chevron_left कर्ण पर्व अध्याय ५८
सञ्जय़ उवाच:
राजन्कुरूणां प्रवरैर्वलैर्भीममभिद्रुतम् |
१ क
सञ्जय़ उवाच:
मज्जन्तमिव कौन्तेय़मुज्जिहीर्षुर्धनञ्जय़ः ||
१ ख
सञ्जय़ उवाच:
विमृद्य सूतपुत्रस्य सेनां भारत साय़कैः |
२ क
सञ्जय़ उवाच:
प्राहिणोन्मृत्युलोकाय़ परवीरान्धनञ्जय़ः ||
२ ख
सञ्जय़ उवाच:
ततोऽस्याम्वरमावृत्य शरजालानि भागशः |
३ क
सञ्जय़ उवाच:
अदृश्यन्त तथान्ये च निघ्नन्तस्तव वाहिनीम् ||
३ ख
सञ्जय़ उवाच:
स पक्षिसङ्घाचरितमाकाशं पूरय़ञ्शरैः |
४ क
सञ्जय़ उवाच:
धनञ्जय़ो महाराज कुरूणामन्तकोऽभवत् ||
४ ख
सञ्जय़ उवाच:
ततो भल्लैः क्षुरप्रैश्च नाराचैर्निर्मलैरपि |
५ क
सञ्जय़ उवाच:
गात्राणि प्राक्षिणोत्पार्थः शिरांसि च चकर्त ह ||
५ ख
सञ्जय़ उवाच:
छिन्नगात्रैर्विकवचैर्विशिरस्कैः समन्ततः |
६ क
सञ्जय़ उवाच:
पतितैश्च पतद्भिश्च योधैरासीत्समावृतम् ||
६ ख
सञ्जय़ उवाच:
धनञ्जय़शराभ्यस्तैः स्यन्दनाश्वनरद्विपैः |
७ क
सञ्जय़ उवाच:
रणभूमिरभूद्राजन्महावैतरणी यथा ||
७ ख
सञ्जय़ उवाच:
ईषाचक्राक्षभङ्गैश्च व्यश्वैः साश्वैश्च युध्यताम् |
८ क
सञ्जय़ उवाच:
ससूतैर्हतसूतैश्च रथैः स्तीर्णाभवन्मही ||
८ ख
सञ्जय़ उवाच:
सुवर्णवर्मसंनाहैर्योधैः कनकभूषणैः |
९ क
सञ्जय़ उवाच:
आस्थिताः कृतवर्माणो भद्रा नित्यमदा द्विपाः |
९ ख
सञ्जय़ उवाच:
क्रुद्धाः क्रुद्धैर्महामात्रैः प्रेषितार्जुनमभ्ययुः ||
९ ग
सञ्जय़ उवाच:
चतुःशताः शरवर्षैर्हताः पेतुः किरीटिना |
१० क
सञ्जय़ उवाच:
पर्यस्तानीव शृङ्गाणि ससत्त्वानि महागिरेः ||
१० ख
सञ्जय़ उवाच:
धनञ्जय़शराभ्यस्तैः स्तीर्णा भूर्वरवारणैः |
११ क
सञ्जय़ उवाच:
अभिपेदेऽर्जुनरथो घनान्भिन्दन्निवांशुमान् ||
११ ख
सञ्जय़ उवाच:
हतैर्गजमनुष्याश्वैर्भग्नैश्च वहुधा रथैः |
१२ क
सञ्जय़ उवाच:
विशस्त्रपत्रकवचैर्युद्धशौण्डैर्गतासुभिः |
१२ ख
सञ्जय़ उवाच:
अपविद्धाय़ुधैर्मार्गः स्तीर्णोऽभूत्फल्गुनेन वै ||
१२ ग
सञ्जय़ उवाच:
व्यस्फूर्जय़च्च गाण्डीवं सुमहद्भैरवस्वनम् |
१३ क
सञ्जय़ उवाच:
घोरो वज्रविनिष्पेषः स्तनय़ित्नोरिवाम्वरे ||
१३ ख
सञ्जय़ उवाच:
ततः प्रादीर्यत चमूर्धनञ्जय़शराहता |
१४ क
सञ्जय़ उवाच:
महावातसमाविद्धा महानौरिव सागरे ||
