chevron_left आदि पर्व अध्याय ५९
वैशम्पाय़न उवाच:
अथ नाराय़णेनेन्द्रश्चकार सह संविदम् |
१ क
वैशम्पाय़न उवाच:
अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः ||
१ ख
वैशम्पाय़न उवाच:
आदिश्य च स्वय़ं शक्रः सर्वानेव दिवौकसः |
२ क
वैशम्पाय़न उवाच:
निर्जगाम पुनस्तस्मात्क्षय़ान्नाराय़णस्य ह ||
२ ख
वैशम्पाय़न उवाच:
तेऽमरारिविनाशाय़ सर्वलोकहिताय़ च |
३ क
वैशम्पाय़न उवाच:
अवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः ||
३ ख
वैशम्पाय़न उवाच:
ततो व्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च |
४ क
वैशम्पाय़न उवाच:
जज्ञिरे राजशार्दूल यथाकामं दिवौकसः ||
४ ख
वैशम्पाय़न उवाच:
दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा |
५ क
वैशम्पाय़न उवाच:
पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः ||
५ ख
वैशम्पाय़न उवाच:
दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा |
६ क
वैशम्पाय़न उवाच:
न तान्वलस्थान्वाल्येऽपि जघ्नुर्भरतसत्तम ||
६ ख
जनमेजय़ उवाच:
देवदानवसङ्घानां गन्धर्वाप्सरसां तथा |
७ क
जनमेजय़ उवाच:
मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् ||
७ ख
जनमेजय़ उवाच:
श्रोतुमिच्छामि तत्त्वेन सम्भवं कृत्स्नमादितः |
८ क
जनमेजय़ उवाच:
प्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि ||
८ ख
वैशम्पाय़न उवाच:
हन्त ते कथय़िष्यामि नमस्कृत्वा स्वय़म्भुवे |
९ क
वैशम्पाय़न उवाच:
सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् ||
९ ख
वैशम्पाय़न उवाच:
व्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षय़ः |
१० क
वैशम्पाय़न उवाच:
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ||
१० ख
वैशम्पाय़न उवाच:
मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः |
११ क
वैशम्पाय़न उवाच:
प्रजज्ञिरे महाभागा दक्षकन्यास्त्रय़ोदश ||
११ ख
वैशम्पाय़न उवाच:
अदितिर्दितिर्दनुः काला अनाय़ुः सिंहिका मुनिः |
१२ क
वैशम्पाय़न उवाच:
क्रोधा प्रावा अरिष्टा च विनता कपिला तथा ||
१२ ख
वैशम्पाय़न उवाच:
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत |
१३ क
वैशम्पाय़न उवाच:
एतासां वीर्यसम्पन्नं पुत्रपौत्रमनन्तकम् ||
१३ ख
वैशम्पाय़न उवाच:
अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः |
१४ क
वैशम्पाय़न उवाच:
ये राजन्नामतस्तांस्ते कीर्तय़िष्यामि भारत ||
१४ ख
वैशम्पाय़न उवाच:
धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च |
१५ क
वैशम्पाय़न उवाच:
भगो विवस्वान्पूषा च सविता दशमस्तथा ||
१५ ख
वैशम्पाय़न उवाच:
एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते |
१६ क
वैशम्पाय़न उवाच:
जघन्यजः स सर्वेषामादित्यानां गुणाधिकः ||
१६ ख
वैशम्पाय़न उवाच:
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः |
१७ क
वैशम्पाय़न उवाच:
नाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः ||
१७ ख
वैशम्पाय़न उवाच:
प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम् |
१८ क
वैशम्पाय़न उवाच:
अनुह्रादस्तृतीय़ोऽभूत्तस्माच्च शिविवाष्कलौ ||
१८ ख
वैशम्पाय़न उवाच:
प्रह्रादस्य त्रय़ः पुत्राः ख्याताः सर्वत्र भारत |
१९ क
वैशम्पाय़न उवाच:
विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः ||
१९ ख
वैशम्पाय़न उवाच:
विरोचनस्य पुत्रोऽभूद्वलिरेकः प्रतापवान् |
२० क
वैशम्पाय़न उवाच:
वलेश्च प्रथितः पुत्रो वाणो नाम महासुरः ||
२० ख
वैशम्पाय़न उवाच:
चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत |
२१ क
वैशम्पाय़न उवाच:
तेषां प्रथमजो राजा विप्रचित्तिर्महाय़शाः ||
२१ ख
वैशम्पाय़न उवाच:
शम्वरो नमुचिश्चैव पुलोमा चेति विश्रुतः |
२२ क
वैशम्पाय़न उवाच:
असिलोमा च केशी च दुर्जय़श्चैव दानवः ||
२२ ख
वैशम्पाय़न उवाच:
अय़ःशिरा अश्वशिरा अय़ःशङ्कुश्च वीर्यवान् |
२३ क
वैशम्पाय़न उवाच:
तथा गगनमूर्धा च वेगवान्केतुमांश्च यः ||
२३ ख
वैशम्पाय़न उवाच:
स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा |
२४ क
वैशम्पाय़न उवाच:
अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः ||
२४ ख
वैशम्पाय़न उवाच:
इसृपा एकचक्रश्च विरूपाक्षो हराहरौ |
२५ क
वैशम्पाय़न उवाच:
निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा ||
२५ ख
वैशम्पाय़न उवाच:
शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा |
२६ क
वैशम्पाय़न उवाच:
इति ख्याता दनोर्वंशे दानवाः परिकीर्तिताः |
२६ ख
वैशम्पाय़न उवाच:
अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ ||
२६ ग
वैशम्पाय़न उवाच:
इमे च वंशे प्रथिताः सत्त्ववन्तो महावलाः |
२७ क
वैशम्पाय़न उवाच:
दनुपुत्रा महाराज दश दानवपुङ्गवाः ||
२७ ख
वैशम्पाय़न उवाच:
एकाक्षो मृतपा वीरः प्रलम्वनरकावपि |
२८ क
वैशम्पाय़न उवाच:
वातापिः शत्रुतपनः शठश्चैव महासुरः ||
२८ ख
वैशम्पाय़न उवाच:
गविष्ठश्च दनाय़ुश्च दीर्घजिह्वश्च दानवः |
२९ क
वैशम्पाय़न उवाच:
असङ्ख्येय़ाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत ||
२९ ख
वैशम्पाय़न उवाच:
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम् |
३० क
वैशम्पाय़न उवाच:
सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम् ||
३० ख
वैशम्पाय़न उवाच:
क्रूरस्वभावं क्रूराय़ाः पुत्रपौत्रमनन्तकम् |
३१ क
वैशम्पाय़न उवाच:
गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः ||
३१ ख
वैशम्पाय़न उवाच:
अनाय़ुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः |
३२ क
वैशम्पाय़न उवाच:
विक्षरो वलवीरौ च वृत्रश्चैव महासुरः ||
३२ ख
वैशम्पाय़न उवाच:
कालाय़ाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः |
३३ क
वैशम्पाय़न उवाच:
भुवि ख्याता महावीर्या दानवेषु परन्तपाः ||
३३ ख
वैशम्पाय़न उवाच:
विनाशनश्च क्रोधश्च हन्ता क्रोधस्य चापरः |
३४ क
वैशम्पाय़न उवाच:
क्रोधशत्रुस्तथैवान्यः कालेय़ा इति विश्रुताः ||
३४ ख
वैशम्पाय़न उवाच:
असुराणामुपाध्याय़ः शुक्रस्त्वृषिसुतोऽभवत् |
३५ क
वैशम्पाय़न उवाच:
ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरय़ाजकाः ||
३५ ख
वैशम्पाय़न उवाच:
त्वष्टावरस्तथात्रिश्च द्वावन्यौ मन्त्रकर्मिणौ |
३६ क
वैशम्पाय़न उवाच:
तेजसा सूर्यसङ्काशा व्रह्मलोकप्रभावनाः ||
३६ ख
वैशम्पाय़न उवाच:
इत्येष वंशप्रभवः कथितस्ते तरस्विनाम् |
३७ क
वैशम्पाय़न उवाच:
असुराणां सुराणां च पुराणे संश्रुतो मय़ा ||
३७ ख
वैशम्पाय़न उवाच:
एतेषां यदपत्यं तु न शक्यं तदशेषतः |
३८ क
वैशम्पाय़न उवाच:
प्रसङ्ख्यातुं महीपाल गुणभूतमनन्तकम् ||
३८ ख
वैशम्पाय़न उवाच:
तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ |
३९ क
वैशम्पाय़न उवाच:
आरुणिर्वारुणिश्चैव वैनतेय़ा इति स्मृताः ||
३९ ख
वैशम्पाय़न उवाच:
शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः |
४० क
वैशम्पाय़न उवाच:
कूर्मश्च कुलिकश्चैव काद्रवेय़ा महावलाः ||
४० ख
वैशम्पाय़न उवाच:
भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा |
४१ क
वैशम्पाय़न उवाच:
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ||
४१ ख
वैशम्पाय़न उवाच:
पत्रवानर्कपर्णश्च प्रय़ुतश्चैव विश्रुतः |
४२ क
वैशम्पाय़न उवाच:
भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी ||
४२ ख
वैशम्पाय़न उवाच:
तथा शालिशिरा राजन्प्रद्युम्नश्च चतुर्दशः |
४३ क
वैशम्पाय़न उवाच:
कलिः पञ्चदशश्चैव नारदश्चैव षोडशः |
४३ ख
वैशम्पाय़न उवाच:
इत्येते देवगन्धर्वा मौनेय़ाः परिकीर्तिताः ||
४३ ग
वैशम्पाय़न उवाच:
अतस्तु भूतान्यन्यानि कीर्तय़िष्यामि भारत |
४४ क
वैशम्पाय़न उवाच:
अनवद्यामनुवशामनूनामरुणां प्रिय़ाम् |
४४ ख
वैशम्पाय़न उवाच:
अनूपां सुभगां भासीमिति प्रावा व्यजाय़त ||
४४ ग
वैशम्पाय़न उवाच:
सिद्धः पूर्णश्च वर्ही च पूर्णाशश्च महाय़शाः |
४५ क
वैशम्पाय़न उवाच:
व्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः ||
४५ ख
वैशम्पाय़न उवाच:
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा |
४६ क
वैशम्पाय़न उवाच:
इत्येते देवगन्धर्वाः प्रावेय़ाः परिकीर्तिताः ||
४६ ख
वैशम्पाय़न उवाच:
इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् |
४७ क
वैशम्पाय़न उवाच:
प्रावासूत महाभागा देवी देवर्षितः पुरा ||
४७ ख
वैशम्पाय़न उवाच:
अलम्वुसा मिश्रकेषी विद्युत्पर्णा तुलानघा |
४८ क
वैशम्पाय़न उवाच:
अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा ||
४८ ख
वैशम्पाय़न उवाच:
असिता च सुवाहुश्च सुव्रता सुभुजा तथा |
४९ क