chevron_left सभा पर्व अध्याय ५९
दुर्योधन उवाच:
एहि क्षत्तर्द्रौपदीमानय़स्व; प्रिय़ां भार्यां संमतां पाण्डवानाम् |
१ क
दुर्योधन उवाच:
संमार्जतां वेश्म परैतु शीघ्र; मानन्दो नः सह दासीभिरस्तु ||
१ ख
विदुर उवाच:
दुर्विभाव्यं भवति त्वादृशेन; न मन्द सम्वुध्यसि पाशवद्धः |
२ क
विदुर उवाच:
प्रपाते त्वं लम्वमानो न वेत्सि; व्याघ्रान्मृगः कोपय़सेऽतिवाल्यात् ||
२ ख
विदुर उवाच:
आशीविषाः शिरसि ते पूर्णकोशा महाविषाः |
३ क
विदुर उवाच:
मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षय़म् ||
३ ख
विदुर उवाच:
न हि दासीत्वमापन्ना कृष्णा भवति भारत |
४ क
विदुर उवाच:
अनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः ||
४ ख
विदुर उवाच:
अय़ं धत्ते वेणुरिवात्मघाती; फलं राजा धृतराष्ट्रस्य पुत्रः |
५ क
विदुर उवाच:
द्यूतं हि वैराय़ महाभय़ाय़; पक्वो न वुध्यत्ययमन्तकाले ||
५ ख
विदुर उवाच:
नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत |
६ क
विदुर उवाच:
यय़ास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ||
६ ख
विदुर उवाच:
समुच्चरन्त्यतिवादा हि वक्त्रा; द्यैराहतः शोचति रात्र्यहानि |
७ क
विदुर उवाच:
परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु ||
७ ख
विदुर उवाच:
अजो हि शस्त्रमखनत्किलैकः; शस्त्रे विपन्ने पद्भिरपास्य भूमिम् |
८ क
विदुर उवाच:
निकृन्तनं स्वस्य कण्ठस्य घोरं; तद्वद्वैरं मा खनीः पाण्डुपुत्रैः ||
८ ख
विदुर उवाच:
न किञ्चिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा |
९ क
विदुर उवाच:
तपस्विनं सम्परिपूर्णविद्यं; भषन्ति हैवं श्वनराः सदैव ||
९ ख
विदुर उवाच:
द्वारं सुघोरं नरकस्य जिह्मं; न वुध्यसे धृतराष्ट्रस्य पुत्र |
१० क
विदुर उवाच:
त्वामन्वेतारो वहवः कुरूणां; द्यूतोदय़े सह दुःशासनेन ||
१० ख
विदुर उवाच:
मज्जन्त्यलावूनि शिलाः प्लवन्ते; मुह्यन्ति नावोऽम्भसि शश्वदेव |
११ क
विदुर उवाच:
मूढो राजा धृतराष्ट्रस्य पुत्रो; न मे वाचः पथ्यरूपाः शृणोति ||
११ ख
विदुर उवाच:
अन्तो नूनं भविताय़ं कुरूणां; सुदारुणः सर्वहरो विनाशः |
१२ क
विदुर उवाच:
वाचः काव्याः सुहृदां पथ्यरूपा; न श्रूय़न्ते वर्धते लोभ एव ||
१२ ख