chevron_left शल्य पर्व अध्याय ६
सञ्जय़ उवाच:
एतच्छ्रुत्वा वचो राज्ञो मद्रराजः प्रतापवान् |
१ क
सञ्जय़ उवाच:
दुर्योधनं तदा राजन्वाक्यमेतदुवाच ह ||
१ ख
सञ्जय़ उवाच:
दुर्योधन महावाहो शृणु वाक्यविदां वर |
२ क
सञ्जय़ उवाच:
यावेतौ मन्यसे कृष्णौ रथस्थौ रथिनां वरौ |
२ ख
सञ्जय़ उवाच:
न मे तुल्यावुभावेतौ वाहुवीर्ये कथञ्चन ||
२ ग
सञ्जय़ उवाच:
उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम् |
३ क
सञ्जय़ उवाच:
योधय़ेय़ं रणमुखे सङ्क्रुद्धः किमु पाण्डवान् |
३ ख
सञ्जय़ उवाच:
विजेष्ये च रणे पार्थान्सोमकांश्च समागतान् ||
३ ग
सञ्जय़ उवाच:
अहं सेनाप्रणेता ते भविष्यामि न संशय़ः |
४ क
सञ्जय़ उवाच:
तं च व्यूहं विधास्यामि न तरिष्यन्ति यं परे |
४ ख
सञ्जय़ उवाच:
इति सत्यं व्रवीम्येष दुर्योधन न संशय़ः ||
४ ग
सञ्जय़ उवाच:
एवमुक्तस्ततो राजा मद्राधिपतिमञ्जसा |
५ क
सञ्जय़ उवाच:
अभ्यषिञ्चत सेनाय़ा मध्ये भरतसत्तम |
५ ख
सञ्जय़ उवाच:
विधिना शास्त्रदृष्टेन हृष्टरूपो विशां पते ||
५ ग
सञ्जय़ उवाच:
अभिषिक्ते ततस्तस्मिन्सिंहनादो महानभूत् |
६ क
सञ्जय़ उवाच:
तव सैन्येष्ववाद्यन्त वादित्राणि च भारत ||
६ ख
सञ्जय़ उवाच:
हृष्टाश्चासंस्तदा योधा मद्रकाश्च महारथाः |
७ क
सञ्जय़ उवाच:
तुष्टुवुश्चैव राजानं शल्यमाहवशोभिनम् ||
७ ख
सञ्जय़ उवाच:
जय़ राजंश्चिरं जीव जहि शत्रून्समागतान् |
८ क
सञ्जय़ उवाच:
तव वाहुवलं प्राप्य धार्तराष्ट्रा महावलाः |
८ ख
सञ्जय़ उवाच:
निखिलां पृथिवीं सर्वां प्रशासन्तु हतद्विषः ||
८ ग
सञ्जय़ उवाच:
त्वं हि शक्तो रणे जेतुं ससुरासुरमानवान् |
९ क
सञ्जय़ उवाच:
मर्त्यधर्माण इह तु किमु सोमकसृञ्जय़ान् ||
९ ख
सञ्जय़ उवाच:
एवं संस्तूय़मानस्तु मद्राणामधिपो वली |
१० क
सञ्जय़ उवाच:
हर्षं प्राप तदा वीरो दुरापमकृतात्मभिः ||
१० ख
शल्य उवाच:
अद्यैवाहं रणे सर्वान्पाञ्चालान्सह पाण्डवैः |
११ क
शल्य उवाच:
निहनिष्यामि राजेन्द्र स्वर्गं यास्यामि वा हतः ||
११ ख
शल्य उवाच:
अद्य पश्यन्तु मां लोका विचरन्तमभीतवत् |
१२ क
शल्य उवाच:
अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः ||
१२ ख
शल्य उवाच:
पाञ्चालाश्चेदय़श्चैव द्रौपदेय़ाश्च सर्वशः |
१३ क
शल्य उवाच:
धृष्टद्युम्नः शिखण्डी च सर्वे चापि प्रभद्रकाः ||
