chevron_left शल्य पर्व अध्याय ५९
धृतराष्ट्र उवाच:
अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः |
१ क
धृतराष्ट्र उवाच:
किमव्रवीत्तदा सूत वलदेवो महावलः ||
१ ख
धृतराष्ट्र उवाच:
गदाय़ुद्धविशेषज्ञो गदाय़ुद्धविशारदः |
२ क
धृतराष्ट्र उवाच:
कृतवान्रौहिणेय़ो यत्तन्ममाचक्ष्व सञ्जय़ ||
२ ख
सञ्जय़ उवाच:
शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम् |
३ क
सञ्जय़ उवाच:
रामः प्रहरतां श्रेष्ठश्चुक्रोध वलवद्वली ||
३ ख
सञ्जय़ उवाच:
ततो मध्ये नरेन्द्राणामूर्ध्ववाहुर्हलाय़ुधः |
४ क
सञ्जय़ उवाच:
कुर्वन्नार्तस्वरं घोरं धिग्धिग्भीमेत्युवाच ह ||
४ ख
सञ्जय़ उवाच:
अहो धिग्यदधो नाभेः प्रहृतं शुद्धविक्रमे |
५ क
सञ्जय़ उवाच:
नैतद्दृष्टं गदाय़ुद्धे कृतवान्यद्वृकोदरः ||
५ ख
सञ्जय़ उवाच:
अधो नाभ्या न हन्तव्यमिति शास्त्रस्य निश्चय़ः |
६ क
सञ्जय़ उवाच:
अय़ं त्वशास्त्रविन्मूढः स्वच्छन्दात्सम्प्रवर्तते ||
६ ख
सञ्जय़ उवाच:
तस्य तत्तद्व्रुवाणस्य रोषः समभवन्महान् |
७ क
सञ्जय़ उवाच:
ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्वली ||
७ ख
सञ्जय़ उवाच:
तस्योर्ध्ववाहोः सदृशं रूपमासीन्महात्मनः |
८ क
सञ्जय़ उवाच:
वहुधातुविचित्रस्य श्वेतस्येव महागिरेः ||
८ ख
सञ्जय़ उवाच:
तमुत्पतन्तं जग्राह केशवो विनय़ानतः |
९ क
सञ्जय़ उवाच:
वाहुभ्यां पीनवृत्ताभ्यां प्रय़त्नाद्वलवद्वली ||
९ ख
सञ्जय़ उवाच:
सितासितौ यदुवरौ शुशुभातेऽधिकं ततः |
१० क
सञ्जय़ उवाच:
नभोगतौ यथा राजंश्चन्द्रसूर्यौ दिनक्षय़े ||
१० ख
सञ्जय़ उवाच:
उवाच चैनं संरव्धं शमय़न्निव केशवः |
११ क
सञ्जय़ उवाच:
आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदय़स्तथा |
११ ख
सञ्जय़ उवाच:
विपरीतं द्विषत्स्वेतत्षड्विधा वृद्धिरात्मनः ||
११ ग
सञ्जय़ उवाच:
आत्मन्यपि च मित्रेषु विपरीतं यदा भवेत् |
१२ क
सञ्जय़ उवाच:
तदा विद्यान्मनोज्यानिमाशु शान्तिकरो भवेत् ||
१२ ख
सञ्जय़ उवाच:
अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः |
१३ क
सञ्जय़ उवाच:
स्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम् ||
१३ ख
सञ्जय़ उवाच:
प्रतिज्ञापारणं धर्मः क्षत्रिय़स्येति वेत्थ ह |
१४ क
सञ्जय़ उवाच:
सुय़ोधनस्य गदय़ा भङ्क्तास्म्यूरू महाहवे |
१४ ख
सञ्जय़ उवाच:
इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले ||
