chevron_left वन पर्व अध्याय १९
वासुदेव उवाच:
शाल्ववाणार्दिते तस्मिन्प्रद्युम्ने वलिनां वरे |
१ क
वासुदेव उवाच:
वृष्णय़ो भग्नसङ्कल्पा विव्यथुः पृतनागताः ||
१ ख
वासुदेव उवाच:
हाहाकृतमभूत्सार्वं वृष्ण्यन्धकवलं तदा |
२ क
वासुदेव उवाच:
प्रद्युम्ने पतिते राजन्परे च मुदिताभवन् ||
२ ख
वासुदेव उवाच:
तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हय़ैः |
३ क
वासुदेव उवाच:
रणादपाहरत्तूर्णं शिक्षितो दारुकिस्ततः ||
३ ख
वासुदेव उवाच:
नातिदूरापय़ाते तु रथे रथवरप्रणुत् |
४ क
वासुदेव उवाच:
धनुर्गृहीत्वा यन्तारं लव्धसञ्ज्ञोऽव्रवीदिदम् ||
४ ख
वासुदेव उवाच:
सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः |
५ क
वासुदेव उवाच:
नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते ||
५ ख
वासुदेव उवाच:
कच्चित्सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे |
६ क
वासुदेव उवाच:
विषादो वा रणं दृष्ट्वा व्रूहि मे त्वं यथातथम् ||
६ ख
सूत उवाच:
जानार्दने न मे मोहो नापि मे भय़माविशत् |
७ क
सूत उवाच:
अतिभारं तु ते मन्ये शाल्वं केशवनन्दन ||
७ ख
सूत उवाच:
सोऽपय़ामि शनैर्वीर वलवानेष पापकृत् |
८ क
सूत उवाच:
मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी ||
८ ख
सूत उवाच:
आय़ुष्मंस्त्वं मय़ा नित्यं रक्षितव्यस्त्वय़ाप्यहम् |
९ क
सूत उवाच:
रक्षितव्यो रथी नित्यमिति कृत्वापय़ाम्यहम् ||
९ ख
सूत उवाच:
एकश्चासि महावाहो वहवश्चापि दानवाः |
१० क
सूत उवाच:
नसमं रौक्मिणेय़ाहं रणं मत्वापय़ाम्यहम् ||
१० ख
वासुदेव उवाच:
एवं व्रुवति सूते तु तदा मकरकेतुमान् |
११ क
वासुदेव उवाच:
उवाच सूतं कौरव्य निवर्तय़ रथं पुनः ||
११ ख
वासुदेव उवाच:
दारुकात्मज मैवं त्वं पुनः कार्षीः कथञ्चन |
१२ क
वासुदेव उवाच:
व्यपय़ानं रणात्सौते जीवतो मम कर्हिचित् ||
१२ ख
वासुदेव उवाच:
न स वृष्णिकुले जातो यो वै त्यजति सङ्गरम् |
१३ क
वासुदेव उवाच:
यो वा निपतितं हन्ति तवास्मीति च वादिनम् ||
१३ ख
वासुदेव उवाच:
तथा स्त्रिय़ं वै यो हन्ति वृद्धं वालं तथैव च |
१४ क
वासुदेव उवाच:
विरथं विप्रकीर्णं च भग्नशस्त्राय़ुधं तथा ||
१४ ख
वासुदेव उवाच:
त्वं च सूतकुले जातो विनीतः सूतकर्मणि |
१५ क
वासुदेव उवाच:
धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके ||
१५ ख
वासुदेव उवाच:
स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे |
१६ क
वासुदेव उवाच:
अपय़ानं पुनः सौते मैवं कार्षीः कथञ्चन ||
१६ ख
वासुदेव उवाच:
अपय़ातं हतं पृष्ठे भीतं रणपलाय़िनम् |
१७ क
वासुदेव उवाच:
गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः ||
१७ ख
वासुदेव उवाच:
केशवस्याग्रजो वापि नीलवासा मदोत्कटः |
१८ क
वासुदेव उवाच:
किं वक्ष्यति महावाहुर्वलदेवः समागतः ||
१८ ख
वासुदेव उवाच:
किं वक्ष्यति शिनेर्नप्ता नरसिंहो महाधनुः |
१९ क
वासुदेव उवाच:
अपय़ातं रणात्सौते साम्वश्च समितिञ्जय़ः ||
१९ ख
वासुदेव उवाच:
चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ |
२० क
वासुदेव उवाच:
अक्रूरश्च महावाहुः किं मां वक्ष्यति सारथे ||
२० ख
वासुदेव उवाच:
शूरं सम्भावितं सन्तं नित्यं पुरुषमानिनम् |
२१ क
वासुदेव उवाच:
स्त्रिय़श्च वृष्णीवीराणां किं मां वक्ष्यन्ति सङ्गताः ||
२१ ख
वासुदेव उवाच:
प्रद्युम्नोऽय़मुपाय़ाति भीतस्त्यक्त्वा महाहवम् |
२२ क
वासुदेव उवाच:
धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति ||
२२ ख
वासुदेव उवाच:
धिग्वाचा परिहासोऽपि मम वा मद्विधस्य वा |
२३ क
वासुदेव उवाच:
मृत्युनाभ्यधिकः सौते स त्वं मा व्यपय़ाः पुनः ||
२३ ख
वासुदेव उवाच:
भारं हि मय़ि संन्यस्य यातो मधुनिहा हरिः |
२४ क
वासुदेव उवाच:
यज्ञं भरतसिंहस्य पार्थस्यामिततेजसः ||
२४ ख
वासुदेव उवाच:
कृतवर्मा मय़ा वीरो निर्यास्यन्नेव वारितः |
२५ क
वासुदेव उवाच:
शाल्वं निवारय़िष्येऽहं तिष्ठ त्वमिति सूतज ||
२५ ख
वासुदेव उवाच:
स च सम्भावय़न्मां वै निवृत्तो हृदिकात्मजः |
२६ क
वासुदेव उवाच:
तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम् ||
२६ ख
वासुदेव उवाच:
उपय़ातं दुराधर्षं शङ्खचक्रगदाधरम् |
२७ क
वासुदेव उवाच:
पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् ||
२७ ख
वासुदेव उवाच:
सात्यकिं वलदेवं च ये चान्येऽन्धकवृष्णय़ः |
२८ क
वासुदेव उवाच:
मय़ा स्पर्धन्ति सततं किं नु वक्ष्यामि तानहम् ||
२८ ख
वासुदेव उवाच:
त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः |
२९ क
वासुदेव उवाच:
त्वय़ापनीतो विवशो न जीवेय़ं कथञ्चन ||
२९ ख
वासुदेव उवाच:
स निवर्त रथेनाशु पुनर्दारुकनन्दन |
३० क
वासुदेव उवाच:
न चैतदेवं कर्तव्यमथापत्सु कथञ्चन ||
३० ख
वासुदेव उवाच:
न जीवितमहं सौते वहु मन्ये कदाचन |
३१ क
वासुदेव उवाच:
अपय़ातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः ||
३१ ख
वासुदेव उवाच:
कदा वा सूतपुत्र त्वं जानीषे मां भय़ार्दितम् |
३२ क
वासुदेव उवाच:
अपय़ातं रणं हित्वा यथा कापुरुषं तथा ||
३२ ख
वासुदेव उवाच:
न युक्तं भवता त्यक्तुं सङ्ग्रामं दारुकात्मज |
३३ क
वासुदेव उवाच:
मय़ि युद्धार्थिनि भृशं स त्वं याहि यतो रणम् ||
३३ ख