chevron_left वन पर्व अध्याय १४९
भीम उवाच:
पूर्वरूपमदृष्ट्वा ते न यास्यामि कथञ्चन |
१ क
भीम उवाच:
यदि तेऽहमनुग्राह्यो दर्शय़ात्मानमात्मना ||
१ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवङ्गमः |
२ क
वैशम्पाय़न उवाच:
तद्रूपं दर्शय़ामास यद्वै सागरलङ्घने ||
२ ख
वैशम्पाय़न उवाच:
भ्रातुः प्रिय़मभीप्सन्वै चकार सुमहद्वपुः |
३ क
वैशम्पाय़न उवाच:
देहस्तस्य ततोऽतीव वर्धत्याय़ामविस्तरैः ||
३ ख
वैशम्पाय़न उवाच:
तद्रूपं कदलीषण्डं छादय़न्नमितद्युतिः |
४ क
वैशम्पाय़न उवाच:
गिरेश्चोच्छ्रय़मागम्य तस्थौ तत्र स वानरः ||
४ ख
वैशम्पाय़न उवाच:
समुच्छ्रितमहाकाय़ो द्वितीय़ इव पर्वतः |
५ क
वैशम्पाय़न उवाच:
ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः |
५ ख
वैशम्पाय़न उवाच:
दीर्घलाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः ||
५ ग
वैशम्पाय़न उवाच:
तद्रूपं महदालक्ष्य भ्रातुः कौरवनन्दनः |
६ क
वैशम्पाय़न उवाच:
विसिस्मिय़े तदा भीमो जहृषे च पुनः पुनः ||
६ ख
वैशम्पाय़न उवाच:
तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम् |
७ क
वैशम्पाय़न उवाच:
प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलय़त् ||
७ ख
वैशम्पाय़न उवाच:
आवभाषे च हनुमान्भीमसेनं स्मय़न्निव |
८ क
वैशम्पाय़न उवाच:
एतावदिह शक्तस्त्वं रूपं द्रष्टुं ममानघ ||
८ ख
वैशम्पाय़न उवाच:
वर्धेऽहं चाप्यतो भूय़ो यावन्मे मनसेप्सितम् |
९ क
वैशम्पाय़न उवाच:
भीम शत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा ||
९ ख
वैशम्पाय़न उवाच:
तदद्भुतं महारौद्रं विन्ध्यमन्दरसंनिभम् |
१० क
वैशम्पाय़न उवाच:
दृष्ट्वा हनूमतो वर्ष्म सम्भ्रान्तः पवनात्मजः ||
१० ख
वैशम्पाय़न उवाच:
प्रत्युवाच ततो भीमः सम्प्रहृष्टतनूरुहः |
११ क
वैशम्पाय़न उवाच:
कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम् ||
११ ख
वैशम्पाय़न उवाच:
दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो |
१२ क
वैशम्पाय़न उवाच:
संहरस्व महावीर्य स्वय़मात्मानमात्मना ||
१२ ख
वैशम्पाय़न उवाच:
न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम् |
१३ क
वैशम्पाय़न उवाच:
अप्रमेय़मनाधृष्यं मैनाकमिव पर्वतम् ||
१३ ख
वैशम्पाय़न उवाच:
विस्मय़श्चैव मे वीर सुमहान्मनसोऽद्य वै |
१४ क
वैशम्पाय़न उवाच:
यद्रामस्त्वय़ि पार्श्वस्थे स्वय़ं रावणमभ्यगात् ||
१४ ख
वैशम्पाय़न उवाच:
त्वमेव शक्तस्तां लङ्कां सय़ोधां सहवाहनाम् |
१५ क
वैशम्पाय़न उवाच:
स्ववाहुवलमाश्रित्य विनाशय़ितुमोजसा ||
१५ ख
वैशम्पाय़न उवाच:
न हि ते किञ्चिदप्राप्यं मारुतात्मज विद्यते |
१६ क
वैशम्पाय़न उवाच:
तव नैकस्य पर्याप्तो रावणः सगणो युधि ||
१६ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु भीमेन हनूमान्प्लवगर्षभः |
१७ क
