chevron_left आश्रमवासिक पर्व अध्याय ६
युधिष्ठिर उवाच:
न मां प्रीणय़ते राज्यं त्वय़्येवं दुःखिते नृप |
१ क
युधिष्ठिर उवाच:
धिङ्मामस्तु सुदुर्वुद्धिं राज्यसक्तं प्रमादिनम् ||
१ ख
युधिष्ठिर उवाच:
योऽहं भवन्तं दुःखार्तमुपवासकृशं नृप |
२ क
युधिष्ठिर उवाच:
यताहारं क्षितिशय़ं नाविन्दं भ्रातृभिः सह ||
२ ख
युधिष्ठिर उवाच:
अहोऽस्मि वञ्चितो मूढो भवता गूढवुद्धिना |
३ क
युधिष्ठिर उवाच:
विश्वासय़ित्वा पूर्वं मां यदिदं दुःखमश्नुथाः ||
३ ख
युधिष्ठिर उवाच:
किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा |
४ क
युधिष्ठिर उवाच:
यस्य मे त्वं महीपाल दुःखान्येतान्यवाप्तवान् ||
४ ख
युधिष्ठिर उवाच:
पीडितं चापि जानामि राज्यमात्मानमेव च |
५ क
युधिष्ठिर उवाच:
अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर ||
५ ख
युधिष्ठिर उवाच:
भवान्पिता भवान्माता भवान्नः परमो गुरुः |
६ क
युधिष्ठिर उवाच:
भवता विप्रहीणा हि क्व नु तिष्ठामहे वय़म् ||
६ ख
युधिष्ठिर उवाच:
औरसो भवतः पुत्रो युय़ुत्सुर्नृपसत्तम |
७ क
युधिष्ठिर उवाच:
अस्तु राजा महाराज यं चान्यं मन्यते भवान् ||
७ ख
युधिष्ठिर उवाच:
अहं वनं गमिष्यामि भवान्राज्यं प्रशास्त्विदम् |
८ क
युधिष्ठिर उवाच:
न मामय़शसा दग्धं भूय़स्त्वं दग्धुमर्हसि ||
८ ख
युधिष्ठिर उवाच:
नाहं राजा भवान्राजा भवता परवानहम् |
९ क
युधिष्ठिर उवाच:
कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे ||
९ ख
युधिष्ठिर उवाच:
न मन्युर्हृदि नः कश्चिद्दुर्योधनकृतेऽनघ |
१० क
युधिष्ठिर उवाच:
भवितव्यं तथा तद्धि वय़ं ते चैव मोहिताः ||
१० ख
युधिष्ठिर उवाच:
वय़ं हि पुत्रा भवतो यथा दुर्योधनादय़ः |
११ क
युधिष्ठिर उवाच:
गान्धारी चैव कुन्ती च निर्विशेषे मते मम ||
११ ख
युधिष्ठिर उवाच:
स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि |
१२ क
युधिष्ठिर उवाच:
पृष्ठतस्त्वानुय़ास्यामि सत्येनात्मानमालभे ||
१२ ख
युधिष्ठिर उवाच:
इय़ं हि वसुसम्पूर्णा मही सागरमेखला |
१३ क
युधिष्ठिर उवाच:
भवता विप्रहीणस्य न मे प्रीतिकरी भवेत् ||
१३ ख
युधिष्ठिर उवाच:
भवदीय़मिदं सर्वं शिरसा त्वां प्रसादय़े |
१४ क
युधिष्ठिर उवाच:
त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः ||
१४ ख
युधिष्ठिर उवाच:
भवितव्यमनुप्राप्तं मन्ये त्वां तज्जनाधिप |
१५ क
युधिष्ठिर उवाच:
दिष्ट्या शुश्रूषमाणस्त्वां मोक्ष्यामि मनसो ज्वरम् ||
१५ ख
धृतराष्ट्र उवाच:
तापस्ये मे मनस्तात वर्तते कुरुनन्दन |
१६ क
धृतराष्ट्र उवाच:
उचितं हि कुलेऽस्माकमरण्यगमनं प्रभो ||
१६ ख
धृतराष्ट्र उवाच:
चिरमस्म्युषितः पुत्र चिरं शुश्रूषितस्त्वय़ा |
१७ क
धृतराष्ट्र उवाच:
वृद्धं मामभ्यनुज्ञातुं त्वमर्हसि जनाधिप ||
१७ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा धर्मराजानं वेपमानः कृताञ्जलिम् |
१८ क
वैशम्पाय़न उवाच:
उवाच वचनं राजा धृतराष्ट्रोऽम्विकासुतः ||
१८ ख
वैशम्पाय़न उवाच:
सञ्जय़ं च महामात्रं कृपं चापि महारथम् |
१९ क
वैशम्पाय़न उवाच:
अनुनेतुमिहेच्छामि भवद्भिः पृथिवीपतिम् ||
१९ ख
वैशम्पाय़न उवाच:
ग्लाय़ते मे मनो हीदं मुखं च परिशुष्यति |
२० क
वैशम्पाय़न उवाच:
वय़सा च प्रकृष्टेन वाग्व्याय़ामेन चैव हि ||
२० ख
वैशम्पाय़न उवाच:
इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः |
२१ क
वैशम्पाय़न उवाच:
गान्धारीं शिश्रिय़े धीमान्सहसैव गतासुवत् ||
२१ ख
वैशम्पाय़न उवाच:
तं तु दृष्ट्वा तथासीनं निश्चेष्टं कुरुपार्थिवम् |
२२ क
वैशम्पाय़न उवाच:
आर्तिं राजा यय़ौ तूर्णं कौन्तेय़ः परवीरहा ||
२२ ख
युधिष्ठिर उवाच:
यस्य नागसहस्रेण दशसङ्ख्येन वै वलम् |
२३ क
युधिष्ठिर उवाच:
सोऽय़ं नारीमुपाश्रित्य शेते राजा गतासुवत् ||
२३ ख
युधिष्ठिर उवाच:
आय़सी प्रतिमा येन भीमसेनस्य वै पुरा |
२४ क
युधिष्ठिर उवाच:
चूर्णीकृता वलवता स वलार्थी श्रितः स्त्रिय़म् ||
२४ ख
युधिष्ठिर उवाच:
धिगस्तु मामधर्मज्ञं धिग्वुद्धिं धिक्च मे श्रुतम् |
२५ क
युधिष्ठिर उवाच:
यत्कृते पृथिवीपालः शेतेऽय़मतथोचितः ||
२५ ख
युधिष्ठिर उवाच:
अहमप्युपवत्स्यामि यथैवाय़ं गुरुर्मम |
२६ क
युधिष्ठिर उवाच:
यदि राजा न भुङ्क्तेऽय़ं गान्धारी च यशस्विनी ||
२६ ख
वैशम्पाय़न उवाच:
ततोऽस्य पाणिना राजा जलशीतेन पाण्डवः |
२७ क
वैशम्पाय़न उवाच:
उरो मुखं च शनकैः पर्यमार्जत धर्मवित् ||
२७ ख
वैशम्पाय़न उवाच:
तेन रत्नौषधिमता पुण्येन च सुगन्धिना |
२८ क
वैशम्पाय़न उवाच:
पाणिस्पर्शेन राज्ञस्तु राजा सञ्ज्ञामवाप ह ||
२८ ख