chevron_left आदि पर्व अध्याय ५९
वैशम्पाय़न उवाच:
सुप्रिय़ा चातिवाहुश्च विख्यातौ च हहाहुहू |
४९ ख
वैशम्पाय़न उवाच:
तुम्वुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः ||
४९ ग
वैशम्पाय़न उवाच:
अमृतं व्राह्मणा गावो गन्धर्वाप्सरसस्तथा |
५० क
वैशम्पाय़न उवाच:
अपत्यं कपिलाय़ास्तु पुराणे परिकीर्तितम् ||
५० ख
वैशम्पाय़न उवाच:
इति ते सर्वभूतानां सम्भवः कथितो मय़ा |
५१ क
वैशम्पाय़न उवाच:
यथावत्परिसङ्ख्यातो गन्धर्वाप्सरसां तथा ||
५१ ख
वैशम्पाय़न उवाच:
भुजगानां सुपर्णानां रुद्राणां मरुतां तथा |
५२ क
वैशम्पाय़न उवाच:
गवां च व्राह्मणानां च श्रीमतां पुण्यकर्मणाम् ||
५२ ख
वैशम्पाय़न उवाच:
आय़ुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः |
५३ क
वैशम्पाय़न उवाच:
श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूय़ता ||
५३ ख
वैशम्पाय़न उवाच:
इमं तु वंशं निय़मेन यः पठे; न्महात्मनां व्राह्मणदेवसंनिधौ |
५४ क
वैशम्पाय़न उवाच:
अपत्यलाभं लभते स पुष्कलं; श्रिय़ं यशः प्रेत्य च शोभनां गतिम् ||
५४ ख