सञ्जय़ उवाच:
तं पातितं ततो दृष्ट्वा महाशालमिवोद्गतम् |
१ क
सञ्जय़ उवाच:
प्रहृष्टमनसः सर्वे वभूवुस्तत्र पाण्डवाः ||
१ ख
सञ्जय़ उवाच:
उन्मत्तमिव मातङ्गं सिंहेन विनिपातितम् |
२ क
सञ्जय़ उवाच:
ददृशुर्हृष्टरोमाणः सर्वे ते चापि सोमकाः ||
२ ख
सञ्जय़ उवाच:
ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान् |
३ क
सञ्जय़ उवाच:
पतितं कौरवेन्द्रं तमुपगम्येदमव्रवीत् ||
३ ख
सञ्जय़ उवाच:
गौर्गौरिति पुरा मन्द द्रौपदीमेकवाससम् |
४ क
सञ्जय़ उवाच:
यत्सभाय़ां हसन्नस्मांस्तदा वदसि दुर्मते |
४ ख
सञ्जय़ उवाच:
तस्यावहासस्य फलमद्य त्वं समवाप्नुहि ||
४ ग
सञ्जय़ उवाच:
एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत् |
५ क
सञ्जय़ उवाच:
शिरश्च राजसिंहस्य पादेन समलोडय़त् ||
५ ख
सञ्जय़ उवाच:
तथैव क्रोधसंरक्तो भीमः परवलार्दनः |
६ क
सञ्जय़ उवाच:
पुनरेवाव्रवीद्वाक्यं यत्तच्छृणु नराधिप ||
६ ख
सञ्जय़ उवाच:
येऽस्मान्पुरोऽपनृत्यन्त पुनर्गौरिति गौरिति |
७ क
सञ्जय़ उवाच:
तान्वय़ं प्रतिनृत्यामः पुनर्गौरिति गौरिति ||
७ ख
सञ्जय़ उवाच:
नास्माकं निकृतिर्वह्निर्नाक्षद्यूतं न वञ्चना |
८ क
सञ्जय़ उवाच:
स्ववाहुवलमाश्रित्य प्रवाधामो वय़ं रिपून् ||
८ ख
सञ्जय़ उवाच:
सोऽवाप्य वैरस्य परस्य पारं; वृकोदरः प्राह शनैः प्रहस्य |
९ क
सञ्जय़ उवाच:
युधिष्ठिरं केशवसृञ्जय़ांश्च; धनञ्जय़ं माद्रवतीसुतौ च ||
९ ख
सञ्जय़ उवाच:
रजस्वलां द्रौपदीमानय़न्ये; ये चाप्यकुर्वन्त सदस्यवस्त्राम् |
१० क
सञ्जय़ उवाच:
तान्पश्यध्वं पाण्डवैर्धार्तराष्ट्रा; न्रणे हतांस्तपसा याज्ञसेन्याः ||
१० ख
सञ्जय़ उवाच:
ये नः पुरा षण्ढतिलानवोच; न्क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः |
११ क
सञ्जय़ उवाच:
ते नो हताः सगणाः सानुवन्धाः; कामं स्वर्गं नरकं वा व्रजामः ||
११ ख
सञ्जय़ उवाच:
पुनश्च राज्ञः पतितस्य भूमौ; स तां गदां स्कन्धगतां निरीक्ष्य |
१२ क
सञ्जय़ उवाच:
वामेन पादेन शिरः प्रमृद्य; दुर्योधनं नैकृतिकेत्यवोचत् ||
१२ ख
सञ्जय़ उवाच:
हृष्टेन राजन्कुरुपार्थिवस्य; क्षुद्रात्मना भीमसेनेन पादम् |
१३ क
सञ्जय़ उवाच:
दृष्ट्वा कृतं मूर्धनि नाभ्यनन्द; न्धर्मात्मानः सोमकानां प्रवर्हाः ||
१३ ख
सञ्जय़ उवाच:
तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम् |
१४ क
सञ्जय़ उवाच:
नृत्यमानं च वहुशो धर्मराजोऽव्रवीदिदम् ||
१४ ख
सञ्जय़ उवाच:
मा शिरोऽस्य पदा मर्दीर्मा धर्मस्तेऽत्यगान्महान् |
१५ क
सञ्जय़ उवाच:
राजा ज्ञातिर्हतश्चाय़ं नैतन्न्याय़्यं तवानघ ||
१५ ख
सञ्जय़ उवाच:
विध्वस्तोऽय़ं हतामात्यो हतभ्राता हतप्रजः |
१६ क
सञ्जय़ उवाच:
उत्सन्नपिण्डो भ्राता च नैतन्न्याय़्यं कृतं त्वय़ा ||
१६ ख
सञ्जय़ उवाच:
धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः |
१७ क
सञ्जय़ उवाच:
स कस्माद्भीमसेन त्वं राजानमधितिष्ठसि ||
१७ ख
सञ्जय़ उवाच:
दृष्ट्वा दुर्योधनं राजा कुन्तीपुत्रस्तथागतम् |
१८ क
सञ्जय़ उवाच:
नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमव्रवीत् ||
१८ ख
सञ्जय़ उवाच:
नूनमेतद्वलवता धात्रादिष्टं महात्मना |
१९ क
सञ्जय़ उवाच:
यद्वय़ं त्वां जिघांसामस्त्वं चास्मान्कुरुसत्तम ||
१९ ख
सञ्जय़ उवाच:
आत्मनो ह्यपराधेन महद्व्यसनमीदृशम् |
२० क
सञ्जय़ उवाच:
प्राप्तवानसि यल्लोभान्मदाद्वाल्याच्च भारत ||
२० ख
सञ्जय़ उवाच:
घातय़ित्वा वय़स्यांश्च भ्रातॄनथ पितॄंस्तथा |
२१ क
सञ्जय़ उवाच:
पुत्रान्पौत्रांस्तथाचार्यांस्ततोऽसि निधनं गतः ||
२१ ख
सञ्जय़ उवाच:
तवापराधादस्माभिर्भ्रातरस्ते महारथाः |
२२ क
सञ्जय़ उवाच:
निहता ज्ञातय़श्चान्ये दिष्टं मन्ये दुरत्ययम् ||
२२ ख
सञ्जय़ उवाच:
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः |
२३ क
सञ्जय़ उवाच:
गर्हय़िष्यन्ति नो नूनं विधवाः शोककर्शिताः ||
२३ ख
सञ्जय़ उवाच:
एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः |
२४ क
सञ्जय़ उवाच:
विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः ||
२४ ख