chevron_left उद्योग पर्व अध्याय ५९
वैशम्पाय़न उवाच:
सञ्जय़स्य वचः श्रुत्वा प्रज्ञाचक्षुर्नरेश्वरः |
१ क
वैशम्पाय़न उवाच:
ततः सङ्ख्यातुमारेभे तद्वचो गुणदोषतः ||
१ ख
वैशम्पाय़न उवाच:
प्रसङ्ख्याय़ च सौक्ष्म्येण गुणदोषान्विचक्षणः |
२ क
वैशम्पाय़न उवाच:
यथावन्मतितत्त्वेन जय़कामः सुतान्प्रति ||
२ ख
वैशम्पाय़न उवाच:
वलावले विनिश्चित्य याथातथ्येन वुद्धिमान् |
३ क
वैशम्पाय़न उवाच:
शक्तिं सङ्ख्यातुमारेभे तदा वै मनुजाधिपः ||
३ ख
वैशम्पाय़न उवाच:
देवमानुषय़ोः शक्त्या तेजसा चैव पाण्डवान् |
४ क
वैशम्पाय़न उवाच:
कुरूञ्शक्त्याल्पतरय़ा दुर्योधनमथाव्रवीत् ||
४ ख
वैशम्पाय़न उवाच:
दुर्योधनेय़ं चिन्ता मे शश्वन्नाप्युपशाम्यति |
५ क
वैशम्पाय़न उवाच:
सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः ||
५ ख
वैशम्पाय़न उवाच:
आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते |
६ क
वैशम्पाय़न उवाच:
प्रिय़ाणि चैषां कुर्वन्ति यथाशक्ति हितानि च ||
६ ख
वैशम्पाय़न उवाच:
एवमेवोपकर्तॄणां प्राय़शो लक्षय़ामहे |
७ क
वैशम्पाय़न उवाच:
इच्छन्ति वहुलं सन्तः प्रतिकर्तुं महत्प्रिय़म् ||
७ ख
वैशम्पाय़न उवाच:
अग्निः साचिव्यकर्ता स्यात्खाण्डवे तत्कृतं स्मरन् |
८ क
वैशम्पाय़न उवाच:
अर्जुनस्यातिभीमेऽस्मिन्कुरुपाण्डुसमागमे ||
८ ख
वैशम्पाय़न उवाच:
जातगृध्याभिपन्नाश्च पाण्डवानामनेकशः |
९ क
वैशम्पाय़न उवाच:
धर्मादय़ो भविष्यन्ति समाहूता दिवौकसः ||
९ ख
वैशम्पाय़न उवाच:
भीष्मद्रोणकृपादीनां भय़ादशनिसंमितम् |
१० क
वैशम्पाय़न उवाच:
रिरक्षिषन्तः संरम्भं गमिष्यन्तीति मे मतिः ||
१० ख
वैशम्पाय़न उवाच:
ते देवसहिताः पार्था न शक्याः प्रतिवीक्षितुम् |
११ क
वैशम्पाय़न उवाच:
मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः ||
११ ख
वैशम्पाय़न उवाच:
दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम् |
१२ क
वैशम्पाय़न उवाच:
वारुणौ चाक्षय़ौ दिव्यौ शरपूर्णौ महेषुधी ||
१२ ख
वैशम्पाय़न उवाच:
वानरश्च ध्वजो दिव्यो निःसङ्गो धूमवद्गतिः |
१३ क
वैशम्पाय़न उवाच:
रथश्च चतुरन्ताय़ां यस्य नास्ति समस्त्विषा ||
१३ ख
वैशम्पाय़न उवाच:
महामेघनिभश्चापि निर्घोषः श्रूय़ते जनैः |
१४ क
वैशम्पाय़न उवाच:
महाशनिसमः शव्दः शात्रवाणां भय़ङ्करः ||
१४ ख
वैशम्पाय़न उवाच:
यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति |
१५ क
वैशम्पाय़न उवाच:
देवानामपि जेतारं यं विदुः पार्थिवा रणे ||
१५ ख
वैशम्पाय़न उवाच:
शतानि पञ्च चैवेषूनुद्वपन्निव दृश्यते |
१६ क
वैशम्पाय़न उवाच:
निमेषान्तरमात्रेण मुञ्चन्दूरं च पातय़न् ||
१६ ख
वैशम्पाय़न उवाच:
यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च |
१७ क
वैशम्पाय़न उवाच:
मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः ||
१७ ख
वैशम्पाय़न उवाच:
युद्धाय़ावस्थितं पार्थं पार्थिवैरतिमानुषैः |
१८ क
वैशम्पाय़न उवाच:
अशक्यं रथशार्दूलं पराजेतुमरिन्दमम् ||
१८ ख
वैशम्पाय़न उवाच:
क्षिपत्येकेन वेगेन पञ्च वाणशतानि यः |
१९ क
वैशम्पाय़न उवाच:
सदृशं वाहुवीर्येण कार्तवीर्यस्य पाण्डवम् ||
१९ ख
वैशम्पाय़न उवाच:
तमर्जुनं महेष्वासं महेन्द्रोपेन्द्ररक्षितम् |
२० क
वैशम्पाय़न उवाच:
निघ्नन्तमिव पश्यामि विमर्देऽस्मिन्महामृधे ||
२० ख
वैशम्पाय़न उवाच:
इत्येवं चिन्तय़न्कृत्स्नमहोरात्राणि भारत |
२१ क
वैशम्पाय़न उवाच:
अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तय़ा ||
२१ ख
वैशम्पाय़न उवाच:
क्षय़ोदय़ोऽय़ं सुमहान्कुरूणां प्रत्युपस्थितः |
२२ क
वैशम्पाय़न उवाच:
अस्य चेत्कलहस्यान्तः शमादन्यो न विद्यते ||
२२ ख
वैशम्पाय़न उवाच:
शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः |
२३ क
वैशम्पाय़न उवाच:
कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ||
२३ ख