chevron_left सभा पर्व अध्याय ६
वैशम्पाय़न उवाच:
सम्पूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम् |
१ क
वैशम्पाय़न उवाच:
प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः ||
१ ख
वैशम्पाय़न उवाच:
भगवन्न्याय़्यमाहैतं यथावद्धर्मनिश्चय़म् |
२ क
वैशम्पाय़न उवाच:
यथाशक्ति यथान्याय़ं क्रिय़तेऽय़ं विधिर्मय़ा ||
२ ख
वैशम्पाय़न उवाच:
राजभिर्यद्यथा कार्यं पुरा तत्तन्न संशय़ः |
३ क
वैशम्पाय़न उवाच:
यथान्याय़ोपनीतार्थं कृतं हेतुमदर्थवत् ||
३ ख
वैशम्पाय़न उवाच:
वय़ं तु सत्पथं तेषां यातुमिच्छामहे प्रभो |
४ क
वैशम्पाय़न उवाच:
न तु शक्यं तथा गन्तुं यथा तैर्निय़तात्मभिः ||
४ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च |
५ क
वैशम्पाय़न उवाच:
मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम् ||
५ ख
वैशम्पाय़न उवाच:
नारदं स्वस्थमासीनमुपासीनो युधिष्ठिरः |
६ क
वैशम्पाय़न उवाच:
अपृच्छत्पाण्डवस्तत्र राजमध्ये महामतिः ||
६ ख
वैशम्पाय़न उवाच:
भवान्सञ्चरते लोकान्सदा नानाविधान्वहून् |
७ क
वैशम्पाय़न उवाच:
व्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः ||
७ ख
वैशम्पाय़न उवाच:
ईदृशी भवता काचिद्दृष्टपूर्वा सभा क्वचित् |
८ क
वैशम्पाय़न उवाच:
इतो वा श्रेय़सी व्रह्मंस्तन्ममाचक्ष्व पृच्छतः ||
८ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम् |
९ क
वैशम्पाय़न उवाच:
पाण्डवं प्रत्युवाचेदं स्मय़न्मधुरय़ा गिरा ||
९ ख
वैशम्पाय़न उवाच:
मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता |
१० क
वैशम्पाय़न उवाच:
सभा मणिमय़ी राजन्यथेय़ं तव भारत ||
१० ख
वैशम्पाय़न उवाच:
सभां तु पितृराजस्य वरुणस्य च धीमतः |
११ क
वैशम्पाय़न उवाच:
कथय़िष्ये तथेन्द्रस्य कैलासनिलय़स्य च ||
११ ख
वैशम्पाय़न उवाच:
व्रह्मणश्च सभां दिव्यां कथय़िष्ये गतक्लमाम् |
१२ क
वैशम्पाय़न उवाच:
यदि ते श्रवणे वुद्धिर्वर्तते भरतर्षभ ||
१२ ख
वैशम्पाय़न उवाच:
नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः |
१३ क
वैशम्पाय़न उवाच:
प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्नृपैर्वृतः ||
१३ ख
वैशम्पाय़न उवाच:
नारदं प्रत्युवाचेदं धर्मराजो महामनाः |
१४ क
वैशम्पाय़न उवाच:
सभाः कथय़ ताः सर्वाः श्रोतुमिच्छामहे वय़म् ||
१४ ख
वैशम्पाय़न उवाच:
किन्द्रव्यास्ताः सभा व्रह्मन्किंविस्ताराः किमाय़ताः |
१५ क
वैशम्पाय़न उवाच:
पितामहं च के तस्यां सभाय़ां पर्युपासते ||
१५ ख
वैशम्पाय़न उवाच:
वासवं देवराजं च यमं वैवस्वतं च के |
१६ क
वैशम्पाय़न उवाच:
वरुणं च कुवेरं च सभाय़ां पर्युपासते ||
१६ ख
वैशम्पाय़न उवाच:
एतत्सर्वं यथातत्त्वं देवर्षे वदतस्तव |
१७ क
वैशम्पाय़न उवाच:
श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः ||
१७ ख
वैशम्पाय़न उवाच:
एवमुक्तः पाण्डवेन नारदः प्रत्युवाच तम् |
१८ क
वैशम्पाय़न उवाच:
क्रमेण राजन्दिव्यास्ताः श्रूय़न्तामिह नः सभाः ||
१८ ख