वैशम्पाय़न उवाच:
व्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षय़ः |
१ क
वैशम्पाय़न उवाच:
एकादश सुताः स्थाणोः ख्याताः परममानसाः ||
१ ख
वैशम्पाय़न उवाच:
मृगव्याधश्च शर्वश्च निरृतिश्च महाय़शाः |
२ क
वैशम्पाय़न उवाच:
अजैकपादहिर्वुध्न्यः पिनाकी च परन्तपः ||
२ ख
वैशम्पाय़न उवाच:
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः |
३ क
वैशम्पाय़न उवाच:
स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः ||
३ ख
वैशम्पाय़न उवाच:
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः |
४ क
वैशम्पाय़न उवाच:
षडेते व्रह्मणः पुत्रा वीर्यवन्तो महर्षय़ः ||
४ ख
वैशम्पाय़न उवाच:
त्रय़स्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः |
५ क
वैशम्पाय़न उवाच:
वृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः ||
५ ख
वैशम्पाय़न उवाच:
अत्रेस्तु वहवः पुत्राः श्रूय़न्ते मनुजाधिप |
६ क
वैशम्पाय़न उवाच:
सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षय़ः ||
६ ख
वैशम्पाय़न उवाच:
राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा |
७ क
वैशम्पाय़न उवाच:
पुलहस्य मृगाः सिंहा व्याघ्राः किम्पुरुषास्तथा ||
७ ख
वैशम्पाय़न उवाच:
क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः |
८ क
वैशम्पाय़न उवाच:
विश्रुतास्त्रिषु लोकेषु सत्यव्रतपराय़णाः ||
८ ख
वैशम्पाय़न उवाच:
दक्षस्त्वजाय़ताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः |
९ क
वैशम्पाय़न उवाच:
व्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः ||
९ ख
वैशम्पाय़न उवाच:
वामादजाय़ताङ्गुष्ठाद्भार्या तस्य महात्मनः |
१० क
वैशम्पाय़न उवाच:
तस्यां पञ्चाशतं कन्याः स एवाजनय़न्मुनिः ||
१० ख
वैशम्पाय़न उवाच:
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः |
११ क
वैशम्पाय़न उवाच:
पुत्रिकाः स्थापय़ामास नष्टपुत्रः प्रजापतिः ||
११ ख
वैशम्पाय़न उवाच:
ददौ स दश धर्माय़ सप्तविंशतिमिन्दवे |
१२ क
वैशम्पाय़न उवाच:
दिव्येन विधिना राजन्कश्यपाय़ त्रय़ोदश ||
१२ ख
वैशम्पाय़न उवाच:
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निवोध मे |
१३ क
वैशम्पाय़न उवाच:
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिय़ा तथा ||
१३ ख
वैशम्पाय़न उवाच:
वुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश |
१४ क
वैशम्पाय़न उवाच:
द्वाराण्येतानि धर्मस्य विहितानि स्वय़म्भुवा ||
१४ ख
वैशम्पाय़न उवाच:
सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः |
१५ क
वैशम्पाय़न उवाच:
कालस्य नय़ने युक्ताः सोमपत्न्यः शुभव्रताः |
१५ ख
वैशम्पाय़न उवाच:
सर्वा नक्षत्रय़ोगिन्यो लोकय़ात्राविधौ स्थिताः ||
१५ ग
वैशम्पाय़न उवाच:
पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः |
१६ क
वैशम्पाय़न उवाच:
तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् ||
१६ ख
वैशम्पाय़न उवाच:
धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः |
१७ क
वैशम्पाय़न उवाच:
प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः ||
१७ ख
वैशम्पाय़न उवाच:
धूम्राय़ाश्च धरः पुत्रो व्रह्मविद्यो ध्रुवस्तथा |
१८ क
वैशम्पाय़न उवाच:
चन्द्रमास्तु मनस्विन्याः श्वसाय़ाः श्वसनस्तथा ||
१८ ख
वैशम्पाय़न उवाच:
रताय़ाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः |
१९ क
वैशम्पाय़न उवाच:
प्रत्यूषश्च प्रभासश्च प्रभाताय़ाः सुतौ स्मृतौ ||
१९ ख
वैशम्पाय़न उवाच:
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा |
२० क
वैशम्पाय़न उवाच:
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ||
२० ख
वैशम्पाय़न उवाच:
सोमस्य तु सुतो वर्चा वर्चस्वी येन जाय़ते |
२१ क
वैशम्पाय़न उवाच:
मनोहराय़ाः शिशिरः प्राणोऽथ रमणस्तथा ||
२१ ख
वैशम्पाय़न उवाच:
अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः |
२२ क
वैशम्पाय़न उवाच:
अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालय़ः ||
२२ ख
वैशम्पाय़न उवाच:
तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः |
२३ क
वैशम्पाय़न उवाच:
कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय़ इति स्मृतः ||
२३ ख
वैशम्पाय़न उवाच:
अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः |
२४ क
वैशम्पाय़न उवाच:
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ||
