chevron_left वन पर्व अध्याय १६१
वैशम्पाय़न उवाच:
तस्मिन्नगेन्द्रे वसतां तु तेषां; महात्मनां सद्व्रतमास्थितानाम् |
१ क
वैशम्पाय़न उवाच:
रतिः प्रमोदश्च वभूव तेषा; माकाङ्क्षतां दर्शनमर्जुनस्य ||
१ ख
वैशम्पाय़न उवाच:
तान्वीर्ययुक्तान्सुविशुद्धसत्त्वां; स्तेजस्विनः सत्यधृतिप्रधानान् |
२ क
वैशम्पाय़न उवाच:
सम्प्रीय़माणा वहवोऽभिजग्मु; र्गन्धर्वसङ्घाश्च महर्षय़श्च ||
२ ख
वैशम्पाय़न उवाच:
तं पादपैः पुष्पधरैरुपेतं; नगोत्तमं प्राप्य महारथानाम् |
३ क
वैशम्पाय़न उवाच:
मनःप्रसादः परमो वभूव; यथा दिवं प्राप्य मरुद्गणानाम् ||
३ ख
वैशम्पाय़न उवाच:
मय़ूरहंसस्वननादितानि; पुष्पोपकीर्णानि महाचलस्य |
४ क
वैशम्पाय़न उवाच:
शृङ्गाणि सानूनि च पश्यमाना; गिरेः परं हर्षमवाप्य तस्थुः ||
४ ख
वैशम्पाय़न उवाच:
साक्षात्कुवेरेण कृताश्च तस्मि; न्नगोत्तमे संवृतकूलरोधसः |
५ क
वैशम्पाय़न उवाच:
कादम्वकारण्डवहंसजुष्टाः; पद्माकुलाः पुष्करिणीरपश्यन् ||
५ ख
वैशम्पाय़न उवाच:
क्रीडाप्रदेशांश्च समृद्धरूपा; न्सुचित्रमाल्यावृतजातशोभान् |
६ क
वैशम्पाय़न उवाच:
मणिप्रवेकान्सुमनोहरांश्च; यथा भवेय़ुर्धनदस्य राज्ञः ||
६ ख
वैशम्पाय़न उवाच:
अनेकवर्णैश्च सुगन्धिभिश्च; महाद्रुमैः सन्ततमभ्रमालिभिः |
७ क
वैशम्पाय़न उवाच:
तपःप्रधानाः सततं चरन्तः; शृङ्गं गिरेश्चिन्तय़ितुं न शेकुः ||
७ ख
वैशम्पाय़न उवाच:
स्वतेजसा तस्य नगोत्तमस्य; महौषधीनां च तथा प्रभावात् |
८ क
वैशम्पाय़न उवाच:
विभक्तभावो न वभूव कश्चि; दहर्निशानां पुरुषप्रवीर ||
८ ख
वैशम्पाय़न उवाच:
यमास्थितः स्थावरजङ्गमानि; विभावसुर्भावय़तेऽमितौजाः |
९ क
वैशम्पाय़न उवाच:
तस्योदय़ं चास्तमय़ं च वीरा; स्तत्र स्थितास्ते ददृशुर्नृसिंहाः ||
९ ख
वैशम्पाय़न उवाच:
रवेस्तमिस्रागमनिर्गमांस्ते; तथोदय़ं चास्तमय़ं च वीराः |
१० क
वैशम्पाय़न उवाच:
समावृताः प्रेक्ष्य तमोनुदस्य; गभस्तिजालैः प्रदिशो दिशश्च ||
१० ख
वैशम्पाय़न उवाच:
स्वाध्याय़वन्तः सततक्रिय़ाश्च; धर्मप्रधानाश्च शुचिव्रताश्च |
११ क
वैशम्पाय़न उवाच:
सत्ये स्थितास्तस्य महारथस्य; सत्यव्रतस्यागमनप्रतीक्षाः ||
११ ख
वैशम्पाय़न उवाच:
इहैव हर्षोऽस्तु समागतानां; क्षिप्रं कृतास्त्रेण धनञ्जय़ेन |
१२ क
वैशम्पाय़न उवाच:
इति व्रुवन्तः परमाशिषस्ते; पार्थास्तपोय़ोगपरा वभूवुः ||
१२ ख
वैशम्पाय़न उवाच:
दृष्ट्वा विचित्राणि गिरौ वनानि; किरीटिनं चिन्तय़तामभीक्ष्णम् |
१३ क
वैशम्पाय़न उवाच:
वभूव रात्रिर्दिवसश्च तेषां; संवत्सरेणैव समानरूपः ||
१३ ख
वैशम्पाय़न उवाच:
यदैव धौम्यानुमते महात्मा; कृत्वा जटाः प्रव्रजितः स जिष्णुः |
१४ क
वैशम्पाय़न उवाच:
तदैव तेषां न वभूव हर्षः; कुतो रतिस्तद्गतमानसानाम् ||
१४ ख
वैशम्पाय़न उवाच:
भ्रातुर्निय़ोगात्तु युधिष्ठिरस्य; वनादसौ वारणमत्तगामी |
१५ क
वैशम्पाय़न उवाच:
