chevron_left द्रोण पर्व अध्याय १४९
सञ्जय़ उवाच:
दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति |
१ क
सञ्जय़ उवाच:
प्रय़ान्तं त्वरर्या युक्तं जिघांसुं कर्णमाहवे ||
१ ख
सञ्जय़ उवाच:
अव्रवीत्तव पुत्रस्तु दुःशासनमिदं वचः |
२ क
सञ्जय़ उवाच:
एतद्रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम् ||
२ ख
सञ्जय़ उवाच:
अभिय़ाति द्रुतं कर्णं तद्वारय़ महारथम् |
३ क
सञ्जय़ उवाच:
वृतः सैन्येन महता याहि यत्र महावलः ||
३ ख
सञ्जय़ उवाच:
कर्णो वैकर्तनो युद्धे राक्षसेन युय़ुत्सति |
४ क
सञ्जय़ उवाच:
रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद ||
४ ख
सञ्जय़ उवाच:
एतस्मिन्नन्तरे राजञ्जटासुरसुतो वली |
५ क
सञ्जय़ उवाच:
दुर्योधनमुपागम्य प्राह प्रहरतां वरः ||
५ ख
सञ्जय़ उवाच:
दुर्योधन तवामित्रान्प्रख्यातान्युद्धदुर्मदान् |
६ क
सञ्जय़ उवाच:
पाण्डवान्हन्तुमिच्छामि त्वय़ाज्ञप्तः सहानुगान् ||
६ ख
सञ्जय़ उवाच:
जटासुरो मम पिता रक्षसामग्रणीः पुरा |
७ क
सञ्जय़ उवाच:
प्रय़ुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थैर्निपातितः |
७ ख
सञ्जय़ उवाच:
तस्यापचितिमिच्छामि त्वद्दिष्टो गन्तुमीश्वर ||
७ ग
सञ्जय़ उवाच:
तमव्रवीत्ततो राजा प्रीय़माणः पुनः पुनः |
८ क
सञ्जय़ उवाच:
द्रोणकर्णादिभिः सार्धं पर्याप्तोऽहं द्विषद्वधे |
८ ख
सञ्जय़ उवाच:
त्वं तु गच्छ मय़ाज्ञप्तो जहि युद्धं घटोत्कचम् ||
८ ग
सञ्जय़ उवाच:
तथेत्युक्त्वा महाकाय़ः समाहूय़ घटोत्कचम् |
९ क
सञ्जय़ उवाच:
जटासुरिर्भैमसेनिं नानाशस्त्रैरवाकिरत् ||
९ ख
सञ्जय़ उवाच:
अलम्वलं च कर्णं च कुरुसैन्यं च दुस्तरम् |
१० क
सञ्जय़ उवाच:
हैडिम्वः प्रममाथैको महावातोऽम्वुदानिव ||
१० ख
सञ्जय़ उवाच:
ततो माय़ामय़ं दृष्ट्वा रथं तूर्णमलम्वलः |
११ क
सञ्जय़ उवाच:
घटोत्कचं शरव्रातैर्नानालिङ्गैः समार्दय़त् ||
११ ख
सञ्जय़ उवाच:
विद्ध्वा च वहुभिर्वाणैर्भैमसेनिमलम्वलः |
१२ क
सञ्जय़ उवाच:
व्यद्रावय़च्छरव्रातैः पाण्डवानामनीकिनीम् ||
१२ ख
सञ्जय़ उवाच:
तेन विद्राव्यमाणानि पाण्डुसैन्यानि मारिष |
१३ क
सञ्जय़ उवाच:
निशीथे विप्रकीर्यन्त वातनुन्ना घना इव ||
१३ ख
सञ्जय़ उवाच:
घटोत्कचशरैर्नुन्ना तथैव कुरुवाहिनी |
१४ क
सञ्जय़ उवाच:
निशीथे प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ||
१४ ख
सञ्जय़ उवाच:
अलम्वलस्ततः क्रुद्धो भैमसेनिं महामृधे |
१५ क
सञ्जय़ उवाच:
आजघ्ने निशितैर्वाणैस्तोत्त्रैरिव महाद्विपम् ||
१५ ख
सञ्जय़ उवाच:
तिलशस्तस्य तद्यानं सूतं सर्वाय़ुधानि च |
१६ क
सञ्जय़ उवाच:
घटोत्कचः प्रचिच्छेद प्राणदच्चातिदारुणम् ||
१६ ख
सञ्जय़ उवाच:
ततः कर्णं शरव्रातैः कुरूनन्यान्सहस्रशः |
१७ क
सञ्जय़ उवाच:
अलम्वलं चाभ्यवर्षन्मेघो मेरुमिवाचलम् ||
१७ ख
सञ्जय़ उवाच:
ततः सञ्चुक्षुभे सैन्यं कुरूणां राक्षसार्दितम् |
१८ क
सञ्जय़ उवाच:
उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह ||
१८ ख
सञ्जय़ उवाच:
जटासुरिर्महाराज विरथो हतसारथिः |