२४ ख
वैशम्पाय़न उवाच:
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् |
२५ क
वैशम्पाय़न उवाच:
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ||
२५ ख
वैशम्पाय़न उवाच:
वृहस्पतेस्तु भगिनी वरस्त्री व्रह्मचारिणी |
२६ क
वैशम्पाय़न उवाच:
योगसिद्धा जगत्सर्वमसक्तं विचरत्युत |
२६ ख
वैशम्पाय़न उवाच:
प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ||
२६ ग
वैशम्पाय़न उवाच:
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः |
२७ क
वैशम्पाय़न उवाच:
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ||
२७ ख
वैशम्पाय़न उवाच:
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः |
२८ क
वैशम्पाय़न उवाच:
यो दिव्यानि विमानानि देवतानां चकार ह ||
२८ ख
वैशम्पाय़न उवाच:
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः |
२९ क
वैशम्पाय़न उवाच:
पूजय़न्ति च यं नित्यं विश्वकर्माणमव्ययम् ||
२९ ख
वैशम्पाय़न उवाच:
स्तनं तु दक्षिणं भित्त्वा व्रह्मणो नरविग्रहः |
३० क
वैशम्पाय़न उवाच:
निःसृतो भगवान्धर्मः सर्वलोकसुखावहः ||
३० ख
वैशम्पाय़न उवाच:
त्रय़स्तस्य वराः पुत्राः सर्वभूतमनोहराः |
३१ क
वैशम्पाय़न उवाच:
शमः कामश्च हर्षश्च तेजसा लोकधारिणः ||
३१ ख
वैशम्पाय़न उवाच:
कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना |
३२ क
वैशम्पाय़न उवाच:
नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः ||
३२ ख
वैशम्पाय़न उवाच:
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः |
३३ क
वैशम्पाय़न उवाच:
जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ||
३३ ख
वैशम्पाय़न उवाच:
त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी |
३४ क
वैशम्पाय़न उवाच:
असूय़त महाभागा सान्तरिक्षेऽश्विनावुभौ ||
३४ ख
वैशम्पाय़न उवाच:
द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप |
३५ क
वैशम्पाय़न उवाच:
तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ||
३५ ख
वैशम्पाय़न उवाच:
त्रय़स्त्रिंशत इत्येते देवास्तेषामहं तव |
३६ क
वैशम्पाय़न उवाच:
अन्वय़ं सम्प्रवक्ष्यामि पक्षैश्च कुलतो गणान् ||
३६ ख
वैशम्पाय़न उवाच:
रुद्राणामपरः पक्षः साध्यानां मरुतां तथा |
३७ क
वैशम्पाय़न उवाच:
वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च ||
३७ ख
वैशम्पाय़न उवाच:
वैनतेय़स्तु गरुडो वलवानरुणस्तथा |
३८ क
वैशम्पाय़न उवाच:
वृहस्पतिश्च भगवानादित्येष्वेव गण्यते ||
३८ ख
वैशम्पाय़न उवाच:
अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् |
३९ क
वैशम्पाय़न उवाच:
एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः |
३९ ख
वैशम्पाय़न उवाच:
यं कीर्तय़ित्वा मनुजः सर्वपापैः प्रमुच्यते ||
३९ ग
वैशम्पाय़न उवाच:
व्रह्मणो हृदय़ं भित्त्वा निःसृतो भगवान्भृगुः |
४० क
वैशम्पाय़न उवाच:
भृगोः पुत्रः कविर्विद्वाञ्शुक्रः कविसुतो ग्रहः ||
४० ख
वैशम्पाय़न उवाच:
त्रैलोक्यप्राणय़ात्रार्थे वर्षावर्षे भय़ाभय़े |
४१ क
वैशम्पाय़न उवाच:
स्वय़म्भुवा निय़ुक्तः सन्भुवनं परिधावति ||
४१ ख
वैशम्पाय़न उवाच:
योगाचार्यो महावुद्धिर्दैत्यानामभवद्गुरुः |
४२ क
वैशम्पाय़न उवाच:
सुराणां चापि मेधावी व्रह्मचारी यतव्रतः ||
४२ ख
वैशम्पाय़न उवाच:
तस्मिन्निय़ुक्ते विभुना योगक्षेमाय़ भार्गवे |
४३ क
वैशम्पाय़न उवाच:
अन्यमुत्पादय़ामास पुत्रं भृगुरनिन्दितम् ||
४३ ख
वैशम्पाय़न उवाच:
च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम् |
४४ क
वैशम्पाय़न उवाच:
यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय़ भारत ||
४४ ख
वैशम्पाय़न उवाच:
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः |
४५ क
वैशम्पाय़न उवाच:
और्वस्तस्यां समभवदूरुं भित्त्वा महाय़शाः |
४५ ख
वैशम्पाय़न उवाच:
महातपा महातेजा वाल एव गुणैर्युतः ||
४५ ग
वैशम्पाय़न उवाच:
ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् |
४६ क
वैशम्पाय़न उवाच:
जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः ||
४६ ख
वैशम्पाय़न उवाच:
रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः |
४७ क
वैशम्पाय़न उवाच:
सर्वशस्त्रास्त्रकुशलः क्षत्रिय़ान्तकरो वशी ||
४७ ख
वैशम्पाय़न उवाच:
और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् |
४८ क
वैशम्पाय़न उवाच:
तेषां पुत्रसहस्राणि वभूवुर्भृगुविस्तरः ||
४८ ख