यत्काम्यकात्प्रव्रजितः स जिष्णु; स्तदैव ते शोकहता वभूवुः ||
१५ ख
वैशम्पाय़न उवाच:
तथा तु तं चिन्तय़तां सिताश्व; मस्त्रार्थिनं वासवमभ्युपेतम् |
१६ क
वैशम्पाय़न उवाच:
मासोऽथ कृच्छ्रेण तदा व्यतीत; स्तस्मिन्नगे भारत भारतानाम् ||
१६ ख
वैशम्पाय़न उवाच:
ततः कदाचिद्धरिसम्प्रय़ुक्तं; महेन्द्रवाहं सहसोपय़ातम् |
१७ क
वैशम्पाय़न उवाच:
विद्युत्प्रभं प्रेक्ष्य महारथानां; हर्षोऽर्जुनं चिन्तय़तां वभूव ||
१७ ख
वैशम्पाय़न उवाच:
स दीप्यमानः सहसान्तरिक्षं; प्रकाशय़न्मातलिसङ्गृहीतः |
१८ क
वैशम्पाय़न उवाच:
वभौ महोल्केव घनान्तरस्था; शिखेव चाग्नेर्ज्वलिता विधूमा ||
१८ ख
वैशम्पाय़न उवाच:
तमास्थितः सन्ददृशे किरीटी; स्रग्वी वराण्याभरणानि विभ्रत् |
१९ क
वैशम्पाय़न उवाच:
धनञ्जय़ो वज्रधरप्रभावः; श्रिय़ा ज्वलन्पर्वतमाजगाम ||
१९ ख
वैशम्पाय़न उवाच:
स शैलमासाद्य किरीटमाली; महेन्द्रवाहादवरुह्य तस्मात् |
२० क
वैशम्पाय़न उवाच:
धौम्यस्य पादावभिवाद्य पूर्व; मजातशत्रोस्तदनन्तरं च ||
२० ख
वैशम्पाय़न उवाच:
वृकोदरस्यापि ववन्द पादौ; माद्रीसुताभ्यामभिवादितश्च |
२१ क
वैशम्पाय़न उवाच:
समेत्य कृष्णां परिसान्त्व्य चैनां; प्रह्वोऽभवद्भ्रातुरुपह्वरे सः ||
२१ ख
वैशम्पाय़न उवाच:
वभूव तेषां परमः प्रहर्ष; स्तेनाप्रमेय़ेण समागतानाम् |
२२ क
वैशम्पाय़न उवाच:
स चापि तान्प्रेक्ष्य किरीटमाली; ननन्द राजानमभिप्रशंसन् ||
२२ ख
वैशम्पाय़न उवाच:
यमास्थितः सप्त जघान पूगा; न्दितेः सुतानां नमुचेर्निहन्ता |
२३ क
वैशम्पाय़न उवाच:
तमिन्द्रवाहं समुपेत्य पार्थाः; प्रदक्षिणं चक्रुरदीनसत्त्वाः ||
२३ ख
वैशम्पाय़न उवाच:
ते मातलेश्चक्रुरतीव हृष्टाः; सत्कारमग्र्यं सुरराजतुल्यम् |
२४ क
वैशम्पाय़न उवाच:
सर्वं यथावच्च दिवौकसस्ता; न्पप्रच्छुरेनं कुरुराजपुत्राः ||
२४ ख
वैशम्पाय़न उवाच:
तानप्यसौ मातलिरभ्यनन्द; त्पितेव पुत्राननुशिष्य चैनान् |
२५ क
वैशम्पाय़न उवाच:
यय़ौ रथेनाप्रतिमप्रभेण; पुनः सकाशं त्रिदिवेश्वरस्य ||
२५ ख
वैशम्पाय़न उवाच:
गते तु तस्मिन्वरदेववाहे; शक्रात्मजः सर्वरिपुप्रमाथी |
२६ क
वैशम्पाय़न उवाच:
शक्रेण दत्तानि ददौ महात्मा; महाधनान्युत्तमरूपवन्ति |
२६ ख
वैशम्पाय़न उवाच:
दिवाकराभाणि विभूषणानि; प्रीतः प्रिय़ाय़ै सुतसोममात्रे ||
२६ ग
वैशम्पाय़न उवाच:
ततः स तेषां कुरुपुङ्गवानां; तेषां च सूर्याग्निसमप्रभाणाम् |
२७ क
वैशम्पाय़न उवाच:
विप्रर्षभाणामुपविश्य मध्ये; सर्वं यथावत्कथय़ां वभूव ||
२७ ख
वैशम्पाय़न उवाच:
एवं मय़ास्त्राण्युपशिक्षितानि; शक्राच्च वाताच्च शिवाच्च साक्षात् |
२८ क
वैशम्पाय़न उवाच:
तथैव शीलेन समाधिना च; प्रीताः सुरा मे सहिताः सहेन्द्राः ||
२८ ख
वैशम्पाय़न उवाच:
सङ्क्षेपतो वै स विशुद्धकर्मा; तेभ्यः समाख्याय़ दिवि प्रवेशम् |
२९ क
वैशम्पाय़न उवाच:
माद्रीसुताभ्यां सहितः किरीटी; सुष्वाप तामावसतिं प्रतीतः ||
२९ ख