chevron_left शान्ति पर्व अध्याय ६०
वैशम्पाय़न उवाच:
ततः पुनः स गाङ्गेय़मभिवाद्य पितामहम् |
१ क
वैशम्पाय़न उवाच:
प्राञ्जलिर्निय़तो भूत्वा पर्यपृच्छद्युधिष्ठिरः ||
१ ख
वैशम्पाय़न उवाच:
के धर्माः सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक् |
२ क
वैशम्पाय़न उवाच:
चतुर्णामाश्रमाणां च राजधर्माश्च के मताः ||
२ ख
वैशम्पाय़न उवाच:
केन स्विद्वर्धते राष्ट्रं राजा केन विवर्धते |
३ क
वैशम्पाय़न उवाच:
केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ ||
३ ख
वैशम्पाय़न उवाच:
कोशं दण्डं च दुर्गं च सहाय़ान्मन्त्रिणस्तथा |
४ क
वैशम्पाय़न उवाच:
ऋत्विक्पुरोहिताचार्यान्कीदृशान्वर्जय़ेन्नृपः ||
४ ख
वैशम्पाय़न उवाच:
केषु विश्वसितव्यं स्याद्राज्ञां कस्याञ्चिदापदि |
५ क
वैशम्पाय़न उवाच:
कुतो वात्मा दृढो रक्ष्यस्तन्मे व्रूहि पितामह ||
५ ख
भीष्म उवाच:
नमो धर्माय़ महते नमः कृष्णाय़ वेधसे |
६ क
भीष्म उवाच:
व्राह्मणेभ्यो नमस्कृत्वा धर्मान्वक्ष्यामि शाश्वतान् ||
६ ख
भीष्म उवाच:
अक्रोधः सत्यवचनं संविभागः क्षमा तथा |
७ क
भीष्म उवाच:
प्रजनः स्वेषु दारेषु शौचमद्रोह एव च ||
७ ख
भीष्म उवाच:
आर्जवं भृत्यभरणं नवैते सार्ववर्णिकाः |
८ क
भीष्म उवाच:
व्राह्मणस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम् ||
८ ख
भीष्म उवाच:
दममेव महाराज धर्ममाहुः पुरातनम् |
९ क
भीष्म उवाच:
स्वाध्याय़ोऽध्यापनं चैव तत्र कर्म समाप्यते ||
९ ख
भीष्म उवाच:
तं चेद्वित्तमुपागच्छेद्वर्तमानं स्वकर्मणि |
१० क
भीष्म उवाच:
अकुर्वाणं विकर्माणि शान्तं प्रज्ञानतर्पितम् ||
१० ख
भीष्म उवाच:
कुर्वीतापत्यसन्तानमथो दद्याद्यजेत च |
११ क
भीष्म उवाच:
संविभज्य हि भोक्तव्यं धनं सद्भिरितीष्यते ||
११ ख
भीष्म उवाच:
परिनिष्ठितकार्यस्तु स्वाध्याय़ेनैव व्राह्मणः |
१२ क
भीष्म उवाच:
कुर्यादन्यन्न वा कुर्यान्मैत्रो व्राह्मण उच्यते ||
१२ ख
भीष्म उवाच:
क्षत्रिय़स्यापि यो धर्मस्तं ते वक्ष्यामि भारत |
१३ क
भीष्म उवाच:
दद्याद्राजा न याचेत यजेत न तु याजय़ेत् ||
१३ ख
भीष्म उवाच:
नाध्यापय़ेदधीय़ीत प्रजाश्च परिपालय़ेत् |
१४ क
भीष्म उवाच:
नित्योद्युक्तो दस्युवधे रणे कुर्यात्पराक्रमम् ||
१४ ख
भीष्म उवाच:
ये च क्रतुभिरीजानाः श्रुतवन्तश्च भूमिपाः |
१५ क
भीष्म उवाच:
य एवाहवजेतारस्त एषां लोकजित्तमाः ||
१५ ख
भीष्म उवाच:
अविक्षतेन देहेन समराद्यो निवर्तते |
१६ क
भीष्म उवाच:
क्षत्रिय़ो नास्य तत्कर्म प्रशंसन्ति पुराविदः ||
१६ ख
भीष्म उवाच:
वधं हि क्षत्रवन्धूनां धर्ममाहुः प्रधानतः |
१७ क
