वसुदेव उवाच:
श्रुतवानस्मि वार्ष्णेय़ सङ्ग्रामं परमाद्भुतम् |
१ क
वसुदेव उवाच:
नराणां वदतां पुत्र कथोद्घातेषु नित्यशः ||
१ ख
वसुदेव उवाच:
त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुज |
२ क
वसुदेव उवाच:
तस्मात्प्रव्रूहि सङ्ग्रामं याथातथ्येन मेऽनघ ||
२ ख
वसुदेव उवाच:
यथा तदभवद्युद्धं पाण्डवानां महात्मनाम् |
३ क
वसुदेव उवाच:
भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम् ||
३ ख
वसुदेव उवाच:
अन्येषां क्षत्रिय़ाणां च कृतास्त्राणामनेकशः |
४ क
वसुदेव उवाच:
नानावेषाकृतिमतां नानादेशनिवासिनाम् ||
४ ख
वसुदेव उवाच:
इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदन्तिके |
५ क
वसुदेव उवाच:
शशंस कुरुवीराणां सङ्ग्रामे निधनं यथा ||
५ ख
वासुदेव उवाच:
अत्यद्भुतानि कर्माणि क्षत्रिय़ाणां महात्मनाम् |
६ क
वासुदेव उवाच:
वहुलत्वान्न सङ्ख्यातुं शक्यान्यव्दशतैरपि ||
६ ख
वासुदेव उवाच:
प्राधान्यतस्तु गदतः समासेनैव मे शृणु |
७ क
वासुदेव उवाच:
कर्माणि पृथिवीशानां यथावदमरद्युते ||
७ ख
वासुदेव उवाच:
भीष्मः सेनापतिरभूदेकादशचमूपतिः |
८ क
वासुदेव उवाच:
कौरव्यः कौरवेय़ाणां देवानामिव वासवः ||
८ ख
वासुदेव उवाच:
शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः |
९ क
वासुदेव उवाच:
वभूव रक्षितो धीमान्धीमता सव्यसाचिना ||
९ ख
वासुदेव उवाच:
तेषां तदभवद्युद्धं दशाहानि महात्मनाम् |
१० क
वासुदेव उवाच:
कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम् ||
१० ख
वासुदेव उवाच:
ततः शिखण्डी गाङ्गेय़मय़ुध्यन्तं महाहवे |
११ क
वासुदेव उवाच:
जघान वहुभिर्वाणैः सह गाण्डीवधन्वना ||
११ ख
वासुदेव उवाच:
अकरोत्स ततः कालं शरतल्पगतो मुनिः |
१२ क
वासुदेव उवाच:
अय़नं दक्षिणं हित्वा सम्प्राप्ते चोत्तराय़णे ||
१२ ख
वासुदेव उवाच:
ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषां वरः |
१३ क
वासुदेव उवाच:
प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव ||
१३ ख
वासुदेव उवाच:
अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः |
१४ क
वासुदेव उवाच:
संवृतः समरश्लाघी गुप्तः कृपवृषादिभिः ||
१४ ख
वासुदेव उवाच:
धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित् |
१५ क
वासुदेव उवाच:
गुप्तो भीमेन तेजस्वी मित्रेण वरुणो यथा ||
१५ ख
वासुदेव उवाच:
पञ्चसेनापरिवृतो द्रोणप्रेप्सुर्महामनाः |
१६ क
वासुदेव उवाच:
पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत् ||
१६ ख
वासुदेव उवाच:
तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसङ्गरे |
१७ क
वासुदेव उवाच:
नानादिगागता वीराः प्राय़शो निधनं गताः ||
१७ ख
वासुदेव उवाच:
दिनानि पञ्च तद्युद्धमभूत्परमदारुणम् |
१८ क
वासुदेव उवाच:
ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः ||
