chevron_left भीष्म पर्व अध्याय ५९
सञ्जय़ उवाच:
तस्मिन्हते गजानीके पुत्रो दुर्योधनस्तव |
१ क
सञ्जय़ उवाच:
भीमसेनं घ्नतेत्येवं सर्वसैन्यान्यचोदय़त् ||
१ ख
सञ्जय़ उवाच:
ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात् |
२ क
सञ्जय़ उवाच:
अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् ||
२ ख
सञ्जय़ उवाच:
तं वलौघमपर्यन्तं देवैरपि दुरुत्सहम् |
३ क
सञ्जय़ उवाच:
आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि ||
३ ख
सञ्जय़ उवाच:
रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् |
४ क
सञ्जय़ उवाच:
अथानन्तमपारं च नरेन्द्रस्तिमितह्रदम् ||
४ ख
सञ्जय़ उवाच:
तं भीमसेनः समरे महोदधिमिवापरम् |
५ क
सञ्जय़ उवाच:
सेनासागरमक्षोभ्यं वेलेव समवारय़त् ||
५ ख
सञ्जय़ उवाच:
तदाश्चर्यमपश्याम श्रद्धेय़मपि चाद्भुतम् |
६ क
सञ्जय़ उवाच:
भीमसेनस्य समरे राजन्कर्मातिमानुषम् ||
६ ख
सञ्जय़ उवाच:
उदीर्णां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् |
७ क
सञ्जय़ उवाच:
असम्भ्रमं भीमसेनो गदय़ा समताडय़त् ||
७ ख
सञ्जय़ उवाच:
स संवार्य वलौघांस्तान्गदय़ा रथिनां वरः |
८ क
सञ्जय़ उवाच:
अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः ||
८ ख
सञ्जय़ उवाच:
तस्मिन्सुतुमुले घोरे काले परमदारुणे |
९ क
सञ्जय़ उवाच:
भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः ||
९ ख
सञ्जय़ उवाच:
द्रौपदेय़ाभिमन्युश्च शिखण्डी च महारथः |
१० क
सञ्जय़ उवाच:
न प्राजहन्भीमसेनं भय़े जाते महावलम् ||
१० ख
सञ्जय़ उवाच:
ततः शैक्याय़सीं गुर्वीं प्रगृह्य महतीं गदाम् |
११ क
सञ्जय़ उवाच:
अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः |
११ ख
सञ्जय़ उवाच:
पोथय़न्रथवृन्दानि वाजिवृन्दानि चाभिभूः ||
११ ग
सञ्जय़ उवाच:
व्यचरत्समरे भीमो युगान्ते पावको यथा |
१२ क
सञ्जय़ उवाच:
विनिघ्नन्समरे सर्वान्युगान्ते कालवद्विभुः ||
१२ ख
सञ्जय़ उवाच:
ऊरुवेगेन सङ्कर्षन्रथजालानि पाण्डवः |
१३ क
सञ्जय़ उवाच:
प्रमर्दय़न्गजान्सर्वान्नड्वलानीव कुञ्जरः ||
१३ ख
सञ्जय़ उवाच:
मृद्नन्रथेभ्यो रथिनो गजेभ्यो गजय़ोधिनः |
१४ क
सञ्जय़ उवाच:
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चैव पदातिनः ||
१४ ख
सञ्जय़ उवाच:
तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिः |
१५ क
सञ्जय़ उवाच:
रणाङ्गणं तदभवन्मृत्योराघातसंनिभम् ||
१५ ख
सञ्जय़ उवाच:
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् |
१६ क
सञ्जय़ उवाच:
यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् |
१६ ख
सञ्जय़ उवाच:
ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् ||
१६ ग
सञ्जय़ उवाच:
आविध्यतो गदां तस्य कौन्तेय़स्य महात्मनः |
१७ क
सञ्जय़ उवाच:
वभौ रूपं महाघोरं कालस्येव युगक्षय़े ||
१७ ख
सञ्जय़ उवाच:
तं तथा महतीं सेनां द्रावय़न्तं पुनः पुनः |
१८ क
सञ्जय़ उवाच:
दृष्ट्वा मृत्युमिवाय़ान्तं सर्वे विमनसोऽभवन् ||
१८ ख
सञ्जय़ उवाच:
यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः |
१९ क
सञ्जय़ उवाच:
तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत ||
१९ ख
सञ्जय़ उवाच:
प्रदारय़न्तं सैन्यानि वलौघेनापराजितम् |
२० क
सञ्जय़ उवाच:
ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ||
२० ख
सञ्जय़ उवाच:
तं तथा भीमकर्माणं प्रगृहीतमहागदम् |
२१ क
सञ्जय़ उवाच:
दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् ||
२१ ख
सञ्जय़ उवाच:
महता मेघघोषेण रथेनादित्यवर्चसा |
२२ क
सञ्जय़ उवाच:
छादय़ञ्शरवर्षेण पर्जन्य इव वृष्टिमान् ||
२२ ख
सञ्जय़ उवाच:
तमाय़ान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् |
२३ क
सञ्जय़ उवाच:
भीष्मं भीमो महावाहुः प्रत्युदीय़ादमर्षणः ||
२३ ख
सञ्जय़ उवाच:
तस्मिन्क्षणे सात्यकिः सत्यसन्धः; शिनिप्रवीरोऽभ्यपतत्पितामहम् |
२४ क
सञ्जय़ उवाच:
निघ्नन्नमित्रान्धनुषा दृढेन; स कम्पय़ंस्तव पुत्रस्य सेनाम् ||
२४ ख
सञ्जय़ उवाच:
तं यान्तमश्वै रजतप्रकाशैः; शरान्धमन्तं धनुषा दृढेन |
२५ क
सञ्जय़ उवाच:
नाशक्नुवन्वारय़ितुं तदानीं; सर्वे गणा भारत ये त्वदीय़ाः ||
२५ ख
सञ्जय़ उवाच:
अविध्यदेनं निशितैः शराग्रै; रलम्वुसो राजवरार्श्यशृङ्गिः |
२६ क
सञ्जय़ उवाच:
तं वै चतुर्भिः प्रतिविध्य वीरो; नप्ता शिनेरभ्यपतद्रथेन ||
२६ ख
सञ्जय़ उवाच:
अन्वागतं वृष्णिवरं निशम्य; मध्ये रिपूणां परिवर्तमानम् |
२७ क
सञ्जय़ उवाच:
प्रावर्तय़न्तं कुरुपुङ्गवांश्च; पुनः पुनश्च प्रणदन्तमाजौ ||
२७ ख
सञ्जय़ उवाच:
नाशक्नुवन्वारय़ितुं वरिष्ठं; मध्यन्दिने सूर्यमिवातपन्तम् |
२८ क
सञ्जय़ उवाच:
न तत्र कश्चिन्नविषण्ण आसी; दृते राजन्सोमदत्तस्य पुत्रात् ||
२८ ख
सञ्जय़ उवाच:
स ह्याददानो धनुरुग्रवेगं; भूरिश्रवा भारत सौमदत्तिः |
२९ क
सञ्जय़ उवाच:
दृष्ट्वा रथान्स्वान्व्यपनीय़माना; न्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् ||
२९ ख