भीष्म उवाच:
नास्य कृत्यतमं किञ्चिदन्यद्दस्युनिवर्हणात् ||
१७ ख
भीष्म उवाच:
दानमध्ययनं यज्ञो योगः क्षेमो विधीय़ते |
१८ क
भीष्म उवाच:
तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सता ||
१८ ख
भीष्म उवाच:
स्वेषु धर्मेष्ववस्थाप्य प्रजाः सर्वा महीपतिः |
१९ क
भीष्म उवाच:
धर्मेण सर्वकृत्यानि समनिष्ठानि कारय़ेत् ||
१९ ख
भीष्म उवाच:
परिनिष्ठितकार्यः स्यान्नृपतिः परिपालनात् |
२० क
भीष्म उवाच:
कुर्यादन्यन्न वा कुर्यादैन्द्रो राजन्य उच्यते ||
२० ख
भीष्म उवाच:
वैश्यस्यापीह यो धर्मस्तं ते वक्ष्यामि भारत |
२१ क
भीष्म उवाच:
दानमध्ययनं यज्ञः शौचेन धनसञ्चय़ः ||
२१ ख
भीष्म उवाच:
पितृवत्पालय़ेद्वैश्यो युक्तः सर्वपशूनिह |
२२ क
भीष्म उवाच:
विकर्म तद्भवेदन्यत्कर्म यद्यत्समाचरेत् |
२२ ख
भीष्म उवाच:
रक्षय़ा स हि तेषां वै महत्सुखमवाप्नुय़ात् ||
२२ ग
भीष्म उवाच:
प्रजापतिर्हि वैश्याय़ सृष्ट्वा परिददे पशून् |
२३ क
भीष्म उवाच:
व्राह्मणाय़ च राज्ञे च सर्वाः परिददे प्रजाः ||
२३ ख
भीष्म उवाच:
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् |
२४ क
भीष्म उवाच:
षण्णामेकां पिवेद्धेनुं शताच्च मिथुनं हरेत् ||
२४ ख
भीष्म उवाच:
लय़े च सप्तमो भागस्तथा शृङ्गे कला खुरे |
२५ क
भीष्म उवाच:
सस्यस्य सर्ववीजानामेषा सांवत्सरी भृतिः ||
२५ ख
भीष्म उवाच:
न च वैश्यस्य कामः स्यान्न रक्षेय़ं पशूनिति |
२६ क
भीष्म उवाच:
वैश्ये चेच्छति नान्येन रक्षितव्याः कथञ्चन ||
२६ ख
भीष्म उवाच:
शूद्रस्यापि हि यो धर्मस्तं ते वक्ष्यामि भारत |
२७ क
भीष्म उवाच:
प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पय़त् ||
२७ ख
भीष्म उवाच:
तस्माच्छूद्रस्य वर्णानां परिचर्या विधीय़ते |
२८ क
भीष्म उवाच:
तेषां शुश्रूषणाच्चैव महत्सुखमवाप्नुय़ात् ||
२८ ख
भीष्म उवाच:
शूद्र एतान्परिचरेत्त्रीन्वर्णाननसूय़कः |
२९ क
भीष्म उवाच:
सञ्चय़ांश्च न कुर्वीत जातु शूद्रः कथञ्चन ||
२९ ख
भीष्म उवाच:
पापीय़ान्हि धनं लव्ध्वा वशे कुर्याद्गरीय़सः |
३० क
भीष्म उवाच:
राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः ||
३० ख
भीष्म उवाच:
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् |
३१ क
भीष्म उवाच:
अवश्यभरणीय़ो हि वर्णानां शूद्र उच्यते ||
३१ ख
भीष्म उवाच:
छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च |
३२ क
भीष्म उवाच:
यातय़ामानि देय़ानि शूद्राय़ परिचारिणे ||
३२ ख
भीष्म उवाच:
अधार्याणि विशीर्णानि वसनानि द्विजातिभिः |
३३ क
भीष्म उवाच:
शूद्राय़ैव विधेय़ानि तस्य धर्मधनं हि तत् ||
