chevron_left शान्ति पर्व अध्याय ६०
भीष्म उवाच:
वहूनि यज्ञरूपाणि नानाकर्मफलानि च ||
४८ ख
भीष्म उवाच:
तानि यः संविजानाति ज्ञाननिश्चय़निश्चितः |
४९ क
भीष्म उवाच:
द्विजातिः श्रद्धय़ोपेतः स यष्टुं पुरुषोऽर्हति ||
४९ ख
भीष्म उवाच:
स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः |
५० क
भीष्म उवाच:
यष्टुमिच्छति यज्ञं यः साधुमेव वदन्ति तम् ||
५० ख
भीष्म उवाच:
ऋषय़स्तं प्रशंसन्ति साधु चैतदसंशय़म् |
५१ क
भीष्म उवाच:
सर्वथा सर्ववर्णैर्हि यष्टव्यमिति निश्चय़ः |
५१ ख
भीष्म उवाच:
न हि यज्ञसमं किञ्चित्त्रिषु लोकेषु विद्यते ||
५१ ग
भीष्म उवाच:
तस्माद्यष्टव्यमित्याहुः पुरुषेणानसूय़ता |
५२ क
भीष्म उवाच:
श्रद्धापवित्रमाश्रित्य यथाशक्ति प्रय़च्छता ||
५२ ख