वैशम्पाय़न उवाच:
दारुकोऽपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान् |
१ क
वैशम्पाय़न उवाच:
आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान् ||
१ ख
वैशम्पाय़न उवाच:
श्रुत्वा विनष्टान्वार्ष्णेय़ान्सभोजकुकुरान्धकान् |
२ क
वैशम्पाय़न उवाच:
पाण्डवाः शोकसन्तप्ता वित्रस्तमनसोऽभवन् ||
२ ख
वैशम्पाय़न उवाच:
ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रिय़ः सखा |
३ क
वैशम्पाय़न उवाच:
प्रय़यौ मातुलं द्रष्टुं नेदमस्तीति चाव्रवीत् ||
३ ख
वैशम्पाय़न उवाच:
स वृष्णिनिलय़ं गत्वा दारुकेण सह प्रभो |
४ क
वैशम्पाय़न उवाच:
ददर्श द्वारकां वीरो मृतनाथामिव स्त्रिय़म् ||
४ ख
वैशम्पाय़न उवाच:
याः स्म ता लोकनाथेन नाथवत्यः पुराभवन् |
५ क
वैशम्पाय़न उवाच:
तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः ||
५ ख
वैशम्पाय़न उवाच:
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः |
६ क
वैशम्पाय़न उवाच:
तासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम् ||
६ ख
वैशम्पाय़न उवाच:
तास्तु दृष्ट्वैव कौरव्यो वाष्पेण पिहितोऽर्जुनः |
७ क
वैशम्पाय़न उवाच:
हीनाः कृष्णेन पुत्रैश्च नाशकत्सोऽभिवीक्षितुम् ||
७ ख
वैशम्पाय़न उवाच:
तां स वृष्ण्यन्धकजलां हय़मीनां रथोडुपाम् |
८ क
वैशम्पाय़न उवाच:
वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम् ||
८ ख
वैशम्पाय़न उवाच:
रत्नशैवलसङ्घाटां वज्रप्राकारमालिनीम् |
९ क
वैशम्पाय़न उवाच:
रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम् ||
९ ख
वैशम्पाय़न उवाच:
रामकृष्णमहाग्राहां द्वारकासरितं तदा |
१० क
वैशम्पाय़न उवाच:
कालपाशग्रहां घोरां नदीं वैतरणीमिव ||
१० ख
वैशम्पाय़न उवाच:
तां ददर्शार्जुनो धीमान्विहीनां वृष्णिपुङ्गवैः |
११ क
वैशम्पाय़न उवाच:
गतश्रिय़ं निरानन्दां पद्मिनीं शिशिरे यथा ||
११ ख
वैशम्पाय़न उवाच:
तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः |
१२ क
वैशम्पाय़न उवाच:
सस्वनं वाष्पमुत्सृज्य निपपात महीतले ||
१२ ख
वैशम्पाय़न उवाच:
सात्राजिती ततः सत्या रुक्मिणी च विशां पते |
१३ क
वैशम्पाय़न उवाच:
अभिपत्य प्ररुरुदुः परिवार्य धनञ्जय़म् ||
१३ ख
वैशम्पाय़न उवाच:
ततस्ताः काञ्चने पीठे समुत्थाय़ोपवेश्य च |
१४ क
वैशम्पाय़न उवाच:
अव्रुवन्त्यो महात्मानं परिवार्योपतस्थिरे ||
१४ ख
वैशम्पाय़न उवाच:
ततः संस्तूय़ गोविन्दं कथय़ित्वा च पाण्डवः |
१५ क
वैशम्पाय़न उवाच:
आश्वास्य ताः स्त्रिय़श्चापि मातुलं द्रष्टुमभ्यगात् ||
१५ ख