सञ्जय़ उवाच:
ततः क्रुद्धा महाराज सौवलस्य पदानुगाः |
१ क
सञ्जय़ उवाच:
त्यक्त्वा जीवितमाक्रन्दे पाण्डवान्पर्यवारय़न् ||
१ ख
सञ्जय़ उवाच:
तानर्जुनः प्रत्यगृह्णात्सहदेवजय़े धृतः |
२ क
सञ्जय़ उवाच:
भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः ||
२ ख
सञ्जय़ उवाच:
शक्त्यृष्टिप्रासहस्तानां सहदेवं जिघांसताम् |
३ क
सञ्जय़ उवाच:
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जय़ः ||
३ ख
सञ्जय़ उवाच:
प्रगृहीताय़ुधान्वाहून्योधानामभिधावताम् |
४ क
सञ्जय़ उवाच:
भल्लैश्चिच्छेद वीभत्सुः शिरांस्यपि हय़ानपि ||
४ ख
सञ्जय़ उवाच:
ते हताः प्रत्यपद्यन्त वसुधां विगतासवः |
५ क
सञ्जय़ उवाच:
त्वरिता लोकवीरेण प्रहताः सव्यसाचिना ||
५ ख
सञ्जय़ उवाच:
ततो दुर्योधनो राजा दृष्ट्वा स्ववलसङ्क्षय़म् |
६ क
सञ्जय़ उवाच:
हतशेषान्समानीय़ क्रुद्धो रथशतान्विभो ||
६ ख
सञ्जय़ उवाच:
कुञ्जरांश्च हय़ांश्चैव पादातांश्च परन्तप |
७ क
सञ्जय़ उवाच:
उवाच सहितान्सर्वान्धार्तराष्ट्र इदं वचः ||
७ ख
सञ्जय़ उवाच:
समासाद्य रणे सर्वान्पाण्डवान्ससुहृद्गणान् |
८ क
सञ्जय़ उवाच:
पाञ्चाल्यं चापि सवलं हत्वा शीघ्रं निवर्तत ||
८ ख
सञ्जय़ उवाच:
तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः |
९ क
सञ्जय़ उवाच:
प्रत्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात् ||
९ ख
सञ्जय़ उवाच:
तानभ्यापततः शीघ्रं हतशेषान्महारणे |
१० क
सञ्जय़ उवाच:
शरैराशीविषाकारैः पाण्डवाः समवाकिरन् ||
१० ख
सञ्जय़ उवाच:
तत्सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः |
११ क
सञ्जय़ उवाच:
अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत |
११ ख
सञ्जय़ उवाच:
प्रतिष्ठमानं तु भय़ान्नावतिष्ठत दंशितम् ||
११ ग
सञ्जय़ उवाच:
अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते |
१२ क
सञ्जय़ उवाच:
न प्राज्ञाय़न्त समरे दिशश्च प्रदिशस्तथा ||
१२ ख
सञ्जय़ उवाच:
ततस्तु पाण्डवानीकान्निःसृत्य वहवो जनाः |
१३ क
सञ्जय़ उवाच:
अभ्यघ्नंस्तावकान्युद्धे मुहूर्तादिव भारत |
१३ ख
सञ्जय़ उवाच:
ततो निःशेषमभवत्तत्सैन्यं तव भारत ||
१३ ग
सञ्जय़ उवाच:
अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत |
१४ क
सञ्जय़ उवाच:
एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जय़ैः ||
१४ ख
सञ्जय़ उवाच:
तेषु राजसहस्रेषु तावकेषु महात्मसु |
१५ क
सञ्जय़ उवाच:
एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः ||
१५ ख
सञ्जय़ उवाच:
ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम् |
१६ क
सञ्जय़ उवाच:
विहीनः सर्वय़ोधैश्च पाण्डवान्वीक्ष्य संय़ुगे ||
१६ ख
सञ्जय़ उवाच:
मुदितान्सर्वसिद्धार्थान्नर्दमानान्समन्ततः |
१७ क
सञ्जय़ उवाच:
वाणशव्दरवांश्चैव श्रुत्वा तेषां महात्मनाम् ||
१७ ख
सञ्जय़ उवाच:
दुर्योधनो महाराज कश्मलेनाभिसंवृतः |
१८ क
सञ्जय़ उवाच:
अपय़ाने मनश्चक्रे विहीनवलवाहनः ||
१८ ख
धृतराष्ट्र उवाच:
निहते मामके सैन्ये निःशेषे शिविरे कृते |
१९ क
धृतराष्ट्र उवाच:
पाण्डवानां वलं सूत किं नु शेषमभूत्तदा |
१९ ख
धृतराष्ट्र उवाच:
एतन्मे पृच्छतो व्रूहि कुशलो ह्यसि सञ्जय़ ||
१९ ग
धृतराष्ट्र उवाच:
यच्च दुर्योधनो मन्दः कृतवांस्तनय़ो मम |
२० क
धृतराष्ट्र उवाच:
वलक्षय़ं तथा दृष्ट्वा स एकः पृथिवीपतिः ||
२० ख
सञ्जय़ उवाच:
रथानां द्वे सहस्रे तु सप्त नागशतानि च |
२१ क
सञ्जय़ उवाच:
पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः ||
२१ ख
सञ्जय़ उवाच:
एतच्छेषमभूद्राजन्पाण्डवानां महद्वलम् |
२२ क
सञ्जय़ उवाच:
परिगृह्य हि यद्युद्धे धृष्टद्युम्नो व्यवस्थितः ||
२२ ख
सञ्जय़ उवाच:
एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः |
२३ क
सञ्जय़ उवाच:
नापश्यत्समरे कञ्चित्सहाय़ं रथिनां वरः ||
२३ ख
सञ्जय़ उवाच:
नर्दमानान्परांश्चैव स्ववलस्य च सङ्क्षय़म् |
२४ क
सञ्जय़ उवाच:
हतं स्वहय़मुत्सृज्य प्राङ्मुखः प्राद्रवद्भय़ात् ||
२४ ख
सञ्जय़ उवाच:
एकादशचमूभर्ता पुत्रो दुर्योधनस्तव |
२५ क
सञ्जय़ उवाच:
गदामादाय़ तेजस्वी पदातिः प्रस्थितो ह्रदम् ||
२५ ख
सञ्जय़ उवाच:
नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः |
२६ क
सञ्जय़ उवाच:
सस्मार वचनं क्षत्तुर्धर्मशीलस्य धीमतः ||
२६ ख
सञ्जय़ उवाच:
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा |
२७ क
सञ्जय़ उवाच:
महद्वैशसमस्माकं क्षत्रिय़ाणां च संय़ुगे ||
२७ ख
सञ्जय़ उवाच:
एवं विचिन्तय़ानस्तु प्रविविक्षुर्ह्रदं नृपः |
२८ क
सञ्जय़ उवाच:
दुःखसन्तप्तहृदय़ो दृष्ट्वा राजन्वलक्षय़म् ||
२८ ख
सञ्जय़ उवाच:
पाण्डवाश्च महाराज धृष्टद्युम्नपुरोगमाः |
२९ क
सञ्जय़ उवाच:
अभ्यधावन्त सङ्क्रुद्धास्तव राजन्वलं प्रति ||
२९ ख
सञ्जय़ उवाच:
शक्त्यृष्टिप्रासहस्तानां वलानामभिगर्जताम् |
३० क
सञ्जय़ उवाच:
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जय़ः ||
३० ख
सञ्जय़ उवाच:
तान्हत्वा निशितैर्वाणैः सामात्यान्सह वन्धुभिः |
३१ क
सञ्जय़ उवाच:
रथे श्वेतहय़े तिष्ठन्नर्जुनो वह्वशोभत ||
३१ ख
सञ्जय़ उवाच:
सुवलस्य हते पुत्रे सवाजिरथकुञ्जरे |
३२ क
सञ्जय़ उवाच:
महावनमिव छिन्नमभवत्तावकं वलम् ||
३२ ख
सञ्जय़ उवाच:
अनेकशतसाहस्रे वले दुर्योधनस्य ह |
३३ क