१४ ख
सञ्जय़ उवाच:
नानारूपाः प्रहरणाः शरा गाण्डीवचोदिताः |
१५ क
सञ्जय़ उवाच:
अलातोल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन् ||
१५ ख
सञ्जय़ उवाच:
महागिरौ वेणुवनं निशि प्रज्वलितं यथा |
१६ क
सञ्जय़ उवाच:
तथा तव महत्सैन्यं प्रास्फुरच्छरपीडितम् ||
१६ ख
सञ्जय़ उवाच:
सम्पिष्टदग्धविध्वस्तं तव सैन्यं किरीटिना |
१७ क
सञ्जय़ उवाच:
हतं प्रविहतं वाणैः सर्वतः प्रद्रुतं दिशः ||
१७ ख
सञ्जय़ उवाच:
महावने मृगगणा दावाग्निग्रसिता यथा |
१८ क
सञ्जय़ उवाच:
कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना ||
१८ ख
सञ्जय़ उवाच:
उत्सृज्य हि महावाहुं भीमसेनं तदा रणे |
१९ क
सञ्जय़ उवाच:
वलं कुरूणामुद्विग्नं सर्वमासीत्पराङ्मुखम् ||
१९ ख
सञ्जय़ उवाच:
ततः कुरुषु भग्नेषु वीभत्सुरपराजितः |
२० क
सञ्जय़ उवाच:
भीमसेनं समासाद्य मुहूर्तं सोऽभ्यवर्तत ||
२० ख
सञ्जय़ उवाच:
समागम्य स भीमेन मन्त्रय़ित्वा च फल्गुनः |
२१ क
सञ्जय़ उवाच:
विशल्यमरुजं चास्मै कथय़ित्वा युधिष्ठिरम् ||
२१ ख
सञ्जय़ उवाच:
भीमसेनाभ्यनुज्ञातस्ततः प्राय़ाद्धनञ्जय़ः |
२२ क
सञ्जय़ उवाच:
नादय़न्रथघोषेण पृथिवीं द्यां च भारत ||
२२ ख
सञ्जय़ उवाच:
ततः परिवृतो भीमैर्दशभिः शत्रुपुङ्गवैः |
२३ क
सञ्जय़ उवाच:
दुःशासनादवरजैस्तव पुत्रैर्धनञ्जय़ः ||
२३ ख
सञ्जय़ उवाच:
ते तमभ्यर्दय़न्वाणैरुल्काभिरिव कुञ्जरम् |
२४ क
सञ्जय़ उवाच:
आततेष्वसनाः क्रूरा नृत्यन्त इव भारत ||
२४ ख
सञ्जय़ उवाच:
अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः |
२५ क
सञ्जय़ उवाच:
ततस्ते प्राद्रवञ्शूराः पराङ्मुखरथेऽर्जुने ||
२५ ख
सञ्जय़ उवाच:
तेषामापततां केतून्रथांश्चापानि साय़कान् |
२६ क
सञ्जय़ उवाच:
नाराचैरर्धचन्द्रैश्च क्षिप्रं पार्थो न्यपातय़त् ||
२६ ख
सञ्जय़ उवाच:
अथान्यैर्दशभिर्भल्लैः शिरांस्येषां न्यपातय़त् |
२७ क
सञ्जय़ उवाच:
रोषसंरक्तनेत्राणि सन्दष्टौष्ठानि भूतले |
२७ ख
सञ्जय़ उवाच:
तानि वक्त्राणि विवभुर्व्योम्नि तारागणा इव ||
२७ ग
सञ्जय़ उवाच:
तांस्तु भल्लैर्महावेगैर्दशभिर्दश कौरवान् |
२८ क
सञ्जय़ उवाच:
रुक्माङ्गदान्रुक्मपुङ्खैर्विद्ध्वा प्राय़ादमित्रहा ||
२८ ख