वैशम्पाय़न उवाच:
प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरय़ा गिरा ||
१७ ख
वैशम्पाय़न उवाच:
एवमेतन्महावाहो यथा वदसि भारत |
१८ क
वैशम्पाय़न उवाच:
भीमसेन न पर्याप्तो ममासौ राक्षसाधमः ||
१८ ख
वैशम्पाय़न उवाच:
मय़ा तु तस्मिन्निहते रावणे लोककण्टके |
१९ क
वैशम्पाय़न उवाच:
कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम् ||
१९ ख
वैशम्पाय़न उवाच:
तेन वीरेण हत्वा तु सगणं राक्षसाधिपम् |
२० क
वैशम्पाय़न उवाच:
आनीता स्वपुरं सीता लोके कीर्तिश्च स्थापिता ||
२० ख
वैशम्पाय़न उवाच:
तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रिय़हिते रतः |
२१ क
वैशम्पाय़न उवाच:
अरिष्टं क्षेममध्वानं वाय़ुना परिरक्षितः ||
२१ ख
वैशम्पाय़न उवाच:
एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय़ ते |
२२ क
वैशम्पाय़न उवाच:
द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः ||
२२ ख
वैशम्पाय़न उवाच:
न च ते तरसा कार्यः कुसुमावचय़ः स्वय़म् |
२३ क
वैशम्पाय़न उवाच:
दैवतानि हि मान्यानि पुरुषेण विशेषतः ||
२३ ख
वैशम्पाय़न उवाच:
वलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ |
२४ क
वैशम्पाय़न उवाच:
दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत ||
२४ ख
वैशम्पाय़न उवाच:
मा तात साहसं कार्षीः स्वधर्ममनुपालय़ |
२५ क
वैशम्पाय़न उवाच:
स्वधर्मस्थः परं धर्मं वुध्यस्वागमय़स्व च ||
२५ ख
वैशम्पाय़न उवाच:
न हि धर्ममविज्ञाय़ वृद्धाननुपसेव्य च |
२६ क
वैशम्पाय़न उवाच:
धर्मो वै वेदितुं शक्यो वृहस्पतिसमैरपि ||
२६ ख
वैशम्पाय़न उवाच:
अधर्मो यत्र धर्माख्यो धर्मश्चाधर्मसञ्ज्ञितः |
२७ क
वैशम्पाय़न उवाच:
विज्ञातव्यो विभागेन यत्र मुह्यन्त्यवुद्धय़ः ||
२७ ख
वैशम्पाय़न उवाच:
आचारसम्भवो धर्मो धर्माद्वेदाः समुत्थिताः |
२८ क
वैशम्पाय़न उवाच:
वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः ||
२८ ख
वैशम्पाय़न उवाच:
वेदाचारविधानोक्तैर्यज्ञैर्धार्यन्ति देवताः |
२९ क
वैशम्पाय़न उवाच:
वृहस्पत्युशनोक्तैश्च नय़ैर्धार्यन्ति मानवाः ||
२९ ख
वैशम्पाय़न उवाच:
पण्याकरवणिज्याभिः कृष्याथो योनिपोषणैः |
३० क
वैशम्पाय़न उवाच:
वार्तय़ा धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः ||
३० ख
वैशम्पाय़न उवाच:
त्रय़ी वार्ता दण्डनीतिस्तिस्रो विद्या विजानताम् |
३१ क
वैशम्पाय़न उवाच:
ताभिः सम्यक्प्रय़ुक्ताभिर्लोकय़ात्रा विधीय़ते ||
३१ ख
वैशम्पाय़न उवाच:
सा चेद्धर्मक्रिय़ा न स्यात्त्रय़ीधर्ममृते भुवि |
३२ क
वैशम्पाय़न उवाच:
दण्डनीतिमृते चापि निर्मर्यादमिदं भवेत् ||
३२ ख
वैशम्पाय़न उवाच:
वार्ताधर्मे ह्यवर्तन्त्यो विनश्येय़ुरिमाः प्रजाः |
३३ क
वैशम्पाय़न उवाच:
सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मैः सूय़न्ति वै प्रजाः ||
