chevron_left भीष्म पर्व अध्याय ५८
धृतराष्ट्र उवाच:
दैवमेव परं मन्ये पौरुषादपि सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
यत्सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते ||
१ ख
धृतराष्ट्र उवाच:
नित्यं हि मामकांस्तात हतानेव हि शंससि |
२ क
धृतराष्ट्र उवाच:
अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंससि पाण्डवान् ||
२ ख
धृतराष्ट्र उवाच:
हीनान्पुरुषकारेण मामकानद्य सञ्जय़ |
३ क
धृतराष्ट्र उवाच:
पतितान्पात्यमानांश्च हतानेव च शंससि ||
३ ख
धृतराष्ट्र उवाच:
युध्यमानान्यथाशक्ति घटमानाञ्जय़ं प्रति |
४ क
धृतराष्ट्र उवाच:
पाण्डवा विजय़न्त्येव जीय़न्ते चैव मामकाः ||
४ ख
धृतराष्ट्र उवाच:
सोऽहं तीव्राणि दुःखानि दुर्योधनकृतानि च |
५ क
धृतराष्ट्र उवाच:
अश्रौषं सततं तात दुःसहानि वहूनि च ||
५ ख
धृतराष्ट्र उवाच:
तमुपाय़ं न पश्यामि जीय़ेरन्येन पाण्डवाः |
६ क
धृतराष्ट्र उवाच:
मामका वा जय़ं युद्धे प्राप्नुय़ुर्येन सञ्जय़ ||
६ ख
सञ्जय़ उवाच:
क्षय़ं मनुष्यदेहानां गजवाजिरथक्षय़म् |
७ क
सञ्जय़ उवाच:
शृणु राजन्स्थिरो भूत्वा तवैवापनय़ो महान् ||
७ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः |
८ क
सञ्जय़ उवाच:
पीडय़ामास सङ्क्रुद्धो मद्राधिपतिमाय़सैः ||
८ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम पार्षतस्य पराक्रमम् |
९ क
सञ्जय़ उवाच:
न्यवारय़त यत्तूर्णं शल्यं समितिशोभनम् ||
९ ख
सञ्जय़ उवाच:
नान्तरं ददृशे कश्चित्तय़ोः संरव्धय़ो रणे |
१० क
सञ्जय़ उवाच:
मुहूर्तमिव तद्युद्धं तय़ोः सममिवाभवत् ||
१० ख
सञ्जय़ उवाच:
ततः शल्यो महाराज धृष्टद्युम्नस्य संय़ुगे |
११ क
सञ्जय़ उवाच:
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ||
११ ख
सञ्जय़ उवाच:
अथैनं शरवर्षेण छादय़ामास भारत |
१२ क
सञ्जय़ उवाच:
गिरिं जलागमे यद्वज्जलदा जलधारिणः ||
१२ ख
सञ्जय़ उवाच:
अभिमन्युस्तु सङ्क्रुद्धो धृष्टद्युम्ने निपीडिते |
१३ क
सञ्जय़ उवाच:
अभिदुद्राव वेगेन मद्रराजरथं प्रति ||
१३ ख
सञ्जय़ उवाच:
ततो मद्राधिपरथं कार्ष्णिः प्राप्यातिकोपनः |
१४ क
सञ्जय़ उवाच:
आर्ताय़निममेय़ात्मा विव्याध विशिखैस्त्रिभिः ||
१४ ख
सञ्जय़ उवाच:
ततस्तु तावका राजन्परीप्सन्तोऽऽर्जुनिं रणे |
१५ क
सञ्जय़ उवाच:
मद्रराजरथं तूर्णं परिवार्यावतस्थिरे ||
१५ ख
सञ्जय़ उवाच:
दुर्योधनो विकर्णश्च दुःशासनविविंशती |
१६ क
सञ्जय़ उवाच:
दुर्मर्षणो दुःसहश्च चित्रसेनश्च दुर्मुखः ||
१६ ख
सञ्जय़ उवाच:
सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत |
१७ क
सञ्जय़ उवाच:
एते मद्राधिपरथं पालय़न्तः स्थिता रणे ||
१७ ख
सञ्जय़ उवाच:
तान्भीमसेनः सङ्क्रुद्धो धृष्टद्युम्नश्च पार्षतः |
१८ क
सञ्जय़ उवाच:
द्रौपदेय़ाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ ||
१८ ख
सञ्जय़ उवाच:
नानारूपाणि शस्त्राणि विसृजन्तो विशां पते |
१९ क
सञ्जय़ उवाच:
अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः |
१९ ख
सञ्जय़ उवाच:
ते वै समीय़ुः सङ्ग्रामे राजन्दुर्मन्त्रिते तव ||
१९ ग
सञ्जय़ उवाच:
तस्मिन्दाशरथे युद्धे वर्तमाने भय़ावहे |
२० क
सञ्जय़ उवाच:
तावकानां परेषां च प्रेक्षका रथिनोऽभवन् ||
२० ख
सञ्जय़ उवाच:
शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः |
२१ क
सञ्जय़ उवाच:
अन्योन्यमभिनर्दन्तः सम्प्रहारं प्रचक्रिरे ||
२१ ख
सञ्जय़ उवाच:
ते यत्ता जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः |
२२ क
सञ्जय़ उवाच:
महास्त्राणि विमुञ्चन्तः समापेतुरमर्षणाः ||
२२ ख
सञ्जय़ उवाच:
दुर्योधनस्तु सङ्क्रुद्धो धृष्टद्युम्नं महारणे |
२३ क
सञ्जय़ उवाच:
विव्याध निशितैर्वाणैश्चतुर्भिस्त्वरितो भृशम् ||
२३ ख
सञ्जय़ उवाच:
दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिः |
२४ क
सञ्जय़ उवाच:
दुर्मुखो नवभिर्वाणैर्दुःसहश्चापि सप्तभिः |
२४ ख
सञ्जय़ उवाच:
विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा ||
