दुर्योधन उवाच:
यूय़ं विहतसङ्कल्पाः शोचन्तो वर्तय़िष्यथ ||
५० ख
सञ्जय़ उवाच:
अस्य वाक्यस्य निधने कुरुराजस्य भारत |
५१ क
सञ्जय़ उवाच:
अपतत्सुमहद्वर्षं पुष्पाणां पुण्यगन्धिनाम् ||
५१ ख
सञ्जय़ उवाच:
अवादय़न्त गन्धर्वा जगुश्चाप्सरसां गणाः |
५२ क
सञ्जय़ उवाच:
सिद्धाश्च मुमुचुर्वाचः साधु साध्विति भारत ||
५२ ख
सञ्जय़ उवाच:
ववौ च सुरभिर्वाय़ुः पुण्यगन्धो मृदुः सुखः |
५३ क
सञ्जय़ उवाच:
व्यराजतामलं चैव नभो वैडूर्यसंनिभम् ||
५३ ख
सञ्जय़ उवाच:
अत्यद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाः |
५४ क
सञ्जय़ उवाच:
दुर्योधनस्य पूजां च दृष्ट्वा व्रीडामुपागमन् ||
५४ ख
सञ्जय़ उवाच:
हतांश्चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर्हि ते |
५५ क
सञ्जय़ उवाच:
भीष्मं द्रोणं तथा कर्णं भूरिश्रवसमेव च ||
५५ ख
सञ्जय़ उवाच:
तांस्तु चिन्तापरान्दृष्ट्वा पाण्डवान्दीनचेतसः |
५६ क
सञ्जय़ उवाच:
प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिस्वनः ||
५६ ख
सञ्जय़ उवाच:
नैष शक्योऽतिशीघ्रास्त्रस्ते च सर्वे महारथाः |
५७ क
सञ्जय़ उवाच:
ऋजुय़ुद्धेन विक्रान्ता हन्तुं युष्माभिराहवे ||
५७ ख
सञ्जय़ उवाच:
उपाय़ा विहिता ह्येते मय़ा तस्मान्नराधिपाः |
५८ क
सञ्जय़ उवाच:
अन्यथा पाण्डवेय़ानां नाभविष्यज्जय़ः क्वचित् ||
५८ ख
सञ्जय़ उवाच:
ते हि सर्वे महात्मानश्चत्वारोऽतिरथा भुवि |
५९ क
सञ्जय़ उवाच:
न शक्या धर्मतो हन्तुं लोकपालैरपि स्वय़म् ||
५९ ख
सञ्जय़ उवाच:
तथैवाय़ं गदापाणिर्धार्तराष्ट्रो गतक्लमः |
६० क
सञ्जय़ उवाच:
न शक्यो धर्मतो हन्तुं कालेनापीह दण्डिना ||
६० ख
सञ्जय़ उवाच:
न च वो हृदि कर्तव्यं यदय़ं घातितो नृपः |
६१ क
सञ्जय़ उवाच:
मिथ्यावध्यास्तथोपाय़ैर्वहवः शत्रवोऽधिकाः ||
६१ ख
सञ्जय़ उवाच:
पूर्वैरनुगतो मार्गो देवैरसुरघातिभिः |
६२ क
सञ्जय़ उवाच:
सद्भिश्चानुगतः पन्थाः स सर्वैरनुगम्यते ||
६२ ख
सञ्जय़ उवाच:
कृतकृत्याः स्म साय़ाह्ने निवासं रोचय़ामहे |
६३ क
सञ्जय़ उवाच:
साश्वनागरथाः सर्वे विश्रमामो नराधिपाः ||
६३ ख
सञ्जय़ उवाच:
वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सह |
६४ क
सञ्जय़ उवाच:
पाञ्चाला भृशसंहृष्टा विनेदुः सिंहसङ्घवत् ||
६४ ख
सञ्जय़ उवाच:
ततः प्राध्मापय़ञ्शङ्खान्पाञ्चजन्यं च माधवः |
६५ क
सञ्जय़ उवाच:
हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभाः ||
६५ ख