वैशम्पाय़न उवाच:
एतावदुक्त्वा देवर्षिर्विरराम स नारदः |
१ क
वैशम्पाय़न उवाच:
युधिष्ठिरस्तु राजर्षिर्दध्यौ शोकपरिप्लुतः ||
१ ख
वैशम्पाय़न उवाच:
तं दीनमनसं वीरमधोवदनमातुरम् |
२ क
वैशम्पाय़न उवाच:
निःश्वसन्तं यथा नागं पर्यश्रुनय़नं तथा ||
२ ख
वैशम्पाय़न उवाच:
कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना |
३ क
वैशम्पाय़न उवाच:
अव्रवीन्मधुराभाषा काले वचनमर्थवत् ||
३ ख
वैशम्पाय़न उवाच:
युधिष्ठिर महावाहो नैनं शोचितुमर्हसि |
४ क
वैशम्पाय़न उवाच:
जहि शोकं महाप्राज्ञ शृणु चेदं वचो मम ||
४ ख
वैशम्पाय़न उवाच:
यतितः स मय़ा पूर्वं भ्रात्र्यं ज्ञापय़ितुं तव |
५ क
वैशम्पाय़न उवाच:
भास्करेण च देवेन पित्रा धर्मभृतां वर ||
५ ख
वैशम्पाय़न उवाच:
यद्वाच्यं हितकामेन सुहृदा भूतिमिच्छता |
६ क
वैशम्पाय़न उवाच:
तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः ||
६ ख
वैशम्पाय़न उवाच:
न चैनमशकद्भानुरहं वा स्नेहकारणैः |
७ क
वैशम्पाय़न उवाच:
पुरा प्रत्यनुनेतुं वा नेतुं वाप्येकतां त्वय़ा ||
७ ख
वैशम्पाय़न उवाच:
ततः कालपरीतः स वैरस्योद्धुक्षणे रतः |
८ क
वैशम्पाय़न उवाच:
प्रतीपकारी युष्माकमिति चोपेक्षितो मय़ा ||
८ ख
वैशम्पाय़न उवाच:
इत्युक्तो धर्मराजस्तु मात्रा वाष्पाकुलेक्षणः |
९ क
वैशम्पाय़न उवाच:
उवाच वाक्यं धर्मात्मा शोकव्याकुलचेतनः ||
९ ख
वैशम्पाय़न उवाच:
भवत्या गूढमन्त्रत्वात्पीडितोऽस्मीत्युवाच ताम् |
१० क
वैशम्पाय़न उवाच:
शशाप च महातेजाः सर्वलोकेषु च स्त्रिय़ः |
१० ख
वैशम्पाय़न उवाच:
न गुह्यं धारय़िष्यन्तीत्यतिदुःखसमन्वितः ||
१० ग
वैशम्पाय़न उवाच:
स राजा पुत्रपौत्राणां सम्वन्धिसुहृदां तथा |
११ क
वैशम्पाय़न उवाच:
स्मरन्नुद्विग्नहृदय़ो वभूवास्वस्थचेतनः ||
११ ख
वैशम्पाय़न उवाच:
ततः शोकपरीतात्मा सधूम इव पावकः |
१२ क
वैशम्पाय़न उवाच:
निर्वेदमकरोद्धीमान्राजा सन्तापपीडितः ||
१२ ख