युधिष्ठिर उवाच:
यौ तु स्यातां चरणेनोपपन्नौ; यौ विद्यया सदृशौ जन्मना च |
१ क
युधिष्ठिर उवाच:
ताभ्यां दानं कतरस्मै विशिष्ट; मय़ाचमानाय़ च याचते च ||
१ ख
भीष्म उवाच:
श्रेय़ो वै याचतः पार्थ दत्तमाहुरय़ाचते |
२ क
भीष्म उवाच:
अर्हत्तमो वै धृतिमान्कृपणादधृतात्मनः ||
२ ख
भीष्म उवाच:
क्षत्रिय़ो रक्षणधृतिर्व्राह्मणोऽनर्थनाधृतिः |
३ क
भीष्म उवाच:
व्राह्मणो धृतिमान्विद्वान्देवान्प्रीणाति तुष्टिमान् ||
३ ख
भीष्म उवाच:
याच्ञामाहुरनीशस्य अभिहारं च भारत |
४ क
भीष्म उवाच:
उद्वेजय़ति याचन्हि सदा भूतानि दस्युवत् ||
४ ख
भीष्म उवाच:
म्रिय़ते याचमानो वै तमनु म्रिय़ते ददत् |
५ क
भीष्म उवाच:
ददत्सञ्जीवय़त्येनमात्मानं च युधिष्ठिर ||
५ ख
भीष्म उवाच:
आनृशंस्यं परो धर्मो याचते यत्प्रदीय़ते |
६ क
भीष्म उवाच:
अय़ाचतः सीदमानान्सर्वोपाय़ैर्निमन्त्रय़ ||
६ ख
भीष्म उवाच:
यदि वै तादृशा राष्ट्रे वसेय़ुस्ते द्विजोत्तमाः |
७ क
भीष्म उवाच:
भस्मच्छन्नानिवाग्नींस्तान्वुध्येथास्त्वं प्रय़त्नतः ||
७ ख
भीष्म उवाच:
तपसा दीप्यमानास्ते दहेय़ुः पृथिवीमपि |
८ क
भीष्म उवाच:
पूज्या हि ज्ञानविज्ञानतपोय़ोगसमन्विताः ||
८ ख
भीष्म उवाच:
तेभ्यः पूजां प्रय़ुञ्जीथा व्राह्मणेभ्यः परन्तप |
९ क
भीष्म उवाच:
ददद्वहुविधान्दाय़ानुपच्छन्दानय़ाचताम् ||
९ ख
भीष्म उवाच:
यदग्निहोत्रे सुहुते साय़म्प्रातर्भवेत्फलम् |
१० क
भीष्म उवाच:
विद्यावेदव्रतवति तद्दानफलमुच्यते ||
१० ख
भीष्म उवाच:
विद्यावेदव्रतस्नातानव्यपाश्रय़जीविनः |
११ क
भीष्म उवाच:
गूढस्वाध्याय़तपसो व्राह्मणान्संशितव्रतान् ||
११ ख
भीष्म उवाच:
कृतैरावसथैर्हृद्यैः सप्रेष्यैः सपरिच्छदैः |
१२ क
भीष्म उवाच:
निमन्त्रय़ेथाः कौन्तेय़ कामैश्चान्यैर्द्विजोत्तमान् ||
१२ ख
भीष्म उवाच:
अपि ते प्रतिगृह्णीय़ुः श्रद्धापूतं युधिष्ठिर |
१३ क
भीष्म उवाच:
कार्यमित्येव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः ||
१३ ख
भीष्म उवाच:
अपि ते व्राह्मणा भुक्त्वा गताः सोद्धरणान्गृहान् |
१४ क
भीष्म उवाच:
येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः ||
१४ ख
भीष्म उवाच:
अन्नानि प्रातःसवने निय़ता व्रह्मचारिणः |
१५ क
भीष्म उवाच:
व्राह्मणास्तात भुञ्जानास्त्रेताग्नीन्प्रीणय़न्तु ते ||
१५ ख
भीष्म उवाच:
माध्यन्दिनं ते सवनं ददतस्तात वर्तताम् |
१६ क
भीष्म उवाच:
गा हिरण्यानि वासांसि तेनेन्द्रः प्रीय़तां तव ||
१६ ख
भीष्म उवाच:
तृतीय़ं सवनं तत्ते वैश्वदेवं युधिष्ठिर |
१७ क
भीष्म उवाच:
यद्देवेभ्यः पितृभ्यश्च विप्रेभ्यश्च प्रय़च्छसि ||
१७ ख
भीष्म उवाच:
अहिंसा सर्वभूतेभ्यः संविभागश्च सर्वशः |
१८ क
भीष्म उवाच:
दमस्त्यागो धृतिः सत्यं भवत्ववभृथाय़ ते ||
१८ ख
भीष्म उवाच:
एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः |
१९ क
भीष्म उवाच:
विशिष्टः सर्वय़ज्ञेभ्यो नित्यं तात प्रवर्तताम् ||
१९ ख