धृतराष्ट्र उवाच:
द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ |
१ क
धृतराष्ट्र उवाच:
अकुर्वतां भोजकृपौ किं सञ्जय़ वदस्व मे ||
१ ख
सञ्जय़ उवाच:
कृतवर्माणमामन्त्र्य कृपं च स महारथम् |
२ क
सञ्जय़ उवाच:
द्रौणिर्मन्युपरीतात्मा शिविरद्वारमासदत् ||
२ ख
सञ्जय़ उवाच:
तत्र भूतं महाकाय़ं चन्द्रार्कसदृशद्युतिम् |
३ क
सञ्जय़ उवाच:
सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं लोमहर्षणम् ||
३ ख
सञ्जय़ उवाच:
वसानं चर्म वैय़ाघ्रं महारुधिरविस्रवम् |
४ क
सञ्जय़ उवाच:
कृष्णाजिनोत्तरासङ्गं नागय़ज्ञोपवीतिनम् ||
४ ख
सञ्जय़ उवाच:
वाहुभिः स्वाय़तैः पीनैर्नानाप्रहरणोद्यतैः |
५ क
सञ्जय़ उवाच:
वद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम् ||
५ ख
सञ्जय़ उवाच:
दंष्ट्राकरालवदनं व्यादितास्यं भय़ावहम् |
६ क
सञ्जय़ उवाच:
नय़नानां सहस्रैश्च विचित्रैरभिभूषितम् ||
६ ख
सञ्जय़ उवाच:
नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव वा |
७ क
सञ्जय़ उवाच:
सर्वथा तु तदालक्ष्य स्फुटेय़ुरपि पर्वताः ||
७ ख
सञ्जय़ उवाच:
तस्यास्यान्नासिकाभ्यां च श्रवणाभ्यां च सर्वशः |
८ क
सञ्जय़ उवाच:
तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः ||
८ ख
सञ्जय़ उवाच:
तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः |
९ क
सञ्जय़ उवाच:
प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः ||
९ ख
सञ्जय़ उवाच:
तदत्यद्भुतमालोक्य भूतं लोकभय़ङ्करम् |
१० क
सञ्जय़ उवाच:
द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत् ||
१० ख
सञ्जय़ उवाच:
द्रौणिमुक्ताञ्शरांस्तांस्तु तद्भूतं महदग्रसत् |
११ क
सञ्जय़ उवाच:
उदधेरिव वार्योघान्पावको वडवामुखः ||
११ ख
सञ्जय़ उवाच:
अश्वत्थामा तु सम्प्रेक्ष्य ताञ्शरौघान्निरर्थकान् |
१२ क
सञ्जय़ उवाच:
रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव ||
१२ ख
सञ्जय़ उवाच:
सा तदाहत्य दीप्ताग्रा रथशक्तिरशीर्यत |
१३ क
सञ्जय़ उवाच:
युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता ||
१३ ख
सञ्जय़ उवाच:
अथ हेमत्सरुं दिव्यं खड्गमाकाशवर्चसम् |
१४ क
सञ्जय़ उवाच:
कोशात्समुद्ववर्हाशु विलाद्दीप्तमिवोरगम् ||
१४ ख
सञ्जय़ उवाच:
ततः खड्गवरं धीमान्भूताय़ प्राहिणोत्तदा |
१५ क
सञ्जय़ उवाच:
स तदासाद्य भूतं वै विलय़ं तूलवद्ययौ ||
१५ ख
सञ्जय़ उवाच:
ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम् |
१६ क
सञ्जय़ उवाच:
ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत् ||
१६ ख
सञ्जय़ उवाच:
ततः सर्वाय़ुधाभावे वीक्षमाणस्ततस्ततः |
१७ क
सञ्जय़ उवाच:
अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः ||
१७ ख
सञ्जय़ उवाच:
तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निराय़ुधः |
१८ क
सञ्जय़ उवाच:
अव्रवीदभिसन्तप्तः कृपवाक्यमनुस्मरन् ||
१८ ख
सञ्जय़ उवाच:
व्रुवतामप्रिय़ं पथ्यं सुहृदां न शृणोति यः |
१९ क
सञ्जय़ उवाच:
स शोचत्यापदं प्राप्य यथाहमतिवर्त्य तौ ||
१९ ख
सञ्जय़ उवाच:
शास्त्रदृष्टानवध्यान्यः समतीत्य जिघांसति |
२० क
सञ्जय़ उवाच:
स पथः प्रच्युतो धर्म्यात्कुपथं प्रतिपद्यते ||
२० ख
सञ्जय़ उवाच:
गोव्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा |
२१ क
सञ्जय़ उवाच:
वृद्धवालजडान्धेषु सुप्तभीतोत्थितेषु च ||
२१ ख
सञ्जय़ उवाच:
मत्तोन्मत्तप्रमत्तेषु न शस्त्राण्युपधारय़ेत् |
२२ क
सञ्जय़ उवाच:
इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा ||
२२ ख
सञ्जय़ उवाच:
सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम् |
२३ क
सञ्जय़ उवाच:
अमार्गेणैवमारभ्य घोरामापदमागतः ||
२३ ख
सञ्जय़ उवाच:
तां चापदं घोरतरां प्रवदन्ति मनीषिणः |
२४ क
सञ्जय़ उवाच:
यदुद्यम्य महत्कृत्यं भय़ादपि निवर्तते ||
२४ ख
सञ्जय़ उवाच:
अशक्यं चैव कः कर्तुं शक्तः शक्तिवलादिह |
२५ क
सञ्जय़ उवाच:
न हि दैवाद्गरीय़ो वै मानुषं कर्म कथ्यते ||
२५ ख
सञ्जय़ उवाच:
मानुषं कुर्वतः कर्म यदि दैवान्न सिध्यति |
२६ क
सञ्जय़ उवाच:
स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते ||
२६ ख
सञ्जय़ उवाच:
प्रतिघातं ह्यविज्ञातं प्रवदन्ति मनीषिणः |
२७ क
सञ्जय़ उवाच:
यदारभ्य क्रिय़ां काञ्चिद्भय़ादिह निवर्तते ||
२७ ख
सञ्जय़ उवाच:
तदिदं दुष्प्रणीतेन भय़ं मां समुपस्थितम् |
२८ क
सञ्जय़ उवाच:
न हि द्रोणसुतः सङ्ख्ये निवर्तेत कथञ्चन ||
२८ ख
सञ्जय़ उवाच:
इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम् |
२९ क
सञ्जय़ उवाच:
न चैतदभिजानामि चिन्तय़न्नपि सर्वथा ||
२९ ख
सञ्जय़ उवाच:
ध्रुवं येय़मधर्मे मे प्रवृत्ता कलुषा मतिः |
३० क
सञ्जय़ उवाच:
तस्याः फलमिदं घोरं प्रतिघाताय़ दृश्यते ||
३० ख
सञ्जय़ उवाच:
तदिदं दैवविहितं मम सङ्ख्ये निवर्तनम् |
३१ क
सञ्जय़ उवाच:
नान्यत्र दैवादुद्यन्तुमिह शक्यं कथञ्चन ||
३१ ख
सञ्जय़ उवाच:
सोऽहमद्य महादेवं प्रपद्ये शरणं प्रभुम् |
३२ क
सञ्जय़ उवाच:
दैवदण्डमिमं घोरं स हि मे नाशय़िष्यति ||
३२ ख
सञ्जय़ उवाच:
कपर्दिनं प्रपद्याथ देवदेवमुमापतिम् |
३३ क
सञ्जय़ उवाच:
कपालमालिनं रुद्रं भगनेत्रहरं हरम् ||
३३ ख
सञ्जय़ उवाच:
स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च |
३४ क
सञ्जय़ उवाच:
तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम् ||
३४ ख