वैशम्पाय़न उवाच:
ततो विराटं प्रथमं युधिष्ठिरो; राजा सभाय़ामुपविष्टमाव्रजत् |
१ क
वैशम्पाय़न उवाच:
वैडूर्यरूपान्प्रतिमुच्य काञ्चना; नक्षान्स कक्षे परिगृह्य वाससा ||
१ ख
वैशम्पाय़न उवाच:
नराधिपो राष्ट्रपतिं यशस्विनं; महाय़शाः कौरववंशवर्धनः |
२ क
वैशम्पाय़न उवाच:
महानुभावो नरराजसत्कृतो; दुरासदस्तीक्ष्णविषो यथोरगः ||
२ ख
वैशम्पाय़न उवाच:
वालेन रूपेण नरर्षभो महा; नथार्चिरूपेण यथामरस्तथा |
३ क
वैशम्पाय़न उवाच:
महाभ्रजालैरिव संवृतो रवि; र्यथानलो भस्मवृतश्च वीर्यवान् ||
३ ख
वैशम्पाय़न उवाच:
तमापतन्तं प्रसमीक्ष्य पाण्डवं; विराटराडिन्दुमिवाभ्रसंवृतम् |
४ क
वैशम्पाय़न उवाच:
मन्त्रिद्विजान्सूतमुखान्विशस्तथा; ये चापि केचित्परिषत्समासते |
४ ख
वैशम्पाय़न उवाच:
पप्रच्छ कोऽय़ं प्रथमं समेय़िवा; ननेन योऽय़ं प्रसमीक्षते सभाम् ||
४ ग
वैशम्पाय़न उवाच:
न तु द्विजोऽय़ं भविता नरोत्तमः; पतिः पृथिव्या इति मे मनोगतम् |
५ क
वैशम्पाय़न उवाच:
न चास्य दासो न रथो न कुण्डले; समीपतो भ्राजति चाय़मिन्द्रवत् ||
५ ख
वैशम्पाय़न उवाच:
शरीरलिङ्गैरुपसूचितो ह्ययं; मूर्धाभिषिक्तोऽय़मितीव मानसम् |
६ क
वैशम्पाय़न उवाच:
समीपमाय़ाति च मे गतव्यथो; यथा गजस्तामरसीं मदोत्कटः ||
६ ख
वैशम्पाय़न उवाच:
वितर्कय़न्तं तु नरर्षभस्तदा; युधिष्ठिरोऽभ्येत्य विराटमव्रवीत् |
७ क
वैशम्पाय़न उवाच:
सम्राड्विजानात्विह जीवितार्थिनं; विनष्टसर्वस्वमुपागतं द्विजम् ||
७ ख
वैशम्पाय़न उवाच:
इहाहमिच्छामि तवानघान्तिके; वस्तुं यथा कामचरस्तथा विभो |
८ क
वैशम्पाय़न उवाच:
तमव्रवीत्स्वागतमित्यनन्तरं; राजा प्रहृष्टः प्रतिसङ्गृहाण च ||
८ ख
वैशम्पाय़न उवाच:
कामेन ताताभिवदाम्यहं त्वां; कस्यासि राज्ञो विषय़ादिहागतः |
९ क
वैशम्पाय़न उवाच:
गोत्रं च नामापि च शंस तत्त्वतः; किं चापि शिल्पं तव विद्यते कृतम् ||
९ ख
युधिष्ठिर उवाच:
युधिष्ठिरस्यासमहं पुरा सखा; वैय़ाघ्रपद्यः पुनरस्मि व्राह्मणः |
१० क
युधिष्ठिर उवाच:
अक्षान्प्रवप्तुं कुशलोऽस्मि देविता; कङ्केति नाम्नास्मि विराट विश्रुतः ||
१० ख
विराट उवाच:
ददामि ते हन्त वरं यमिच्छसि; प्रशाधि मत्स्यान्वशगो ह्यहं तव |
११ क
विराट उवाच:
प्रिय़ा हि धूर्ता मम देविनः सदा; भवांश्च देवोपम राज्यमर्हति ||
११ ख
युधिष्ठिर उवाच:
आप्तो विवादः परमो विशां पते; न विद्यते किञ्चन मत्स्य हीनतः |
१२ क
युधिष्ठिर उवाच:
न मे जितः कश्चन धारय़ेद्धनं; वरो ममैषोऽस्तु तव प्रसादतः ||
१२ ख
विराट उवाच:
हन्यामवध्यं यदि तेऽप्रिय़ं चरे; त्प्रव्राजय़ेय़ं विषय़ाद्द्विजांस्तथा |
१३ क
विराट उवाच:
शृण्वन्तु मे जानपदाः समागताः; कङ्को यथाहं विषय़े प्रभुस्तथा ||
१३ ख
विराट उवाच:
समानय़ानो भवितासि मे सखा; प्रभूतवस्त्रो वहुपानभोजनः |
१४ क
विराट उवाच:
पश्येस्त्वमन्तश्च वहिश्च सर्वदा; कृतं च ते द्वारमपावृतं मय़ा ||
१४ ख
विराट उवाच:
ये त्वानुवादेय़ुरवृत्तिकर्शिता; व्रूय़ाश्च तेषां वचनेन मे सदा |
१५ क
विराट उवाच:
दास्यामि सर्वं तदहं न संशय़ो; न ते भय़ं विद्यति संनिधौ मम ||
१५ ख
वैशम्पाय़न उवाच:
एवं स लव्ध्वा तु वरं समागमं; विराटराजेन नरर्षभस्तदा |
१६ क
वैशम्पाय़न उवाच:
उवास वीरः परमार्चितः सुखी; न चापि कश्चिच्चरितं वुवोध तत् ||
१६ ख