२४ ग
सञ्जय़ उवाच:
तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः |
२५ क
सञ्जय़ उवाच:
एकैकं पञ्चविंशत्या दर्शय़न्पाणिलाघवम् ||
२५ ख
सञ्जय़ उवाच:
सत्यव्रतं तु समरे पुरुमित्रं च भारत |
२६ क
सञ्जय़ उवाच:
अभिमन्युरविध्यत्तौ दशभिर्दशभिः शरैः ||
२६ ख
सञ्जय़ उवाच:
माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ |
२७ क
सञ्जय़ उवाच:
छादय़ेतां शरव्रातैस्तदद्भुतमिवाभवत् ||
२७ ख
सञ्जय़ उवाच:
ततः शल्यो महाराज स्वस्रीय़ौ रथिनां वरौ |
२८ क
सञ्जय़ उवाच:
शरैर्वहुभिरानर्छत्कृतप्रतिकृतैषिणौ |
२८ ख
सञ्जय़ उवाच:
छाद्यमानौ ततस्तौ तु माद्रीपुत्रौ न चेलतुः ||
२८ ग
सञ्जय़ उवाच:
अथ दुर्योधनं दृष्ट्वा भीमसेनो महावलः |
२९ क
सञ्जय़ उवाच:
विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः ||
२९ ख
सञ्जय़ उवाच:
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् |
३० क
सञ्जय़ उवाच:
भीमसेनं महावाहुं पुत्रास्ते प्राद्रवन्भय़ात् ||
३० ख
सञ्जय़ उवाच:
दुर्योधनस्तु सङ्क्रुद्धो मागधं समचोदय़त् |
३१ क
सञ्जय़ उवाच:
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् |
३१ ख
सञ्जय़ उवाच:
मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् ||
३१ ग
सञ्जय़ उवाच:
आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः |
३२ क
सञ्जय़ उवाच:
गदापाणिरवारोहद्रथात्सिंह इवोन्नदन् ||
३२ ख
सञ्जय़ उवाच:
अद्रिसारमय़ीं गुर्वीं प्रगृह्य महतीं गदाम् |
३३ क
सञ्जय़ उवाच:
अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः ||
३३ ख
सञ्जय़ उवाच:
स गजान्गदय़ा निघ्नन्व्यचरत्समरे वली |
३४ क
सञ्जय़ उवाच:
भीमसेनो महावाहुः सवज्र इव वासवः ||
३४ ख
सञ्जय़ उवाच:
तस्य नादेन महता मनोहृदय़कम्पिना |
३५ क
सञ्जय़ उवाच:
व्यत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः ||
३५ ख
सञ्जय़ उवाच:
ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः |
३६ क
सञ्जय़ उवाच:
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ||
३६ ख
सञ्जय़ उवाच:
पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान् |
३७ क
सञ्जय़ उवाच:
अभ्यधावन्त वर्षन्तो मेघा इव गिरीन्यथा ||
३७ ख
सञ्जय़ उवाच:
क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैरञ्जलिकैरपि |
३८ क
सञ्जय़ उवाच:
पातय़न्तोत्तमाङ्गानि पाण्डवा गजय़ोधिनाम् ||
३८ ख
सञ्जय़ उवाच:
शिरोभिः प्रपतद्भिश्च वाहुभिश्च विभूषितैः |
३९ क
सञ्जय़ उवाच:
अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः ||
३९ ख
सञ्जय़ उवाच:
हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजय़ोधिनः |
४० क
सञ्जय़ उवाच:
अदृश्यन्ताचलाग्रेषु द्रुमा भग्नशिखा इव ||
४० ख
सञ्जय़ उवाच:
धृष्टद्युम्नहतानन्यानपश्याम महागजान् |
४१ क
सञ्जय़ उवाच:
पतितान्पात्यमानांश्च पार्षतेन महात्मना ||
४१ ख
सञ्जय़ उवाच:
मागधोऽथ महीपालो गजमैरावतोपमम् |
४२ क
सञ्जय़ उवाच:
प्रेषय़ामास समरे सौभद्रस्य रथं प्रति ||
४२ ख
सञ्जय़ उवाच:
तमापतन्तं सम्प्रेक्ष्य मागधस्य गजोत्तमम् |
४३ क
सञ्जय़ उवाच:
जघानैकेषुणा वीरः सौभद्रः परवीरहा ||
४३ ख
सञ्जय़ उवाच:
तस्यावर्जितनागस्य कार्ष्णिः परपुरञ्जय़ः |
४४ क
सञ्जय़ उवाच:
राज्ञो रजतपुङ्खेन भल्लेनापहरच्छिरः ||
४४ ख
सञ्जय़ उवाच:
विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः |
४५ क
सञ्जय़ उवाच:
व्यचरत्समरे मृद्नन्गजानिन्द्रो गिरीनिव ||
४५ ख
सञ्जय़ उवाच:
एकप्रहाराभिहतान्भीमसेनेन कुञ्जरान् |
४६ क
सञ्जय़ उवाच:
अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव ||
४६ ख
सञ्जय़ उवाच:
भग्नदन्तान्भग्नकटान्भग्नसक्थांश्च वारणान् |
४७ क
सञ्जय़ उवाच:
भग्नपृष्ठान्भग्नकुम्भान्निहतान्पर्वतोपमान् ||
४७ ख
सञ्जय़ उवाच:
नदतः सीदतश्चान्यान्विमुखान्समरे गजान् |
४८ क
सञ्जय़ उवाच:
विमूत्रान्भग्नसंविग्नांस्तथा विशकृतोऽपरान् ||
४८ ख