१३ ख
शल्य उवाच:
विक्रमं मम पश्यन्तु धनुषश्च महद्वलम् |
१४ क
शल्य उवाच:
लाघवं चास्त्रवीर्यं च भुजय़ोश्च वलं युधि ||
१४ ख
शल्य उवाच:
अद्य पश्यन्तु मे पार्थाः सिद्धाश्च सह चारणैः |
१५ क
शल्य उवाच:
यादृशं मे वलं वाह्वोः सम्पदस्त्रेषु या च मे ||
१५ ख
शल्य उवाच:
अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः |
१६ क
शल्य उवाच:
प्रतीकारपरा भूत्वा चेष्टन्तां विविधाः क्रिय़ाः ||
१६ ख
शल्य उवाच:
अद्य सैन्यानि पाण्डूनां द्रावय़िष्ये समन्ततः |
१७ क
शल्य उवाच:
द्रोणभीष्मावति विभो सूतपुत्रं च संय़ुगे |
१७ ख
शल्य उवाच:
विचरिष्ये रणे युध्यन्प्रिय़ार्थं तव कौरव ||
१७ ग
सञ्जय़ उवाच:
अभिषिक्ते तदा शल्ये तव सैन्येषु मानद |
१८ क
सञ्जय़ उवाच:
न कर्णव्यसनं किञ्चिन्मेनिरे तत्र भारत ||
१८ ख
सञ्जय़ उवाच:
हृष्टाः सुमनसश्चैव वभूवुस्तत्र सैनिकाः |
१९ क
सञ्जय़ उवाच:
मेनिरे निहतान्पार्थान्मद्रराजवशं गतान् ||
१९ ख
सञ्जय़ उवाच:
प्रहर्षं प्राप्य सेना तु तावकी भरतर्षभ |
२० क
सञ्जय़ उवाच:
तां रात्रिं सुखिनी सुप्ता स्वस्थचित्तेव साभवत् ||
२० ख
सञ्जय़ उवाच:
सैन्यस्य तव तं शव्दं श्रुत्वा राजा युधिष्ठिरः |
२१ क
सञ्जय़ उवाच:
वार्ष्णेय़मव्रवीद्वाक्यं सर्वक्षत्रस्य शृण्वतः ||
२१ ख
सञ्जय़ उवाच:
मद्रराजः कृतः शल्यो धार्तराष्ट्रेण माधव |
२२ क
सञ्जय़ उवाच:
सेनापतिर्महेष्वासः सर्वसैन्येषु पूजितः ||
२२ ख
सञ्जय़ उवाच:
एतच्छ्रुत्वा यथाभूतं कुरु माधव यत्क्षमम् |
२३ क
सञ्जय़ उवाच:
भवान्नेता च गोप्ता च विधत्स्व यदनन्तरम् ||
२३ ख
सञ्जय़ उवाच:
तमव्रवीन्महाराज वासुदेवो जनाधिपम् |
२४ क
सञ्जय़ उवाच:
आर्ताय़निमहं जाने यथातत्त्वेन भारत ||
२४ ख
सञ्जय़ उवाच:
वीर्यवांश्च महातेजा महात्मा च विशेषतः |
२५ क
सञ्जय़ उवाच:
कृती च चित्रय़ोधी च संय़ुक्तो लाघवेन च ||
२५ ख
सञ्जय़ उवाच:
यादृग्भीष्मस्तथा द्रोणो यादृक्कर्णश्च संय़ुगे |
२६ क
सञ्जय़ उवाच:
तादृशस्तद्विशिष्टो वा मद्रराजो मतो मम ||
२६ ख
सञ्जय़ उवाच:
युध्यमानस्य तस्याजौ चिन्तय़न्नेव भारत |
२७ क
सञ्जय़ उवाच:
योद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप ||
२७ ख
सञ्जय़ उवाच:
शिखण्ड्यर्जुनभीमानां सात्वतस्य च भारत |
२८ क
सञ्जय़ उवाच:
धृष्टद्युम्नस्य च तथा वलेनाभ्यधिको रणे ||
२८ ख
सञ्जय़ उवाच:
मद्रराजो महाराज सिंहद्विरदविक्रमः |
२९ क
सञ्जय़ उवाच:
विचरिष्यत्यभीः काले कालः क्रुद्धः प्रजास्विव ||
२९ ख
सञ्जय़ उवाच:
तस्याद्य न प्रपश्यामि प्रतिय़ोद्धारमाहवे |
३० क
सञ्जय़ उवाच:
त्वामृते पुरुषव्याघ्र शार्दूलसमविक्रमम् ||
३० ख
सञ्जय़ उवाच:
सदेवलोके कृत्स्नेऽस्मिन्नान्यस्त्वत्तः पुमान्भवेत् |
३१ क
सञ्जय़ उवाच:
मद्रराजं रणे क्रुद्धं यो हन्यात्कुरुनन्दन |
३१ ख
सञ्जय़ उवाच:
अहन्यहनि युध्यन्तं क्षोभय़न्तं वलं तव ||
३१ ग
सञ्जय़ उवाच:
तस्माज्जहि रणे शल्यं मघवानिव शम्वरम् |
३२ क
सञ्जय़ उवाच:
अतिपश्चादसौ वीरो धार्तराष्ट्रेण सत्कृतः ||
३२ ख
सञ्जय़ उवाच:
तवैव हि जय़ो नूनं हते मद्रेश्वरे युधि |
३३ क
सञ्जय़ उवाच:
तस्मिन्हते हतं सर्वं धार्तराष्ट्रवलं महत् ||
३३ ख
सञ्जय़ उवाच:
एतच्छ्रुत्वा महाराज वचनं मम साम्प्रतम् |
३४ क
सञ्जय़ उवाच:
प्रत्युद्याहि रणे पार्थ मद्रराजं महावलम् |
३४ ख
सञ्जय़ उवाच:
जहि चैनं महावाहो वासवो नमुचिं यथा ||
३४ ग
सञ्जय़ उवाच:
न चैवात्र दय़ा कार्या मातुलोऽय़ं ममेति वै |
३५ क
सञ्जय़ उवाच:
क्षत्रधर्मं पुरस्कृत्य जहि मद्रजनेश्वरम् ||
३५ ख
सञ्जय़ उवाच:
भीष्मद्रोणार्णवं तीर्त्वा कर्णपातालसम्भवम् |
३६ क
सञ्जय़ उवाच:
मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम् ||
३६ ख
सञ्जय़ उवाच:
यच्च ते तपसो वीर्यं यच्च क्षात्रं वलं तव |
३७ क
सञ्जय़ उवाच:
तद्दर्शय़ रणे सर्वं जहि चैनं महारथम् ||
३७ ख
सञ्जय़ उवाच:
एतावदुक्त्वा वचनं केशवः परवीरहा |
३८ क
सञ्जय़ उवाच:
जगाम शिविरं साय़ं पूज्यमानोऽथ पाण्डवैः ||
३८ ख
सञ्जय़ उवाच:
केशवे तु तदा याते धर्मराजो युधिष्ठिरः |
३९ क
सञ्जय़ उवाच:
विसृज्य सर्वान्भ्रातॄंश्च पाञ्चालानथ सोमकान् |
३९ ख
सञ्जय़ उवाच:
सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः ||
३९ ग
सञ्जय़ उवाच:
ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास्तथा |
४० क
सञ्जय़ उवाच:
कर्णस्य निधने हृष्टाः सुषुपुस्तां निशां तदा ||
४० ख
सञ्जय़ उवाच:
गतज्वरं महेष्वासं तीर्णपारं महारथम् |
४१ क
सञ्जय़ उवाच:
वभूव पाण्डवेय़ानां सैन्यं प्रमुदितं निशि |
४१ ख
सञ्जय़ उवाच:
सूतपुत्रस्य निधने जय़ं लव्ध्वा च मारिष ||
४१ ग