सञ्जय़ उवाच:
सङ्क्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीय़त ||
४८ ख
सञ्जय़ उवाच:
स कृत्वा दारुणां माय़ां भीरूणां भय़वर्धिनीम् |
४९ क
सञ्जय़ उवाच:
अदृश्यत निमेषार्धाद्घोररूपं समाश्रितः ||
४९ ख
सञ्जय़ उवाच:
ऐरावतं समारुह्य स्वय़ं माय़ामय़ं कृतम् |
५० क
सञ्जय़ उवाच:
तस्य चान्येऽपि दिङ्नागा वभूवुरनुय़ाय़िनः ||
५० ख
सञ्जय़ उवाच:
अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः |
५१ क
सञ्जय़ उवाच:
त्रय़ एते महानागा राक्षसैः समधिष्ठिताः ||
५१ ख
सञ्जय़ उवाच:
महाकाय़ास्त्रिधा राजन्प्रस्रवन्तो मदं वहु |
५२ क
सञ्जय़ उवाच:
तेजोवीर्यवलोपेता महावलपराक्रमाः ||
५२ ख
सञ्जय़ उवाच:
घटोत्कचस्तु स्वं नागं चोदय़ामास तं ततः |
५३ क
सञ्जय़ उवाच:
सगजं भगदत्तं तु हन्तुकामः परन्तपः ||
५३ ख
सञ्जय़ उवाच:
ते चान्ये चोदिता नागा राक्षसैस्तैर्महावलैः |
५४ क
सञ्जय़ उवाच:
परिपेतुः सुसंरव्धाश्चतुर्दंष्ट्राश्चतुर्दिशम् |
५४ ख
सञ्जय़ उवाच:
भगदत्तस्य तं नागं विषाणैस्तेऽभ्यपीडय़न् ||
५४ ग
सञ्जय़ उवाच:
सम्पीड्यमानस्तैर्नागैर्वेदनार्तः शरातुरः |
५५ क
सञ्जय़ उवाच:
सोऽनदत्सुमहानादमिन्द्राशनिसमस्वनम् ||
५५ ख
सञ्जय़ उवाच:
तस्य तं नदतो नादं सुघोरं भीमनिस्वनम् |
५६ क
सञ्जय़ उवाच:
श्रुत्वा भीष्मोऽव्रवीद्द्रोणं राजानं च सुय़ोधनम् ||
५६ ख
सञ्जय़ उवाच:
एष युध्यति सङ्ग्रामे हैडिम्वेन दुरात्मना |
५७ क
सञ्जय़ उवाच:
भगदत्तो महेष्वासः कृच्छ्रेण परिवर्तते ||
५७ ख
सञ्जय़ उवाच:
राक्षसश्च महामाय़ः स च राजातिकोपनः |
५८ क
सञ्जय़ उवाच:
तौ समेतौ महावीर्यौ कालमृत्युसमावुभौ ||
५८ ख
सञ्जय़ उवाच:
श्रूय़ते ह्येष हृष्टानां पाण्डवानां महास्वनः |
५९ क
सञ्जय़ उवाच:
हस्तिनश्चैव सुमहान्भीतस्य रुवतो ध्वनिः ||
५९ ख
सञ्जय़ उवाच:
तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् |
६० क
सञ्जय़ उवाच:
अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यते ||
६० ख
सञ्जय़ उवाच:
ते त्वरध्वं महावीर्याः किं चिरेण प्रय़ामहे |
६१ क
सञ्जय़ उवाच:
महान्हि वर्तते रौद्रः सङ्ग्रामो लोमहर्षणः ||
६१ ख
सञ्जय़ उवाच:
भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः |
६२ क
सञ्जय़ उवाच:
युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युताः ||
६२ ख
सञ्जय़ उवाच:
भीष्मस्य तद्वचः श्रुत्वा भारद्वाजपुरोगमाः |
६३ क
सञ्जय़ उवाच:
सहिताः सर्वराजानो भगदत्तपरीप्सय़ा |
६३ ख
सञ्जय़ उवाच:
उत्तमं जवमास्थाय़ प्रय़युर्यत्र सोऽभवत् ||
६३ ग
सञ्जय़ उवाच:
तान्प्रय़ातान्समालोक्य युधिष्ठिरपुरोगमाः |
६४ क
सञ्जय़ उवाच:
पाञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुय़युः परान् ||
६४ ख
सञ्जय़ उवाच:
तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान् |
६५ क
सञ्जय़ उवाच:
ननाद सुमहानादं विस्फोटमशनेरिव ||
६५ ख
सञ्जय़ उवाच:
तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः |
६६ क
सञ्जय़ उवाच:
भीष्मः शान्तनवो भूय़ो भारद्वाजमभाषत ||
६६ ख
सञ्जय़ उवाच:
न रोचते मे सङ्ग्रामो हैडिम्वेन दुरात्मना |
६७ क
सञ्जय़ उवाच:
वलवीर्यसमाविष्टः ससहाय़श्च साम्प्रतम् ||
६७ ख
सञ्जय़ उवाच:
नैष शक्यो युधा जेतुमपि वज्रभृता स्वय़म् |
६८ क
सञ्जय़ उवाच:
लव्धलक्ष्यः प्रहारी च वय़ं च श्रान्तवाहनाः |
६८ ख
सञ्जय़ उवाच:
पाञ्चालैः पाण्डवेय़ैश्च दिवसं क्षतविक्षताः ||
६८ ग
सञ्जय़ उवाच:
तन्न मे रोचते युद्धं पाण्डवैर्जितकाशिभिः |
६९ क
सञ्जय़ उवाच:
घुष्यतामवहारोऽद्य श्वो योत्स्यामः परैः सह ||
६९ ख
सञ्जय़ उवाच:
पितामहवचः श्रुत्वा तथा चक्रुः स्म कौरवाः |
७० क
सञ्जय़ उवाच:
उपाय़ेनापय़ानं ते घटोत्कचभय़ार्दिताः ||
७० ख
सञ्जय़ उवाच:
कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः |
७१ क
सञ्जय़ उवाच:
सिंहनादमकुर्वन्त शङ्खवेणुस्वनैः सह ||
७१ ख
सञ्जय़ उवाच:
एवं तदभवद्युद्धं दिवसं भरतर्षभ |
७२ क
सञ्जय़ उवाच:
पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् ||
७२ ख
सञ्जय़ उवाच:
कौरवास्तु ततो राजन्प्रय़युः शिविरं स्वकम् |
७३ क
सञ्जय़ उवाच:
व्रीडमाना निशाकाले पाण्डवेय़ैः पराजिताः ||
७३ ख
सञ्जय़ उवाच:
शरविक्षतगात्राश्च पाण्डुपुत्रा महारथाः |
७४ क
सञ्जय़ उवाच:
युद्धे सुमनसो भूत्वा शिविराय़ैव जग्मिरे ||
७४ ख
सञ्जय़ उवाच:
पुरस्कृत्य महाराज भीमसेनघटोत्कचौ |
७५ क
सञ्जय़ उवाच:
पूजय़न्तस्तदान्योन्यं मुदा परमय़ा युताः ||
७५ ख
सञ्जय़ उवाच:
नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् |
७६ क
सञ्जय़ उवाच:
सिंहनादांश्च कुर्वाणा विमिश्राञ्शङ्खनिस्वनैः ||
७६ ख
सञ्जय़ उवाच:
विनदन्तो महात्मानः कम्पय़न्तश्च मेदिनीम् |
७७ क
सञ्जय़ उवाच:
घट्टय़न्तश्च मर्माणि तव पुत्रस्य मारिष |
७७ ख
सञ्जय़ उवाच:
प्रय़ाताः शिविराय़ैव निशाकाले परन्तपाः ||
७७ ग
सञ्जय़ उवाच:
दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च |
७८ क
सञ्जय़ उवाच:
मुहूर्तं चिन्तय़ामास वाष्पशोकसमाकुलः ||
७८ ख
सञ्जय़ उवाच:
ततः कृत्वा विधिं सर्वं शिविरस्य यथाविधि |
७९ क
सञ्जय़ उवाच:
प्रदध्यौ शोकसन्तप्तो भ्रातृव्यसनकर्शितः ||
७९ ख