१९ क
सञ्जय़ उवाच:
घटोत्कचं रणे क्रुद्धो मुष्टिनाभ्यहनद्दृढम् ||
१९ ख
सञ्जय़ उवाच:
मुष्टिनाभिहतस्तेन प्रचचाल घटोत्कचः |
२० क
सञ्जय़ उवाच:
क्षितिकम्पे यथा शैलः सवृक्षगणगुल्मवान् ||
२० ख
सञ्जय़ उवाच:
ततः स परिघाभेन द्विट्सङ्घघ्नेन वाहुना |
२१ क
सञ्जय़ उवाच:
जटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम् ||
२१ ख
सञ्जय़ उवाच:
तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्विराक्षिपत् |
२२ क
सञ्जय़ उवाच:
दोर्भ्यामिन्द्रध्वजाभाभ्यां निष्पिपेष महीतले ||
२२ ख
सञ्जय़ उवाच:
अलम्वलोऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम् |
२३ क
सञ्जय़ उवाच:
घटोत्कचं रणे रोषान्निष्पिपेष महीतले ||
२३ ख
सञ्जय़ उवाच:
तय़ोः समभवद्युद्धं गर्जतोरतिकाय़योः |
२४ क
सञ्जय़ उवाच:
घटोत्कचालम्वलय़ोस्तुमुलं लोमहर्षणम् ||
२४ ख
सञ्जय़ उवाच:
विशेषय़न्तावन्योन्यं माय़ाभिरतिमाय़िनौ |
२५ क
सञ्जय़ उवाच:
युय़ुधाते महावीर्याविन्द्रवैरोचनाविव ||
२५ ख
सञ्जय़ उवाच:
पावकाम्वुनिधी भूत्वा पुनर्गरुडतक्षकौ |
२६ क
सञ्जय़ उवाच:
पुनर्मेघमहावातौ पुनर्वज्रमहाचलौ |
२६ ख
सञ्जय़ उवाच:
पुनः कुञ्जरशार्दूलौ पुनः स्वर्भानुभास्करौ ||
२६ ग
सञ्जय़ उवाच:
एवं माय़ाशतसृजावन्योन्यवधकाङ्क्षिणौ |
२७ क
सञ्जय़ उवाच:
भृशं चित्रमय़ुध्येतामलम्वलघटोत्कचौ ||
२७ ख
सञ्जय़ उवाच:
परिघैश्च गदाभिश्च प्रासमुद्गरपट्टिशैः |
२८ क
सञ्जय़ उवाच:
मुसलैः पर्वताग्रैश्च तावन्योन्यं निजघ्नतुः ||
२८ ख
सञ्जय़ उवाच:
हय़ाभ्यां च गजाभ्यां च पदातिरथिनौ पुनः |
२९ क
सञ्जय़ उवाच:
युय़ुधाते महामाय़ौ राक्षसप्रवरौ युधि ||
२९ ख
सञ्जय़ उवाच:
ततो घटोत्कचो राजन्नलम्वलवधेप्सय़ा |
३० क
सञ्जय़ उवाच:
उत्पपात भृशं क्रुद्धः श्येनवन्निपपात ह ||
३० ख
सञ्जय़ उवाच:
गृहीत्वा च महाकाय़ं राक्षसेन्द्रमलम्वलम् |
३१ क
सञ्जय़ उवाच:
उद्यम्य न्यवधीद्भूमौ मय़ं विष्णुरिवाहवे ||
३१ ख
सञ्जय़ उवाच:
ततो घटोत्कचः खड्गमुद्गृह्याद्भुतदर्शनम् |
३२ क
सञ्जय़ उवाच:
चकर्त काय़ाद्धि शिरो भीमं विकृतदर्शनम् ||
३२ ख
सञ्जय़ उवाच:
तच्छिरो रुधिराभ्यक्तं गृह्य केशेषु राक्षसः |
३३ क
सञ्जय़ उवाच:
घटोत्कचो यय़ावाशु दुर्योधनरथं प्रति ||
३३ ख
सञ्जय़ उवाच:
अभ्येत्य च महावाहुः स्मय़मानः स राक्षसः |
३४ क
सञ्जय़ उवाच:
रथेऽस्य निक्षिप्य शिरो विकृताननमूर्धजम् |
३४ ख
सञ्जय़ उवाच:
प्राणदद्भैरवं नादं प्रावृषीव वलाहकः ||
३४ ग
सञ्जय़ उवाच:
अव्रवीच्च ततो राजन्दुर्योधनमिदं वचः |
३५ क
सञ्जय़ उवाच:
एष ते निहतो वन्धुस्त्वय़ा दृष्टोऽस्य विक्रमः |
३५ ख
सञ्जय़ उवाच:
पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथात्मनः ||
३५ ग
सञ्जय़ उवाच:
एवमुक्त्वा ततः प्राय़ात्कर्णं प्रति जनेश्वर |
३६ क
सञ्जय़ उवाच:
किरञ्शरशतांस्तीक्ष्णान्विमुञ्चन्कर्णमूर्धनि ||
३६ ख
सञ्जय़ उवाच:
ततः समभवद्युद्धं घोररूपं भय़ानकम् |
३७ क
सञ्जय़ उवाच:
विस्मापनं महाराज नरराक्षसय़ोर्मृधे ||
३७ ख