विद्वांसः सहिताः संशितव्रताः ||
१ ग
वैशम्पाय़न उवाच:
ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः |
२ क
वैशम्पाय़न उवाच:
तानव्रुवन्महात्मानः शिष्टाः प्राञ्जलय़स्तदा |
२ ख
वैशम्पाय़न उवाच:
अभ्यनुज्ञापय़िष्यन्तस्तं निवासं धृतव्रताः ||
२ ग
वैशम्पाय़न उवाच:
विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वय़म् |
३ क
वैशम्पाय़न उवाच:
छद्मना हृतराज्याश्च निःस्वाश्च वहुशः कृताः ||
३ ख
वैशम्पाय़न उवाच:
उषिताश्च वने कृच्छ्रं यत्र द्वादश वत्सरान् |
४ क
वैशम्पाय़न उवाच:
अज्ञातवाससमय़ं शेषं वर्षं त्रय़ोदशम् |
४ ख
वैशम्पाय़न उवाच:
तद्वत्स्यामो वय़ं छन्नास्तदनुज्ञातुमर्हथ ||
४ ग
वैशम्पाय़न उवाच:
सुय़ोधनश्च दुष्टात्मा कर्णश्च सहसौवलः |
५ क
वैशम्पाय़न उवाच:
जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः |
५ ख
वैशम्पाय़न उवाच:
युक्ताचाराश्च युक्ताश्च पौरस्य स्वजनस्य च ||
५ ग
वैशम्पाय़न उवाच:
अपि नस्तद्भवेद्भूय़ो यद्वय़ं व्राह्मणैः सह |
६ क
वैशम्पाय़न उवाच:
समस्ताः स्वेषु राष्ट्रेषु स्वराज्यस्था भवेमहि ||
६ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा |
७ क
वैशम्पाय़न उवाच:
संमूर्छितोऽभवद्राजा साश्रुकण्ठो युधिष्ठिरः ||
७ ख
वैशम्पाय़न उवाच:
तमथाश्वासय़न्सर्वे व्राह्मणा भ्रातृभिः सह |
८ क
वैशम्पाय़न उवाच:
अथ धौम्योऽव्रवीद्वाक्यं महार्थं नृपतिं तदा ||
८ ख
वैशम्पाय़न उवाच:
राजन्विद्वान्भवान्दान्तः सत्यसन्धो जितेन्द्रिय़ः |
९ क
वैशम्पाय़न उवाच:
नैवंविधाः प्रमुह्यन्ति नराः कस्याञ्चिदापदि ||
९ ख
वैशम्पाय़न उवाच:
देवैरप्यापदः प्राप्ताश्छन्नैश्च वहुशस्तथा |
१० क
वैशम्पाय़न उवाच:
तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः ||
१० ख
वैशम्पाय़न उवाच:
इन्द्रेण निषधान्प्राप्य गिरिप्रस्थाश्रमे तदा |
११ क
वैशम्पाय़न उवाच:
छन्नेनोष्य कृतं कर्म द्विषतां वलनिग्रहे ||
११ ख
वैशम्पाय़न उवाच:
विष्णुनाश्वशिरः प्राप्य तथादित्यां निवत्स्यता |
१२ क
वैशम्पाय़न उवाच:
गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम् ||
१२ ख
वैशम्पाय़न उवाच:
प्राप्य वामनरूपेण प्रच्छन्नं व्रह्मरूपिणा |
१३ क
वैशम्पाय़न उवाच:
वलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् ||
१३ ख
वैशम्पाय़न उवाच:
और्वेण वसता छन्नमूरौ व्रह्मर्षिणा तदा |
१४ क
वैशम्पाय़न उवाच:
यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वय़ा ||
१४ ख
वैशम्पाय़न उवाच:
प्रच्छन्नं चापि धर्मज्ञ हरिणा वृत्रनिग्रहे |
१५ क
वैशम्पाय़न उवाच:
वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम् ||
१५ ख
वैशम्पाय़न उवाच:
हुताशनेन यच्चापः प्रविश्य छन्नमासता |
१६ क
वैशम्पाय़न उवाच:
विवुधानां कृतं कर्म तच्च सर्वं श्रुतं त्वय़ा ||
१६ ख
वैशम्पाय़न उवाच:
एवं विवस्वता तात छन्नेनोत्तमतेजसा |
१७ क
वैशम्पाय़न उवाच:
निर्दग्धाः शत्रवः सर्वे वसता भुवि सर्वशः ||
१७ ख
वैशम्पाय़न उवाच:
विष्णुना वसता चापि गृहे दशरथस्य वै |
१८ क
वैशम्पाय़न उवाच:
दशग्रीवो हतश्छन्नं संय़ुगे भीमकर्मणा ||
१८ ख
वैशम्पाय़न उवाच:
एवमेते महात्मानः प्रच्छन्नास्तत्र तत्र ह |
१९ क
वैशम्पाय़न उवाच:
अजय़ञ्शात्रवान्युद्धे तथा त्वमपि जेष्यसि ||
१९ ख
वैशम्पाय़न उवाच:
तथा धौम्येन धर्मज्ञो वाक्यैः सम्परितोषितः |
२० क
वैशम्पाय़न उवाच:
शास्त्रवुद्ध्या स्ववुद्ध्या च न चचाल युधिष्ठिरः ||
२० ख
वैशम्पाय़न उवाच:
अथाव्रवीन्महावाहुर्भीमसेनो महावलः |
२१ क
वैशम्पाय़न उवाच:
राजानं वलिनां श्रेष्ठो गिरा सम्परिहर्षय़न् ||
२१ ख
वैशम्पाय़न उवाच:
अवेक्षय़ा महाराज तव गाण्डीवधन्वना |
२२ क
वैशम्पाय़न उवाच:
धर्मानुगतय़ा वुद्ध्या न किञ्चित्साहसं कृतम् ||
२२ ख
वैशम्पाय़न उवाच:
सहदेवो मय़ा नित्यं नकुलश्च निवारितौ |
२३ क
वैशम्पाय़न उवाच:
शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ ||
२३ ख
वैशम्पाय़न उवाच:
न वय़ं तत्प्रहास्यामो यस्मिन्योक्ष्यति नो भवान् |
२४ क
वैशम्पाय़न उवाच:
भवान्विधत्तां तत्सर्वं क्षिप्रं जेष्यामहे परान् ||
२४ ख
वैशम्पाय़न उवाच:
इत्युक्ते भीमसेनेन व्राह्मणाः परमाशिषः |
२५ क
वैशम्पाय़न उवाच:
प्रय़ुज्यापृच्छ्य भरतान्यथास्वान्स्वान्ययुर्गृहान् ||
२५ ख
वैशम्पाय़न उवाच:
सर्वे वेदविदो मुख्या यतय़ो मुनय़स्तथा |
२६ क
वैशम्पाय़न उवाच:
आशीरुक्त्वा यथान्याय़ं पुनर्दर्शनकाङ्क्षिणः ||
२६ ख
वैशम्पाय़न उवाच:
सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः |
२७ क
वैशम्पाय़न उवाच:
उत्थाय़ प्रय़युर्वीराः कृष्णामादाय़ भारत ||
२७ ख
वैशम्पाय़न उवाच:
क्रोशमात्रमतिक्रम्य तस्माद्देशान्निमित्ततः |
२८ क
वैशम्पाय़न उवाच:
श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः ||
२८ ख
वैशम्पाय़न उवाच:
पृथक्षास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः |
२९ क
वैशम्पाय़न उवाच:
सन्धिविग्रहकालज्ञा मन्त्राय़ समुपाविशन् ||
२९ ख