सञ्जय़ उवाच:
नान्यो महारथो राजञ्जीवमानो व्यदृश्यत ||
३३ ख
सञ्जय़ उवाच:
द्रोणपुत्रादृते वीरात्तथैव कृतवर्मणः |
३४ क
सञ्जय़ उवाच:
कृपाच्च गौतमाद्राजन्पार्थिवाच्च तवात्मजात् ||
३४ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्तु मां दृष्ट्वा हसन्सात्यकिमव्रवीत् |
३५ क
सञ्जय़ उवाच:
किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता ||
३५ ख
सञ्जय़ उवाच:
धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः |
३६ क
सञ्जय़ उवाच:
उद्यम्य निशितं खड्गं हन्तुं मामुद्यतस्तदा ||
३६ ख
सञ्जय़ उवाच:
तमागम्य महाप्राज्ञः कृष्णद्वैपाय़नोऽव्रवीत् |
३७ क
सञ्जय़ उवाच:
मुच्यतां सञ्जय़ो जीवन्न हन्तव्यः कथञ्चन ||
३७ ख
सञ्जय़ उवाच:
द्वैपाय़नवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः |
३८ क
सञ्जय़ उवाच:
ततो मामव्रवीन्मुक्त्वा स्वस्ति सञ्जय़ साधय़ ||
३८ ख
सञ्जय़ उवाच:
अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निराय़ुधः |
३९ क
सञ्जय़ उवाच:
प्रातिष्ठं येन नगरं साय़ाह्ने रुधिरोक्षितः ||
३९ ख
सञ्जय़ उवाच:
क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम् |
४० क
सञ्जय़ उवाच:
एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम् ||
४० ख
सञ्जय़ उवाच:
स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम् |
४१ क
सञ्जय़ उवाच:
उपप्रैक्षत मां दृष्ट्वा तदा दीनमवस्थितम् ||
४१ ख
सञ्जय़ उवाच:
तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे |
४२ क
सञ्जय़ उवाच:
मुहूर्तं नाशकं वक्तुं किञ्चिद्दुःखपरिप्लुतः ||
४२ ख
सञ्जय़ उवाच:
ततोऽस्मै तदहं सर्वमुक्तवान्ग्रहणं तदा |
४३ क
सञ्जय़ उवाच:
द्वैपाय़नप्रसादाच्च जीवतो मोक्षमाहवे ||
४३ ख
सञ्जय़ उवाच:
मुहूर्तमिव च ध्यात्वा प्रतिलभ्य च चेतनाम् |
४४ क
सञ्जय़ उवाच:
भ्रातॄंश्च सर्वसैन्यानि पर्यपृच्छत मां ततः ||
४४ ख
सञ्जय़ उवाच:
तस्मै तदहमाचक्षं सर्वं प्रत्यक्षदर्शिवान् |
४५ क
सञ्जय़ उवाच:
भ्रातॄंश्च निहतान्सर्वान्सैन्यं च विनिपातितम् ||
४५ ख
सञ्जय़ उवाच:
त्रय़ः किल रथाः शिष्टास्तावकानां नराधिप |
४६ क
सञ्जय़ उवाच:
इति प्रस्थानकाले मां कृष्णद्वैपाय़नोऽव्रवीत् ||
४६ ख
सञ्जय़ उवाच:
स दीर्घमिव निःश्वस्य विप्रेक्ष्य च पुनः पुनः |
४७ क
सञ्जय़ उवाच:
अंसे मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत ||
४७ ख
सञ्जय़ उवाच:
त्वदन्यो नेह सङ्ग्रामे कश्चिज्जीवति सञ्जय़ |
४८ क
सञ्जय़ उवाच:
द्वितीय़ं नेह पश्यामि ससहाय़ाश्च पाण्डवाः ||
४८ ख
सञ्जय़ उवाच:
व्रूय़ाः सञ्जय़ राजानं प्रज्ञाचक्षुषमीश्वरम् |
४९ क