वैशम्पाय़न उवाच:
पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः |
१ क
वैशम्पाय़न उवाच:
प्रय़युर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः ||
१ ख
वैशम्पाय़न उवाच:
सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते |
२ क
वैशम्पाय़न उवाच:
यय़ुर्वनेनैव वनं सततं पश्चिमां दिशम् ||
२ ख
वैशम्पाय़न उवाच:
ततः सरस्वतीकूले समेषु मरुधन्वसु |
३ क
वैशम्पाय़न उवाच:
काम्यकं नाम ददृशुर्वनं मुनिजनप्रिय़म् ||
३ ख
वैशम्पाय़न उवाच:
तत्र ते न्यवसन्वीरा वने वहुमृगद्विजे |
४ क
वैशम्पाय़न उवाच:
अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत ||
४ ख
वैशम्पाय़न उवाच:
विदुरस्त्वपि पाण्डूनां तदा दर्शनलालसः |
५ क
वैशम्पाय़न उवाच:
जगामैकरथेनैव काम्यकं वनमृद्धिमत् ||
५ ख
वैशम्पाय़न उवाच:
ततो यात्वा विदुरः काननं त; च्छीघ्रैरश्वैर्वाहिना स्यन्दनेन |
६ क
वैशम्पाय़न उवाच:
ददर्शासीनं धर्मराजं विविक्ते; सार्धं द्रौपद्या भ्रातृभिर्व्राह्मणैश्च ||
६ ख
वैशम्पाय़न उवाच:
ततोऽपश्यद्विदुरं तूर्णमारा; दभ्याय़ान्तं सत्यसन्धः स राजा |
७ क
वैशम्पाय़न उवाच:
अथाव्रवीद्भ्रातरं भीमसेनं; किं नु क्षत्ता वक्ष्यति नः समेत्य ||
७ ख
वैशम्पाय़न उवाच:
कच्चिन्नाय़ं वचनात्सौवलस्य; समाह्वाता देवनाय़ोपय़ाति |
८ क
वैशम्पाय़न उवाच:
कच्चित्क्षुद्रः शकुनिर्नाय़ुधानि; जेष्यत्यस्मान्पुनरेवाक्षवत्याम् ||
८ ख
वैशम्पाय़न उवाच:
समाहूतः केनचिदाद्रवेति; नाहं शक्तो भीमसेनापय़ातुम् |
९ क
वैशम्पाय़न उवाच:
गाण्डीवे वा संशय़िते कथं चि; द्राज्यप्राप्तिः संशय़िता भवेन्नः ||
९ ख
वैशम्पाय़न उवाच:
तत उत्थाय़ विदुरं पाण्डवेय़ाः; प्रत्यगृह्णन्नृपते सर्व एव |
१० क
वैशम्पाय़न उवाच:
तैः सत्कृतः स च तानाजमीढो; यथोचितं पाण्डुपुत्रान्समेय़ात् ||
१० ख
वैशम्पाय़न उवाच:
समाश्वस्तं विदुरं ते नरर्षभा; स्ततोऽपृच्छन्नागमनाय़ हेतुम् |
११ क
वैशम्पाय़न उवाच:
स चापि तेभ्यो विस्तरतः शशंस; यथावृत्तो धृतराष्ट्रोऽऽम्विकेय़ः ||
११ ख
विदुर उवाच:
अवोचन्मां धृतराष्ट्रोऽनुगुप्त; मजातशत्रो परिगृह्याभिपूज्य |
१२ क
विदुर उवाच:
एवं गते समतामभ्युपेत्य; पथ्यं तेषां मम चैव व्रवीहि ||
१२ ख
विदुर उवाच:
मय़ाप्युक्तं यत्क्षमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव |
१३ क
विदुर उवाच:
तद्वै पथ्यं तन्मनो नाभ्युपैति; ततश्चाहं क्षममन्यन्न मन्ये ||
१३ ख
विदुर उवाच:
परं श्रेय़ः पाण्डवेय़ा मय़ोक्तं; न मे तच्च श्रुतवानाम्विकेय़ः |
१४ क
विदुर उवाच:
यथातुरस्येव हि पथ्यमन्नं; न रोचते स्मास्य तदुच्यमानम् ||
१४ ख
विदुर उवाच:
न श्रेय़से नीय़तेऽजातशत्रो; स्त्री श्रोत्रिय़स्येव गृहे प्रदुष्टा |
१५ क
विदुर उवाच:
व्रुवन्न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः ||
१५ ख
विदुर उवाच:
ध्रुवं विनाशो नृप कौरवाणां; न वै श्रेय़ो धृतराष्ट्रः परैति |
१६ क
विदुर उवाच:
यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत्पथ्यमुक्तं तथास्मिन् ||
१६ ख
विदुर उवाच:
ततः क्रुद्धो धृतराष्ट्रोऽव्रवीन्मां; यत्र श्रद्धा भारत तत्र याहि |
१७ क
विदुर उवाच:
नाहं भूय़ः कामय़े त्वां सहाय़ं; महीमिमां पालय़ितुं पुरं वा ||
१७ ख
विदुर उवाच:
सोऽहं त्यक्तो धृतराष्ट्रेण राजं; स्त्वां शासितुमुपय़ातस्त्वरावान् |
१८ क
विदुर उवाच:
तद्वै सर्वं यन्मय़ोक्तं सभाय़ां; तद्धार्यतां यत्प्रवक्ष्यामि भूय़ः ||
१८ ख
विदुर उवाच:
क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः; क्षमां कुर्वन्कालमुपासते यः |
१९ क
विदुर उवाच:
सं वर्धय़न्स्तोकमिवाग्निमात्मवा; न्स वै भुङ्क्ते पृथिवीमेक एव ||
१९ ख
विदुर उवाच:
यस्याविभक्तं वसु राजन्सहाय़ै; स्तस्य दुःखेऽप्यंशभाजः सहाय़ाः |
२० क
विदुर उवाच:
सहाय़ानामेष सङ्ग्रहणेऽभ्युपाय़ः; सहाय़ाप्तौ पृथिवीप्राप्तिमाहुः ||
२० ख
विदुर उवाच:
सत्यं श्रेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भोज्यं सहाय़ैः |
२१ क
विदुर उवाच:
आत्मा चैषामग्रतो नातिवर्ते; देवंवृत्तिर्वर्धते भूमिपालः ||
२१ ख
युधिष्ठिर उवाच:
एवं करिष्यामि यथा व्रवीषि; परां वुद्धिमुपगम्याप्रमत्तः |
२२ क
युधिष्ठिर उवाच:
यच्चाप्यन्यद्देशकालोपपन्नं; तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् ||
२२ ख