सञ्जय़ उवाच:
विमुखीकृत्य तान्सर्वांस्तावकान्युधि राक्षसः |
१ क
सञ्जय़ उवाच:
जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत् ||
१ ख
सञ्जय़ उवाच:
तमापतन्तं सम्प्रेक्ष्य राजानं प्रति वेगितम् |
२ क
सञ्जय़ उवाच:
अभ्यधावज्जिघांसन्तस्तावका युद्धदुर्मदाः ||
२ ख
सञ्जय़ उवाच:
तालमात्राणि चापानि विकर्षन्तो महावलाः |
३ क
सञ्जय़ उवाच:
तमेकमभ्यधावन्त नदन्तः सिंहसङ्घवत् ||
३ ख
सञ्जय़ उवाच:
अथैनं शरवर्षेण समन्तात्पर्यवारय़न् |
४ क
सञ्जय़ उवाच:
पर्वतं वारिधाराभिः शरदीव वलाहकाः ||
४ ख
सञ्जय़ उवाच:
स गाढविद्धो व्यथितस्तोत्त्रार्दित इव द्विपः |
५ क
सञ्जय़ उवाच:
उत्पपात तदाकाशं समन्ताद्वैनतेय़वत् ||
५ ख
सञ्जय़ उवाच:
व्यनदत्सुमहानादं जीमूत इव शारदः |
६ क
सञ्जय़ उवाच:
दिशः खं प्रदिशश्चैव नादय़न्भैरवस्वनः ||
६ ख
सञ्जय़ उवाच:
राक्षसस्य तु तं शव्दं श्रुत्वा राजा युधिष्ठिरः |
७ क
सञ्जय़ उवाच:
उवाच भरतश्रेष्ठो भीमसेनमिदं वचः ||
७ ख
सञ्जय़ उवाच:
युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः |
८ क
सञ्जय़ उवाच:
यथास्य श्रूय़ते शव्दो नदतो भैरवं स्वनम् |
८ ख
सञ्जय़ उवाच:
अतिभारं च पश्यामि तत्र तात समाहितम् ||
८ ग
सञ्जय़ उवाच:
पितामहश्च सङ्क्रुद्धः पाञ्चालान्हन्तुमुद्यतः |
९ क
सञ्जय़ उवाच:
तेषां च रक्षणार्थाय़ युध्यते फल्गुनः परैः ||
९ ख
सञ्जय़ उवाच:
एतच्छ्रुत्वा महावाहो कार्यद्वय़मुपस्थितम् |
१० क
सञ्जय़ उवाच:
गच्छ रक्षस्व हैडिम्वं संशय़ं परमं गतम् ||
१० ख
सञ्जय़ उवाच:
भ्रातुर्वचनमाज्ञाय़ त्वरमाणो वृकोदरः |
११ क
सञ्जय़ उवाच:
प्रय़यौ सिंहनादेन त्रासय़न्सर्वपार्थिवान् |
११ ख
सञ्जय़ उवाच:
वेगेन महता राजन्पर्वकाले यथोदधिः ||
११ ग
सञ्जय़ उवाच:
तमन्वय़ात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः |
१२ क
सञ्जय़ उवाच:
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ||
१२ ख
सञ्जय़ उवाच:
अभिमन्युमुखाश्चैव द्रौपदेय़ा महारथाः |
१३ क
सञ्जय़ उवाच:
क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च ||
१३ ख
सञ्जय़ उवाच:
अनूपाधिपतिश्चैव नीलः स्ववलमास्थितः |
१४ क
सञ्जय़ उवाच:
महता रथवंशेन हैडिम्वं पर्यवारय़न् ||
१४ ख
सञ्जय़ उवाच:
कुञ्जरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिः |
१५ क
सञ्जय़ उवाच:
अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् ||
१५ ख
सञ्जय़ उवाच:
सिंहनादेन महता नेमिघोषेण चैव हि |
१६ क
सञ्जय़ उवाच:
खुरशव्दनिनादैश्च कम्पय़न्तो वसुन्धराम् ||
१६ ख
सञ्जय़ उवाच:
तेषामापततां श्रुत्वा शव्दं तं तावकं वलम् |
१७ क
सञ्जय़ उवाच:
भीमसेनभय़ोद्विग्नं विवर्णवदनं तथा |
१७ ख
सञ्जय़ उवाच:
परिवृत्तं महाराज परित्यज्य घटोत्कचम् ||
१७ ग
सञ्जय़ उवाच:
ततः प्रववृते युद्धं तत्र तत्र महात्मनाम् |
१८ क
सञ्जय़ उवाच:
तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् ||
१८ ख
सञ्जय़ उवाच:
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः |
१९ क
सञ्जय़ उवाच:
अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे |
१९ ख
सञ्जय़ उवाच:
व्यतिषक्तं महारौद्रं युद्धं भीरुभय़ावहम् ||
१९ ग
सञ्जय़ उवाच:
हय़ा गजैः समाजग्मुः पादाता रथिभिः सह |
२० क
सञ्जय़ उवाच:
अन्योन्यं समरे राजन्प्रार्थय़ाना महद्यशः ||
