सञ्जय़ उवाच:
सेनापत्यं तु सम्प्राप्य भारद्वाजो महारथः |
१ क
सञ्जय़ उवाच:
युय़ुत्सुर्व्यूह्य सैन्यानि प्राय़ात्तव सुतैः सह ||
१ ख
सञ्जय़ उवाच:
सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः |
२ क
सञ्जय़ उवाच:
दक्षिणं पार्श्वमास्थाय़ समतिष्ठन्त दंशिताः ||
२ ख
सञ्जय़ उवाच:
प्रपक्षः शकुनिस्तेषां प्रवरैर्हय़सादिभिः |
३ क
सञ्जय़ उवाच:
यय़ौ गान्धारकैः सार्धं विमलप्रासय़ोधिभिः ||
३ ख
सञ्जय़ उवाच:
कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः |
४ क
सञ्जय़ उवाच:
दुःशासनमुखा यत्ताः सव्यं पार्श्वमपालय़न् ||
४ ख
सञ्जय़ उवाच:
तेषां प्रपक्षाः काम्वोजाः सुदक्षिणपुरःसराः |
५ क
सञ्जय़ उवाच:
यय़ुरश्वैर्महावेगैः शकाश्च यवनैः सह ||
५ ख
सञ्जय़ उवाच:
मद्रास्त्रिगर्ताः साम्वष्ठाः प्रतीच्योदीच्यवासिनः |
६ क
सञ्जय़ उवाच:
शिवय़ः शूरसेनाश्च शूद्राश्च मलदैः सह ||
६ ख
सञ्जय़ उवाच:
सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः |
७ क
सञ्जय़ उवाच:
तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः ||
७ ख
सञ्जय़ उवाच:
हर्षय़न्सर्वसैन्यानि वलेषु वलमादधत् |
८ क
सञ्जय़ उवाच:
यय़ौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम् ||
८ ख
सञ्जय़ उवाच:
तस्य दीप्तो महाकाय़ः स्वान्यनीकानि हर्षय़न् |
९ क
सञ्जय़ उवाच:
हस्तिकक्ष्यामहाकेतुर्वभौ सूर्यसमद्युतिः ||
९ ख
सञ्जय़ उवाच:
न भीष्मव्यसनं कश्चिद्दृष्ट्वा कर्णममन्यत |
१० क
सञ्जय़ उवाच:
विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह ||
१० ख
सञ्जय़ उवाच:
हृष्टाश्च वहवो योधास्तत्राजल्पन्त सङ्गताः |
११ क
सञ्जय़ उवाच:
न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः ||
११ ख
सञ्जय़ उवाच:
कर्णो हि समरे शक्तो जेतुं देवान्सवासवान् |
१२ क
सञ्जय़ उवाच:
किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् ||
१२ ख
सञ्जय़ उवाच:
भीष्मेण तु रणे पार्थाः पालिता वाहुशालिना |
१३ क
सञ्जय़ उवाच:
तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशय़िष्यत्यसंशय़म् ||
१३ ख
सञ्जय़ उवाच:
एवं व्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशां पते |
१४ क
सञ्जय़ उवाच:
राधेय़ं पूजय़न्तश्च प्रशंसन्तश्च निर्ययुः ||
१४ ख
सञ्जय़ उवाच:
अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत् |
१५ क
सञ्जय़ उवाच:
परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम् |
१५ ख
सञ्जय़ उवाच:
प्रीय़माणेन विहितो धर्मराजेन भारत ||
१५ ग
सञ्जय़ उवाच:
व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ |
१६ क
सञ्जय़ उवाच:
वानरध्वजमुच्छ्रित्य विष्वक्सेनधनञ्जय़ौ ||
१६ ख
सञ्जय़ उवाच:
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् |
१७ क
सञ्जय़ उवाच:
आदित्यपथगः केतुः पार्थस्यामिततेजसः ||
१७ ख
सञ्जय़ उवाच:
दीपय़ामास तत्सैन्यं पाण्डवस्य महात्मनः |
१८ क
सञ्जय़ उवाच:
यथा प्रज्वलितः सूर्यो युगान्ते वै वसुन्धराम् ||
१८ ख
सञ्जय़ उवाच:
अस्यतामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम् |
१९ क
सञ्जय़ उवाच:
वासुदेवश्च भूतानां चक्राणां च सुदर्शनम् ||
१९ ख
सञ्जय़ उवाच:
चत्वार्येतानि तेजांसि वहञ्श्वेतहय़ो रथः |
२० क
सञ्जय़ उवाच:
परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम् ||
२० ख
सञ्जय़ उवाच:
एवमेतौ महात्मानौ वलसेनाग्रगावुभौ |
२१ क
सञ्जय़ उवाच:
तावकानां मुखं कर्णः परेषां च धनञ्जय़ः ||
२१ ख
सञ्जय़ उवाच:
ततो जाताभिसंरम्भौ परस्परवधैषिणौ |
२२ क
सञ्जय़ उवाच:
अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ ||
२२ ख
सञ्जय़ उवाच:
ततः प्रय़ाते सहसा भारद्वाजे महारथे |
२३ क
सञ्जय़ उवाच:
अन्तर्नादेन घोरेण वसुधा समकम्पत ||
२३ ख
सञ्जय़ उवाच:
ततस्तुमुलमाकाशमावृणोत्सदिवाकरम् |
२४ क
सञ्जय़ उवाच:
वातोद्धूतं रजस्तीव्रं कौशेय़निकरोपमम् ||
२४ ख
सञ्जय़ उवाच:
अनभ्रे प्रववर्ष द्यौर्मांसास्थिरुधिराण्युत |
२५ क
सञ्जय़ उवाच:
गृध्राः श्येना वडाः कङ्का वाय़साश्च सहस्रशः |
२५ ख
सञ्जय़ उवाच:
उपर्युपरि सेनां ते तदा पर्यपतन्नृप ||
२५ ग
सञ्जय़ उवाच:
गोमाय़वश्च प्राक्रोशन्भय़दान्दारुणान्रवान् |
२६ क
सञ्जय़ उवाच:
अकार्षुरपसव्यं च वहुशः पृतनां तव |
२६ ख
सञ्जय़ उवाच:
चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम् ||
२६ ग
सञ्जय़ उवाच:
अपतद्दीप्यमाना च सनिर्घाता सकम्पना |
२७ क
सञ्जय़ उवाच:
उल्का ज्वलन्ती सङ्ग्रामे पुच्छेनावृत्य सर्वशः ||
२७ ख
सञ्जय़ उवाच:
परिवेषो महांश्चापि सविद्युत्स्तनय़ित्नुमान् |
२८ क
सञ्जय़ उवाच:
भास्करस्याभवद्राजन्प्रय़ाते वाहिनीपतौ ||
२८ ख
सञ्जय़ उवाच:
एते चान्ये च वहवः प्रादुरासन्सुदारुणाः |
२९ क
सञ्जय़ उवाच:
उत्पाता युधि वीराणां जीवितक्षय़कारकाः ||
२९ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं परस्परवधैषिणाम् |
३० क
सञ्जय़ उवाच:
कुरुपाण्डवसैन्यानां शव्देनानादय़ज्जगत् ||
३० ख
सञ्जय़ उवाच:
ते त्वन्योन्यं सुसंरव्धाः पाण्डवाः कौरवैः सह |
३१ क
सञ्जय़ उवाच:
प्रत्यघ्नन्निशितैर्वाणैर्जय़गृद्धाः प्रहारिणः ||
३१ ख
सञ्जय़ उवाच:
स पाण्डवानां महतीं महेष्वासो महाद्युतिः |
३२ क
सञ्जय़ उवाच:
वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः ||
३२ ख
सञ्जय़ उवाच:
द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जय़ैः |
३३ क
सञ्जय़ उवाच:
प्रत्यगृह्णंस्तदा राजञ्शरवर्षैः पृथक्पृथक् ||
३३ ख
सञ्जय़ उवाच:
सङ्क्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः |
३४ क
सञ्जय़ उवाच:
व्यशीर्यत सपाञ्चाला वातेनेव वलाहकाः ||
३४ ख
सञ्जय़ उवाच:
वहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संय़ुगे |
३५ क
सञ्जय़ उवाच:
अपीडय़त्क्षणेनैव द्रोणः पाण्डवसृञ्जय़ान् ||
३५ ख
सञ्जय़ उवाच:
ते वध्यमाना द्रोणेन वासवेनेव दानवाः |
३६ क
सञ्जय़ उवाच:
पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः ||
३६ ख
सञ्जय़ उवाच:
ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः |
३७ क
सञ्जय़ उवाच:
अभिनच्छरवर्षेण द्रोणानीकमनेकधा ||
३७ ख
सञ्जय़ उवाच:
द्रोणस्य शरवर्षैस्तु शरवर्षाणि भागशः |
३८ क
सञ्जय़ उवाच:
संनिवार्य ततः सेनां कुरूनप्यवधीद्वली ||
३८ ख
सञ्जय़ उवाच:
संहृत्य तु ततो द्रोणः समवस्थाप्य चाहवे |
३९ क
सञ्जय़ उवाच:
स्वमनीकं महावाहुः पार्षतं समुपाद्रवत् ||
३९ ख
सञ्जय़ उवाच:
स वाणवर्षं सुमहदसृजत्पार्षतं प्रति |
४० क
सञ्जय़ उवाच:
मघवान्समभिक्रुद्धः सहसा दानवेष्विव ||
४० ख
सञ्जय़ उवाच:
ते कम्प्यमाना द्रोणेन वाणैः पाण्डवसृञ्जय़ाः |
४१ क
सञ्जय़ उवाच:
पुनः पुनरभज्यन्त सिंहेनेवेतरे मृगाः ||
४१ ख
सञ्जय़ उवाच:
अथ पर्यपतद्द्रोणः पाण्डवानां वलं वली |
४२ क
सञ्जय़ उवाच:
अलातचक्रवद्राजंस्तदद्भुतमिवाभवत् ||
४२ ख
सञ्जय़ उवाच:
खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या; चलदनिलपताकं ह्रादिनं वल्गिताश्वम् |
४३ क
सञ्जय़ उवाच:
स्फटिकविमलकेतुं तापनं शात्रवाणां; रथवरमधिरूढः सञ्जहारारिसेनाम् ||
४३ ख