१४ ग
सञ्जय़ उवाच:
मैत्रेय़ेणाभिशप्तश्च पूर्वमेव महर्षिणा |
१५ क
सञ्जय़ उवाच:
ऊरू भेत्स्यति ते भीमो गदय़ेति परन्तप |
१५ ख
सञ्जय़ उवाच:
अतो दोषं न पश्यामि मा क्रुधस्त्वं प्रलम्वहन् ||
१५ ग
सञ्जय़ उवाच:
यौनैर्हार्दैश्च सम्वन्धैः सम्वद्धाः स्मेह पाण्डवैः |
१६ क
सञ्जय़ उवाच:
तेषां वृद्ध्याभिवृद्धिर्नो मा क्रुधः पुरुषर्षभ ||
१६ ख
राम उवाच:
धर्मः सुचरितः सद्भिः सह द्वाभ्यां निय़च्छति |
१७ क
राम उवाच:
अर्थश्चात्यर्थलुव्धस्य कामश्चातिप्रसङ्गिनः ||
१७ ख
राम उवाच:
धर्मार्थौ धर्मकामौ च कामार्थौ चाप्यपीडय़न् |
१८ क
राम उवाच:
धर्मार्थकामान्योऽभ्येति सोऽत्यन्तं सुखमश्नुते ||
१८ ख
राम उवाच:
तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात् |
१९ क
राम उवाच:
भीमसेनेन गोविन्द कामं त्वं तु यथात्थ माम् ||
१९ ख
वासुदेव उवाच:
अरोषणो हि धर्मात्मा सततं धर्मवत्सलः |
२० क
वासुदेव उवाच:
भवान्प्रख्याय़ते लोके तस्मात्संशाम्य मा क्रुधः ||
२० ख
वासुदेव उवाच:
प्राप्तं कलिय़ुगं विद्धि प्रतिज्ञां पाण्डवस्य च |
२१ क
वासुदेव उवाच:
आनृण्यं यातु वैरस्य प्रतिज्ञाय़ाश्च पाण्डवः ||
२१ ख
सञ्जय़ उवाच:
धर्मच्छलमपि श्रुत्वा केशवात्स विशां पते |
२२ क
सञ्जय़ उवाच:
नैव प्रीतमना रामो वचनं प्राह संसदि ||
२२ ख
सञ्जय़ उवाच:
हत्वाधर्मेण राजानं धर्मात्मानं सुय़ोधनम् |
२३ क
सञ्जय़ उवाच:
जिह्मय़ोधीति लोकेऽस्मिन्ख्यातिं यास्यति पाण्डवः ||
२३ ख
सञ्जय़ उवाच:
दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम् |
२४ क
सञ्जय़ उवाच:
ऋजुय़ोधी हतो राजा धार्तराष्ट्रो नराधिपः ||
२४ ख
सञ्जय़ उवाच:
युद्धदीक्षां प्रविश्याजौ रणय़ज्ञं वितत्य च |
२५ क
सञ्जय़ उवाच:
हुत्वात्मानममित्राग्नौ प्राप चावभृथं यशः ||
२५ ख
सञ्जय़ उवाच:
इत्युक्त्वा रथमास्थाय़ रौहिणेय़ः प्रतापवान् |
२६ क
सञ्जय़ उवाच:
श्वेताभ्रशिखराकारः प्रय़यौ द्वारकां प्रति ||
२६ ख
सञ्जय़ उवाच:
पाञ्चालाश्च सवार्ष्णेय़ाः पाण्डवाश्च विशां पते |
२७ क
सञ्जय़ उवाच:
रामे द्वारवतीं याते नातिप्रमनसोऽभवन् ||
२७ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम् |
२८ क
सञ्जय़ उवाच:
शोकोपहतसङ्कल्पं वासुदेवोऽव्रवीदिदम् ||
२८ ख
सञ्जय़ उवाच:
धर्मराज किमर्थं त्वमधर्ममनुमन्यसे |
२९ क
सञ्जय़ उवाच:
हतवन्धोर्यदेतस्य पतितस्य विचेतसः ||
