युधिष्ठिर उवाच:
दानं यज्ञक्रिय़ा चेह किं स्वित्प्रेत्य महाफलम् |
१ क
युधिष्ठिर उवाच:
कस्य ज्याय़ः फलं प्रोक्तं कीदृशेभ्यः कथं कदा ||
१ ख
युधिष्ठिर उवाच:
एतदिच्छामि विज्ञातुं याथातथ्येन भारत |
२ क
युधिष्ठिर उवाच:
विद्वञ्जिज्ञासमानाय़ दानधर्मान्प्रचक्ष्व मे ||
२ ख
युधिष्ठिर उवाच:
अन्तर्वेद्यां च यद्दत्तं श्रद्धय़ा चानृशंस्यतः |
३ क
युधिष्ठिर उवाच:
किं स्विन्निःश्रेय़सं तात तन्मे व्रूहि पितामह ||
३ ख
भीष्म उवाच:
रौद्रं कर्म क्षत्रिय़स्य सततं तात वर्तते |
४ क
भीष्म उवाच:
तस्य वैतानिकं कर्म दानं चैवेह पावनम् ||
४ ख
भीष्म उवाच:
न तु पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः |
५ क
भीष्म उवाच:
एतस्मात्कारणाद्यज्ञैर्यजेद्राजाप्तदक्षिणैः ||
५ ख
भीष्म उवाच:
अथ चेत्प्रतिगृह्णीय़ुर्दद्यादहरहर्नृपः |
६ क
भीष्म उवाच:
श्रद्धामास्थाय़ परमां पावनं ह्येतदुत्तमम् ||
६ ख
भीष्म उवाच:
व्राह्मणांस्तर्पय़ेद्द्रव्यैस्ततो यज्ञे यतव्रतः |
७ क
भीष्म उवाच:
मैत्रान्साधून्वेदविदः शीलवृत्ततपोन्वितान् ||
७ ख
भीष्म उवाच:
यत्ते तेन करिष्यन्ति कृतं तेन भविष्यति |
८ क
भीष्म उवाच:
यज्ञान्साधय़ साधुभ्यः स्वाद्वन्नान्दक्षिणावतः ||
८ ख
भीष्म उवाच:
इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा |
९ क
भीष्म उवाच:
पूजय़ेथा याय़जूकांस्तवाप्यंशो भवेद्यथा ||
९ ख
भीष्म उवाच:
प्रजावतो भरेथाश्च व्राह्मणान्वहुभारिणः |
१० क
भीष्म उवाच:
प्रजावांस्तेन भवति यथा जनय़िता तथा ||
१० ख
भीष्म उवाच:
यावतो वै साधुधर्मान्सन्तः संवर्तय़न्त्युत |
११ क
भीष्म उवाच:
सर्वे ते चापि भर्तव्या नरा ये वहुभारिणः ||
११ ख
भीष्म उवाच:
समृद्धः सम्प्रय़च्छस्व व्राह्मणेभ्यो युधिष्ठिर |
१२ क
भीष्म उवाच:
धेनूरनडुहोऽन्नानि च्छत्रं वासांस्युपानहौ ||
१२ ख
भीष्म उवाच:
आज्यानि यजमानेभ्यस्तथान्नाद्यानि भारत |
१३ क
भीष्म उवाच:
अश्ववन्ति च यानानि वेश्मानि शय़नानि च ||
१३ ख
भीष्म उवाच:
एते देय़ा व्युष्टिमन्तो लघूपाय़ाश्च भारत |
१४ क
भीष्म उवाच:
अजुगुप्सांश्च विज्ञाय़ व्राह्मणान्वृत्तिकर्शितान् ||
१४ ख
भीष्म उवाच:
उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपादय़ |
१५ क
भीष्म उवाच:
राजसूय़ाश्वमेधाभ्यां श्रेय़स्तत्क्षत्रिय़ान्प्रति ||
१५ ख
भीष्म उवाच:
एवं पापैर्विमुक्तस्त्वं पूतः स्वर्गमवाप्स्यसि |
१६ क
भीष्म उवाच:
स्रंसय़ित्वा पुनः कोशं यद्राष्ट्रं पालय़िष्यसि ||
१६ ख
भीष्म उवाच:
ततश्च व्रह्मभूय़स्त्वमवाप्स्यसि धनानि च |
१७ क
भीष्म उवाच:
आत्मनश्च परेषां च वृत्तिं संरक्ष भारत ||
१७ ख
भीष्म उवाच:
पुत्रवच्चापि भृत्यान्स्वान्प्रजाश्च परिपालय़ |
१८ क
भीष्म उवाच:
योगक्षेमश्च ते नित्यं व्राह्मणेष्वस्तु भारत ||
१८ ख
भीष्म उवाच:
अरक्षितारं हर्तारं विलोप्तारमदाय़कम् |
१९ क
भीष्म उवाच:
तं स्म राजकलिं हन्युः प्रजाः सम्भूय़ निर्घृणम् ||
१९ ख
भीष्म उवाच:
अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः |
२० क
भीष्म उवाच:
स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ||
२० ख
भीष्म उवाच:
पापं कुर्वन्ति यत्किञ्चित्प्रजा राज्ञा ह्यरक्षिताः |
२१ क
भीष्म उवाच:
चतुर्थं तस्य पापस्य राजा भारत विन्दति ||
२१ ख
भीष्म उवाच:
अप्याहुः सर्वमेवेति भूय़ोऽर्धमिति निश्चय़ः |
२२ क
भीष्म उवाच:
चतुर्थं मतमस्माकं मनोः श्रुत्वानुशासनम् ||
२२ ख
भीष्म उवाच:
शुभं वा यत्प्रकुर्वन्ति प्रजा राज्ञा सुरक्षिताः |
२३ क
भीष्म उवाच:
चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत ||
२३ ख
भीष्म उवाच:
जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर |
२४ क
भीष्म उवाच:
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः ||
२४ ख
भीष्म उवाच:
कुवेरमिव रक्षांसि शतक्रतुमिवामराः |
२५ क
भीष्म उवाच:
ज्ञातय़स्त्वानुजीवन्तु सुहृदश्च परन्तप ||
२५ ख