१८ ख
वासुदेव उवाच:
ततः सेनापतिरभूत्कर्णो दौर्योधने वले |
१९ क
वासुदेव उवाच:
अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे ||
१९ ख
वासुदेव उवाच:
तिस्रस्तु पाण्डुपुत्राणां चम्वो वीभत्सुपालिताः |
२० क
वासुदेव उवाच:
हतप्रवीरभूय़िष्ठा वभूवुः समवस्थिताः ||
२० ख
वासुदेव उवाच:
ततः पार्थं समासाद्य पतङ्ग इव पावकम् |
२१ क
वासुदेव उवाच:
पञ्चत्वमगमत्सौतिर्द्वितीय़ेऽहनि दारुणे ||
२१ ख
वासुदेव उवाच:
हते कर्णे तु कौरव्या निरुत्साहा हतौजसः |
२२ क
वासुदेव उवाच:
अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारय़न् ||
२२ ख
वासुदेव उवाच:
हतवाहनभूय़िष्ठाः पाण्डवास्तु युधिष्ठिरम् |
२३ क
वासुदेव उवाच:
अक्षौहिण्या निरुत्साहाः शिष्टय़ा पर्यवारय़न् ||
२३ ख
वासुदेव उवाच:
अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः |
२४ क
वासुदेव उवाच:
तस्मिंस्तथार्धदिवसे कर्म कृत्वा सुदुष्करम् ||
२४ ख
वासुदेव उवाच:
हते शल्ये तु शकुनिं सहदेवो महामनाः |
२५ क
वासुदेव उवाच:
आहर्तारं कलेस्तस्य जघानामितविक्रमः ||
२५ ख
वासुदेव उवाच:
निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः |
२६ क
वासुदेव उवाच:
अपाक्रामद्गदापाणिर्हतभूय़िष्ठसैनिकः ||
२६ ख
वासुदेव उवाच:
तमन्वधावत्सङ्क्रुद्धो भीमसेनः प्रतापवान् |
२७ क
वासुदेव उवाच:
ह्रदे द्वैपाय़ने चापि सलिलस्थं ददर्श तम् ||
२७ ख
वासुदेव उवाच:
ततः शिष्टेन सैन्येन समन्तात्परिवार्य तम् |
२८ क
वासुदेव उवाच:
उपोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः ||
२८ ख
वासुदेव उवाच:
विगाह्य सलिलं त्वाशु वाग्वाणैर्भृशविक्षतः |
२९ क
वासुदेव उवाच:
उत्थाय़ स गदापाणिर्युद्धाय़ समुपस्थितः ||
२९ ख
वासुदेव उवाच:
ततः स निहतो राजा धार्तराष्ट्रो महामृधे |
३० क
वासुदेव उवाच:
भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम् ||
३० ख
वासुदेव उवाच:
ततस्तत्पाण्डवं सैन्यं संसुप्तं शिविरे निशि |
३१ क
वासुदेव उवाच:
निहतं द्रोणपुत्रेण पितुर्वधममृष्यता ||
३१ ख
वासुदेव उवाच:
हतपुत्रा हतवला हतमित्रा मय़ा सह |
३२ क
वासुदेव उवाच:
युय़ुधानद्वितीय़ेन पञ्च शिष्टाः स्म पाण्डवाः ||
३२ ख
वासुदेव उवाच:
सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत |
३३ क
वासुदेव उवाच:
युय़ुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रय़ात् ||
३३ ख
वासुदेव उवाच:
निहते कौरवेन्द्रे च सानुवन्धे सुय़ोधने |
३४ क
वासुदेव उवाच:
विदुरः सञ्जय़श्चैव धर्मराजमुपस्थितौ ||
३४ ख
वासुदेव उवाच:
एवं तदभवद्युद्धमहान्यष्टादश प्रभो |
३५ क
वासुदेव उवाच:
यत्र ते पृथिवीपाला निहताः स्वर्गमावसन् ||
३५ ख
वैशम्पाय़न उवाच:
शृण्वतां तु महाराज कथां तां रोमहर्षणीम् |
३६ क
वैशम्पाय़न उवाच:
दुःखहर्षपरिक्लेशा वृष्णीनामभवंस्तदा ||
३६ ख