३३ ख
वैशम्पाय़न उवाच:
द्विजानाममृतं धर्मो ह्येकश्चैवैकवर्णिकः |
३४ क
वैशम्पाय़न उवाच:
यज्ञाध्ययनदानानि त्रय़ः साधारणाः स्मृताः ||
३४ ख
वैशम्पाय़न उवाच:
याजनाध्यापने चोभे व्राह्मणानां प्रतिग्रहः |
३५ क
वैशम्पाय़न उवाच:
पालनं क्षत्रिय़ाणां वै वैश्यधर्मश्च पोषणम् ||
३५ ख
वैशम्पाय़न उवाच:
शुश्रूषा तु द्विजातीनां शूद्राणां धर्म उच्यते |
३६ क
वैशम्पाय़न उवाच:
भैक्षहोमव्रतैर्हीनास्तथैव गुरुवासिनाम् ||
३६ ख
वैशम्पाय़न उवाच:
क्षत्रधर्मोऽत्र कौन्तेय़ तव धर्माभिरक्षणम् |
३७ क
वैशम्पाय़न उवाच:
स्वधर्मं प्रतिपद्यस्व विनीतो निय़तेन्द्रिय़ः ||
३७ ख
वैशम्पाय़न उवाच:
वृद्धैः संमन्त्र्य सद्भिश्च वुद्धिमद्भिः श्रुतान्वितैः |
३८ क
वैशम्पाय़न उवाच:
सुस्थितः शास्ति दण्डेन व्यसनी परिभूय़ते ||
३८ ख
वैशम्पाय़न उवाच:
निग्रहानुग्रहैः सम्यग्यदा राजा प्रवर्तते |
३९ क
वैशम्पाय़न उवाच:
तदा भवति लोकस्य मर्यादा सुव्यवस्थिता ||
३९ ख
वैशम्पाय़न उवाच:
तस्माद्देशे च दुर्गे च शत्रुमित्रवलेषु च |
४० क
वैशम्पाय़न उवाच:
नित्यं चारेण वोद्धव्यं स्थानं वृद्धिः क्षय़स्तथा ||
४० ख
वैशम्पाय़न उवाच:
राज्ञामुपाय़ाश्चत्वारो वुद्धिमन्त्रः पराक्रमः |
४१ क
वैशम्पाय़न उवाच:
निग्रहानुग्रहौ चैव दाक्ष्यं तत्कार्यसाधनम् ||
४१ ख
वैशम्पाय़न उवाच:
साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च |
४२ क
वैशम्पाय़न उवाच:
साधनीय़ानि कार्याणि समासव्यासय़ोगतः ||
४२ ख
वैशम्पाय़न उवाच:
मन्त्रमूला नय़ाः सर्वे चाराश्च भरतर्षभ |
४३ क
वैशम्पाय़न उवाच:
सुमन्त्रितैर्नय़ैः सिद्धिस्तद्विदैः सह मन्त्रय़ेत् ||
४३ ख
वैशम्पाय़न उवाच:
स्त्रिय़ा मूढेन लुव्धेन वालेन लघुना तथा |
४४ क
वैशम्पाय़न उवाच:
न मन्त्रय़ेत गुह्यानि येषु चोन्मादलक्षणम् ||
४४ ख
वैशम्पाय़न उवाच:
मन्त्रय़ेत्सह विद्वद्भिः शक्तैः कर्माणि कारय़ेत् |
४५ क
वैशम्पाय़न उवाच:
स्निग्धैश्च नीतिविन्यासान्मूर्खान्सर्वत्र वर्जय़ेत् ||
४५ ख
वैशम्पाय़न उवाच:
धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान् |
४६ क
वैशम्पाय़न उवाच:
स्त्रीषु क्लीवान्निय़ुञ्जीत क्रूरान्क्रूरेषु कर्मसु ||
४६ ख
वैशम्पाय़न उवाच:
स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा |
४७ क
वैशम्पाय़न उवाच:
वुद्धिः कर्मसु विज्ञेय़ा रिपूणां च वलावलम् ||
४७ ख
वैशम्पाय़न उवाच:
वुद्ध्या सुप्रतिपन्नेषु कुर्यात्साधुपरिग्रहम् |
४८ क
वैशम्पाय़न उवाच:
निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारय़ेत् ||
४८ ख
वैशम्पाय़न उवाच:
निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते |
४९ क
वैशम्पाय़न उवाच:
तदा भवति लोकस्य मर्यादा सुव्यवस्थिता ||
४९ ख
वैशम्पाय़न उवाच:
एष ते विहितः पार्थ घोरो धर्मो दुरन्वय़ः |
५० क