२९ ख
सञ्जय़ उवाच:
दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा |
३० क
सञ्जय़ उवाच:
उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप ||
३० ख
युधिष्ठिर उवाच:
न ममैतत्प्रिय़ं कृष्ण यद्राजानं वृकोदरः |
३१ क
युधिष्ठिर उवाच:
पदा मूर्ध्न्यस्पृशत्क्रोधान्न च हृष्ये कुलक्षय़े ||
३१ ख
युधिष्ठिर उवाच:
निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वय़म् |
३२ क
युधिष्ठिर उवाच:
वहूनि परुषाण्युक्त्वा वनं प्रस्थापिताः स्म ह ||
३२ ख
युधिष्ठिर उवाच:
भीमसेनस्य तद्दुःखमतीव हृदि वर्तते |
३३ क
युधिष्ठिर उवाच:
इति सञ्चिन्त्य वार्ष्णेय़ मय़ैतत्समुपेक्षितम् ||
३३ ख
युधिष्ठिर उवाच:
तस्माद्धत्वाकृतप्रज्ञं लुव्धं कामवशानुगम् |
३४ क
युधिष्ठिर उवाच:
लभतां पाण्डवः कामं धर्मेऽधर्मेऽपि वा कृते ||
३४ ख
सञ्जय़ उवाच:
इत्युक्ते धर्मराजेन वासुदेवोऽव्रवीदिदम् |
३५ क
सञ्जय़ उवाच:
काममस्त्वेवमिति वै कृच्छ्राद्यदुकुलोद्वहः ||
३५ ख
सञ्जय़ उवाच:
इत्युक्तो वासुदेवेन भीमप्रिय़हितैषिणा |
३६ क
सञ्जय़ उवाच:
अन्वमोदत तत्सर्वं यद्भीमेन कृतं युधि ||
३६ ख
सञ्जय़ उवाच:
भीमसेनोऽपि हत्वाजौ तव पुत्रममर्षणः |
३७ क
सञ्जय़ उवाच:
अभिवाद्याग्रतः स्थित्वा सम्प्रहृष्टः कृताञ्जलिः ||
३७ ख
सञ्जय़ उवाच:
प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम् |
३८ क
सञ्जय़ उवाच:
हर्षादुत्फुल्लनय़नो जितकाशी विशां पते ||
३८ ख
सञ्जय़ उवाच:
तवाद्य पृथिवी राजन्क्षेमा निहतकण्टका |
३९ क
सञ्जय़ उवाच:
तां प्रशाधि महाराज स्वधर्ममनुपालय़न् ||
३९ ख
सञ्जय़ उवाच:
यस्तु कर्तास्य वैरस्य निकृत्या निकृतिप्रिय़ः |
४० क
सञ्जय़ उवाच:
सोऽय़ं विनिहतः शेते पृथिव्यां पृथिवीपते ||
४० ख
सञ्जय़ उवाच:
दुःशासनप्रभृतय़ः सर्वे ते चोग्रवादिनः |
४१ क
सञ्जय़ उवाच:
राधेय़ः शकुनिश्चापि निहतास्तव शत्रवः ||
४१ ख
सञ्जय़ उवाच:
सेय़ं रत्नसमाकीर्णा मही सवनपर्वता |
४२ क
सञ्जय़ उवाच:
उपावृत्ता महाराज त्वामद्य निहतद्विषम् ||
४२ ख
युधिष्ठिर उवाच:
गतं वैरस्य निधनं हतो राजा सुय़ोधनः |
४३ क
युधिष्ठिर उवाच:
कृष्णस्य मतमास्थाय़ विजितेय़ं वसुन्धरा ||
४३ ख
युधिष्ठिर उवाच:
दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभय़ोः |
४४ क
युधिष्ठिर उवाच:
दिष्ट्या जय़सि दुर्धर्ष दिष्ट्या शत्रुर्निपातितः ||
४४ ख