२० ख
सञ्जय़ उवाच:
सहसा चाभवत्तीव्रं संनिपातान्महद्रजः |
२१ क
सञ्जय़ उवाच:
रथाश्वगजपत्तीनां पदनेमिसमुद्धतम् ||
२१ ख
सञ्जय़ उवाच:
धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत् |
२२ क
सञ्जय़ उवाच:
नैव स्वे न परे राजन्समजानन्परस्परम् ||
२२ ख
सञ्जय़ उवाच:
पिता पुत्रं न जानीते पुत्रो वा पितरं तथा |
२३ क
सञ्जय़ उवाच:
निर्मर्यादे तथा भूते वैशसे लोमहर्षणे ||
२३ ख
सञ्जय़ उवाच:
शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम् |
२४ क
सञ्जय़ उवाच:
सुमहानभवच्छव्दो वंशानामिव दह्यताम् ||
२४ ख
सञ्जय़ उवाच:
गजवाजिमनुष्याणां शोणितान्त्रतरङ्गिणी |
२५ क
सञ्जय़ उवाच:
प्रावर्तत नदी तत्र केशशैवलशाद्वला ||
२५ ख
सञ्जय़ उवाच:
नराणां चैव काय़ेभ्यः शिरसां पततां रणे |
२६ क
सञ्जय़ उवाच:
शुश्रुवे सुमहाञ्शव्दः पततामश्मनामिव ||
२६ ख
सञ्जय़ उवाच:
विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः |
२७ क
सञ्जय़ उवाच:
अश्वैः सम्भिन्नदेहैश्च सङ्कीर्णाभूद्वसुन्धरा ||
२७ ख
सञ्जय़ उवाच:
नानाविधानि शस्त्राणि विसृजन्तो महारथाः |
२८ क
सञ्जय़ उवाच:
अन्योन्यमभिधावन्तः सम्प्रहारं प्रचक्रिरे ||
२८ ख
सञ्जय़ उवाच:
हय़ा हय़ान्समासाद्य प्रेषिता हय़सादिभिः |
२९ क
सञ्जय़ उवाच:
समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः ||
२९ ख
सञ्जय़ उवाच:
नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् |
३० क
सञ्जय़ उवाच:
उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे ||
३० ख
सञ्जय़ उवाच:
प्रेषिताश्च महामात्रैर्वारणाः परवारणाः |
३१ क
सञ्जय़ उवाच:
अभिघ्नन्ति विषाणाग्रैर्वारणानेव संय़ुगे ||
३१ ख
सञ्जय़ उवाच:
ते जातरुधिरापीडाः पताकाभिरलङ्कृताः |
३२ क
सञ्जय़ उवाच:
संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः ||
३२ ख
सञ्जय़ उवाच:
केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः |
३३ क
सञ्जय़ उवाच:
विनदन्तोऽभ्यधावन्त गर्जन्तो जलदा इव ||
३३ ख
सञ्जय़ उवाच:
केचिद्धस्तैर्द्विधा छिन्नैश्छिन्नगात्रास्तथापरे |
३४ क
सञ्जय़ उवाच:
निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रय़ः ||
३४ ख
सञ्जय़ उवाच:
पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः |
३५ क
सञ्जय़ उवाच:
मुमुचुः शोणितं भूरि धातूनिव महीधराः ||
३५ ख
सञ्जय़ उवाच:
नाराचाभिहतास्त्वन्ये तथा विद्धाश्च तोमरैः |
३६ क
सञ्जय़ उवाच:
हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः ||
३६ ख
सञ्जय़ उवाच:
केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः |
३७ क
सञ्जय़ उवाच:
रथान्हय़ान्पदातांश्च ममृदुः शतशो रणे ||
३७ ख
सञ्जय़ उवाच:
तथा हय़ा हय़ारोहैस्ताडिताः प्रासतोमरैः |
३८ क
सञ्जय़ उवाच:
तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः ||
३८ ख
सञ्जय़ उवाच:
रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः |
३९ क
सञ्जय़ उवाच:
परां शक्तिं समास्थाय़ चक्रुः कर्माण्यभीतवत् ||
३९ ख
सञ्जय़ उवाच:
स्वय़ंवर इवामर्दे प्रजह्रुरितरेतरम् |
४० क
सञ्जय़ उवाच:
प्रार्थय़ाना यशो राजन्स्वर्गं वा युद्धशालिनः ||
४० ख
सञ्जय़ उवाच:
तस्मिंस्तथा वर्तमाने सङ्ग्रामे लोमहर्षणे |
४१ क
सञ्जय़ उवाच:
धार्तराष्ट्रं महत्सैन्यं प्राय़शो विमुखीकृतम् ||
४१ ख