३३ ख
भीष्म उवाच:
यश्च कश्चिद्द्विजातीनां शूद्रः शुश्रूषुराव्रजेत् |
३४ क
भीष्म उवाच:
कल्प्यां तस्य तु तेनाहुर्वृत्तिं धर्मविदो जनाः |
३४ ख
भीष्म उवाच:
देय़ः पिण्डोऽनपेताय़ भर्तव्यौ वृद्धदुर्वलौ ||
३४ ग
भीष्म उवाच:
शूद्रेण च न हातव्यो भर्ता कस्याञ्चिदापदि |
३५ क
भीष्म उवाच:
अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षय़े |
३५ ख
भीष्म उवाच:
न हि स्वमस्ति शूद्रस्य भर्तृहार्यधनो ह्यसौ ||
३५ ग
भीष्म उवाच:
उक्तस्त्रय़ाणां वर्णानां यज्ञस्त्रय़्यैव भारत |
३६ क
भीष्म उवाच:
स्वाहाकारनमस्कारौ मन्त्रः शूद्रे विधीय़ते ||
३६ ख
भीष्म उवाच:
ताभ्यां शूद्रः पाकय़ज्ञैर्यजेत व्रतवान्स्वय़म् |
३७ क
भीष्म उवाच:
पूर्णपात्रमय़ीमाहुः पाकय़ज्ञस्य दक्षिणाम् ||
३७ ख
भीष्म उवाच:
शूद्रः पैजवनो नाम सहस्राणां शतं ददौ |
३८ क
भीष्म उवाच:
ऐन्द्राग्नेन विधानेन दक्षिणामिति नः श्रुतम् ||
३८ ख
भीष्म उवाच:
अतो हि सर्ववर्णानां श्रद्धाय़ज्ञो विधीय़ते |
३९ क
भीष्म उवाच:
दैवतं हि महच्छ्रद्धा पवित्रं यजतां च यत् ||
३९ ख
भीष्म उवाच:
दैवतं परमं विप्राः स्वेन स्वेन परस्परम् |
४० क
भीष्म उवाच:
अय़जन्निह सत्रैस्ते तैस्तैः कामैः सनातनैः ||
४० ख
भीष्म उवाच:
संसृष्टा व्राह्मणैरेव त्रिषु वर्णेषु सृष्टय़ः |
४१ क
भीष्म उवाच:
देवानामपि ये देवा यद्व्रूय़ुस्ते परं हि तत् |
४१ ख
भीष्म उवाच:
तस्माद्वर्णैः सर्वय़ज्ञाः संसृज्यन्ते न काम्यया ||
४१ ग
भीष्म उवाच:
ऋग्यजुःसामवित्पूज्यो नित्यं स्याद्देववद्द्विजः |
४२ क
भीष्म उवाच:
अनृग्यजुरसामा तु प्राजापत्य उपद्रवः ||
४२ ख
भीष्म उवाच:
यज्ञो मनीषय़ा तात सर्ववर्णेषु भारत |
४३ क
भीष्म उवाच:
नास्य यज्ञहनो देवा ईहन्ते नेतरे जनाः |
४३ ख
भीष्म उवाच:
तस्मात्सर्वेषु वर्णेषु श्रद्धाय़ज्ञो विधीय़ते ||
४३ ग
भीष्म उवाच:
स्वं दैवतं व्राह्मणाः स्वेन नित्यं; परान्वर्णानय़जन्नेवमासीत् |
४४ क
भीष्म उवाच:
आरोचिता नः सुमहान्स धर्मः; सृष्टो व्रह्मणा त्रिषु वर्णेषु दृष्टः ||
४४ ख
भीष्म उवाच:
तस्माद्वर्णा ऋजवो जातिधर्माः; संसृज्यन्ते तस्य विपाक एषः |
४५ क
भीष्म उवाच:
एकं साम यजुरेकमृगेका; विप्रश्चैकोऽनिश्चय़स्तेषु दृष्टः ||
४५ ख
भीष्म उवाच:
अत्र गाथा यज्ञगीताः कीर्तय़न्ति पुराविदः |
४६ क
भीष्म उवाच:
वैखानसानां राजेन्द्र मुनीनां यष्टुमिच्छताम् ||
४६ ख
भीष्म उवाच:
उदितेऽनुदिते वापि श्रद्दधानो जितेन्द्रिय़ः |
४७ क
भीष्म उवाच:
वह्निं जुहोति धर्मेण श्रद्धा वै कारणं महत् ||
४७ ख
भीष्म उवाच:
यत्स्कन्नमस्य तत्पूर्वं यदस्कन्नं तदुत्तरम् |
४८ क