धृतराष्ट्र उवाच:
यदव्रूतां महात्मानौ वासुदेवधनञ्जय़ौ |
१ क
धृतराष्ट्र उवाच:
तन्मे व्रूहि महाप्राज्ञ शुश्रूषे वचनं तव ||
१ ख
सञ्जय़ उवाच:
शृणु राजन्यथा दृष्टौ मय़ा कृष्णधनञ्जय़ौ |
२ क
सञ्जय़ उवाच:
ऊचतुश्चापि यद्वीरौ तत्ते वक्ष्यामि भारत ||
२ ख
सञ्जय़ उवाच:
पादाङ्गुलीरभिप्रेक्षन्प्रय़तोऽहं कृताञ्जलिः |
३ क
सञ्जय़ उवाच:
शुद्धान्तं प्राविशं राजन्नाख्यातुं नरदेवय़ोः ||
३ ख
सञ्जय़ उवाच:
नैवाभिमन्युर्न यमौ तं देशमभिय़ान्ति वै |
४ क
सञ्जय़ उवाच:
यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी ||
४ ख
सञ्जय़ उवाच:
उभौ मध्वासवक्षीवावुभौ चन्दनरूषितौ |
५ क
सञ्जय़ उवाच:
स्रग्विणौ वरवस्त्रौ तौ दिव्याभरणभूषितौ ||
५ ख
सञ्जय़ उवाच:
नैकरत्नविचित्रं तु काञ्चनं महदासनम् |
६ क
सञ्जय़ उवाच:
विविधास्तरणास्तीर्णं यत्रासातामरिन्दमौ ||
६ ख
सञ्जय़ उवाच:
अर्जुनोत्सङ्गगौ पादौ केशवस्योपलक्षय़े |
७ क
सञ्जय़ उवाच:
अर्जुनस्य च कृष्णाय़ां सत्याय़ां च महात्मनः ||
७ ख
सञ्जय़ उवाच:
काञ्चनं पादपीठं तु पार्थो मे प्रादिशत्तदा |
८ क
सञ्जय़ उवाच:
तदहं पाणिना स्पृष्ट्वा ततो भूमावुपाविशम् ||
८ ख
सञ्जय़ उवाच:
ऊर्ध्वरेखतलौ पादौ पार्थस्य शुभलक्षणौ |
९ क
सञ्जय़ उवाच:
पादपीठादपहृतौ तत्रापश्यमहं शुभौ ||
९ ख
सञ्जय़ उवाच:
श्यामौ वृहन्तौ तरुणौ शालस्कन्धाविवोद्गतौ |
१० क
सञ्जय़ उवाच:
एकासनगतौ दृष्ट्वा भय़ं मां महदाविशत् ||
१० ख
सञ्जय़ उवाच:
इन्द्रविष्णुसमावेतौ मन्दात्मा नाववुध्यते |
११ क
सञ्जय़ उवाच:
संश्रय़ाद्द्रोणभीष्माभ्यां कर्णस्य च विकत्थनात् ||
११ ख
सञ्जय़ उवाच:
निदेशस्थाविमौ यस्य मानसस्तस्य सेत्स्यते |
१२ क
सञ्जय़ उवाच:
सङ्कल्पो धर्मराजस्य निश्चय़ो मे तदाभवत् ||
१२ ख
सञ्जय़ उवाच:
सत्कृतश्चान्नपानाभ्यामाच्छन्नो लव्धसत्क्रिय़ः |
१३ क
सञ्जय़ उवाच:
अञ्जलिं मूर्ध्नि सन्धाय़ तौ सन्देशमचोदय़म् ||
१३ ख
सञ्जय़ उवाच:
धनुर्वाणोचितेनैकपाणिना शुभलक्षणम् |
१४ क
सञ्जय़ उवाच:
पादमानमय़न्पार्थः केशवं समचोदय़त् ||
१४ ख
सञ्जय़ उवाच:
इन्द्रकेतुरिवोत्थाय़ सर्वाभरणभूषितः |
१५ क
सञ्जय़ उवाच:
इन्द्रवीर्योपमः कृष्णः संविष्टो माभ्यभाषत ||
१५ ख
सञ्जय़ उवाच:
वाचं स वदतां श्रेष्ठो ह्लादिनीं वचनक्षमाम् |
१६ क
सञ्जय़ उवाच:
त्रासनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम् ||
१६ ख
सञ्जय़ उवाच:
वाचं तां वचनार्हस्य शिक्षाक्षरसमन्विताम् |
१७ क
सञ्जय़ उवाच:
अश्रौषमहमिष्टार्थां पश्चाद्धृदय़शोषिणीम् ||
१७ ख
वासुदेव उवाच:
सञ्जय़ेदं वचो व्रूय़ा धृतराष्ट्रं मनीषिणम् |
१८ क
वासुदेव उवाच:
शृण्वतः कुरुमुख्यस्य द्रोणस्यापि च शृण्वतः ||
१८ ख
वासुदेव उवाच:
यजध्वं विपुलैर्यज्ञैर्विप्रेभ्यो दत्त दक्षिणाः |
१९ क
वासुदेव उवाच:
पुत्रैर्दारैश्च मोदध्वं महद्वो भय़मागतम् ||
१९ ख
वासुदेव उवाच:
अर्थांस्त्यजत पात्रेभ्यः सुतान्प्राप्नुत कामजान् |
२० क
वासुदेव उवाच:
प्रिय़ं प्रिय़ेभ्यश्चरत राजा हि त्वरते जय़े ||
२० ख
वासुदेव उवाच:
ऋणमेतत्प्रवृद्धं मे हृदय़ान्नापसर्पति |
२१ क
वासुदेव उवाच:
यद्गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम् ||
२१ ख
वासुदेव उवाच:
तेजोमय़ं दुराधर्षं गाण्डीवं यस्य कार्मुकम् |
२२ क
वासुदेव उवाच:
मद्द्वितीय़ेन तेनेह वैरं वः सव्यसाचिना ||
२२ ख
वासुदेव उवाच:
मद्द्वितीय़ं पुनः पार्थं कः प्रार्थय़ितुमिच्छति |
२३ क
वासुदेव उवाच:
यो न कालपरीतो वाप्यपि साक्षात्पुरन्दरः ||
२३ ख
वासुदेव उवाच:
वाहुभ्यामुद्वहेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः |
२४ क
वासुदेव उवाच:
पातय़ेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जय़ेत् ||
२४ ख
वासुदेव उवाच:
देवासुरमनुष्येषु यक्षगन्धर्वभोगिषु |
२५ क
वासुदेव उवाच:
न तं पश्याम्यहं युद्धे पाण्डवं योऽभ्ययाद्रणे ||
२५ ख
वासुदेव उवाच:
यत्तद्विराटनगरे श्रूय़ते महदद्भुतम् |
२६ क
वासुदेव उवाच:
एकस्य च वहूनां च पर्याप्तं तन्निदर्शनम् ||
२६ ख
वासुदेव उवाच:
एकेन पाण्डुपुत्रेण विराटनगरे यदा |
२७ क
वासुदेव उवाच:
भग्नाः पलाय़न्त दिशः पर्याप्तं तन्निदर्शनम् ||
२७ ख
वासुदेव उवाच:
वलं वीर्यं च तेजश्च शीघ्रता लघुहस्तता |
२८ क
वासुदेव उवाच:
अविषादश्च धैर्यं च पार्थान्नान्यत्र विद्यते ||
२८ ख
सञ्जय़ उवाच:
इत्यव्रवीद्धृषीकेशः पार्थमुद्धर्षय़न्गिरा |
२९ क
सञ्जय़ उवाच:
गर्जन्समय़वर्षीव गगने पाकशासनः ||
२९ ख
सञ्जय़ उवाच:
केशवस्य वचः श्रुत्वा किरीटी श्वेतवाहनः |
३० क
सञ्जय़ उवाच:
अर्जुनस्तन्महद्वाक्यमव्रवील्लोमहर्षणम् ||
३० ख